भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.14

4.14.1

सताम् अप्य् असताम् एव बालयक्षपिशाचवत् ।
दामव्यालकटादीनां दुःखस्यान्तः कथं भवेत् ॥

4.14.2

दामव्यालकटार्थं तैस् तदैव यमकिङ्करैः ।
प्रार्थितेन यमेनोक्तम् इदं शृणु रघूद्वह ॥

4.14.3

यदा वियोगम् एष्यन्ति श्रोष्यन्ति च निजां कथाम् ।
दामादयस् तदा मुक्ता भविष्यन्तीत्य् असंशयम् ॥

4.14.4

स्ववृत्तान्तम् इमं कुत्र कदा कथय ते कथम् ।
श्रोष्यन्ति भगवन् केन वर्ण्यमानं कथाक्रमम् ॥

4.14.5

कश्मीरेषु महापद्मसरसीतीरपल्वले ।
भूयो भूयो ऽनुभूयैते मत्स्ययोनिपरम्पराम् ॥

4.14.6

आलानिताशया लोलाः कालेन लयम् आगताः ।
तत्रैव पद्मसरसि ते भविष्यन्ति सारसाः ॥

4.14.7

तत्र कल्हारमालासु सरोजपटलीषु च ।
शेवालवरवल्लीषु तरङ्गवलनासु च ॥

4.14.8

ललत्कुमुददोलासु नीलोत्पललतासु च ।
शीकरौघाभ्रलेखासु शीतलावर्तवृत्तिषु ॥

4.14.9

सरस्सारससम्भोगान् भुक्त्वा भुवनभूषणाः ।
विहृत्य सुचिरं कालम् अलम् आगतशुद्धयः ॥

4.14.10

ते वियुक्ता भविष्यन्ति मुक्तये लब्धयुक्तयः ।
रजस्सत्त्वतमांसीव भेदप्राप्त्या यदृच्छया ॥

4.14.11

कश्मीरमण्डलस्यान्तर् नगरं नगशोभितम् ।
नाम्नाधिष्ठानम् इत्य् एतच् छ्रीमत् तत्र भविष्यति ॥

4.14.12

प्रद्युम्नशिखरं नाम तस्य मध्ये भविष्यति ।
शृङ्गं लघु सरोजस्य कोशचक्रम् इवोदरे ॥

4.14.13

तस्मिन् मूर्ध्नि गिरेर् गेहं को ऽपि राजा करिष्यति ।
अभ्रङ्कषमहासालं शृङ्गे शृङ्गम् इवापरम् ॥

4.14.14

गृहस्येशानकोणाद्रिशिरोभित्तिव्रणोदरे ।
तस्यानिशम् अविश्रान्तवातोद्धूततृणाङ्किते ॥

4.14.15

आलये दानवो व्यालः कलविङ्को भविष्यति ।
प्रथमाल्पश्रुतच्छात्त्र इवार्थरहितारटिः ॥

4.14.16

तस्मिन्न् एव तदा काले तत्र राजा भविष्यति ।
श्रीयशस्करदेवाख्यश् स्वर्गे शक्र इवापरः ॥

4.14.17

दानवो दामनामान्तर् मषकस् तस्य सद्मनि ।
भविष्यति बृहत्स्तम्भपृष्ठच्छिद्रे मृदुध्वनिः ॥

4.14.18

अधिष्ठानाभिधे तस्मिन्न् एवोग्रनगरे तदा ।
रत्नावलीविहाराख्यो विहारो ऽपि भविष्यति ॥

4.14.19

तस्मिंस् तद्भूमिपामात्यो नरसिंह इति श्रुतः ।
करामलकवद् दृष्टबन्धमोक्षो भविष्यति ॥

4.14.20

भविष्यति गृहे तस्य क्रीडनक्रकरः खगः ।
कटो मायासुरो नाम कृतहिञ्जीरपञ्जरः ॥

4.14.21

स नृसिंहो नृपामात्यश् श्लोकैर् विरचिताम् इमाम् ।
दामव्यालकटादीनां कथयिष्यति सङ्कथाम् ॥

4.14.22

स कटः क्रकरश् श्रुत्वा तां कथां संस्मृतात्मभूः ।
शान्तमिथ्याहमंशो ऽन्तः परं निर्वाणम् एष्यति ॥

4.14.23

प्रद्युम्नशिखरप्रान्तवास्तव्यः कलविङ्ककः ।
तथैत्य स्वकथां श्रुत्वा परं निर्वाणम् एष्यति ॥

4.14.24

राजमन्दिरदार्वन्तर् व्रणवास्तव्यतां गतः ।
मषको ऽपि प्रसङ्गेन श्रुत्वा शान्तिम् उपैष्यति ॥

4.14.25

प्रद्युम्नशृङ्गाच् चटको मषको राजमन्दिरात् ।
विहारात् क्रकरश् चेति मोक्षम् एष्यन्ति राघव ॥

4.14.26

एष ते कथितस् सर्वो दामव्यालकटक्रमः ।
मायेयम् एव संसारी शून्यैवात्यन्तभासुरा ॥

4.14.27

भ्रमयत्य् अपरिज्ञाता मृगतृष्णाम्बुधीर् इव ।
संशाम्यति परिज्ञाता मृगतृष्णाम्बुधीर् इव ॥

4.14.28

महतो ऽपि पदाद् एवं रामाज्ञानवशाद् अधः ।
पतन्ति मोहिता मूढा दामव्यालकटा इव ॥

4.14.29

क्व भ्रूक्षेपविनिष्पिष्टमेरुमन्दरसह्यता ।
क्व राजगृहदार्वन्तर् व्रणे मषकरूपता ॥

4.14.30

क्व चपेटच्छटामात्रपातितार्केन्दुबिम्बता ।
क्व प्रद्युम्नगिरौ गेहभित्तिव्रणविहङ्गता ॥

4.14.31

क्व पुष्पलीलयालोलकरतोलितमेरुता ।
क्वार्ष्यशृङ्गे नृसिंहस्य गृहे क्रकरपोतता ॥

4.14.32

चिदाकाशो हि मिथ्यैव रजसा रञ्जितप्रभः ।
स्वरूपम् अत्यजन्न् एव विरूपम् इव बुध्यते ॥

4.14.33

स्वयैव वासनाभ्रान्त्या सत्ययेवाप्य् असत्यया ।
मृगतृष्णाम्बुबुद्ध्येव याति जन्तुर् अवान्तरम् ॥

4.14.34

तरन्ति ते भवाम्भोधिं स्वप्रवाहधियैव ये ।
शास्त्रेणासद् इदं दृश्यम् इति निर्वासनं स्थिताः ॥

4.14.35

तारारवविकारीणि शुष्कतर्कमतानि ये ।
यान्ति श्वभ्रजलान्य् आशु नाशुभं नाशयन्ति ते ॥

4.14.36

स्वानुभूतिप्रसिद्धेन मार्गेणागमगामिना ।
न विनाशो भवत्य् अङ्ग गच्छतां पतताम् इव ॥

4.14.37

इदं मे स्याद् इदं मे स्याद् इति बुद्धिमतां मतिः ।
स्वेन दौर्भाग्यदैन्येन न भस्माप्य् उपतिष्ठते ॥

4.14.38

वेत्ति नित्यम् उदारात्मा त्रैलोक्यम् अपि यस् तृणम् ।
तं त्यजन्त्य् आपदस् सर्वा रसतेव जरत्तृणम् ॥

4.14.39

परिस्फुरति यस्यान्तर् नित्यं सत्त्वचमत्कृतिः ।
ब्राह्मम् अण्डम् इवाखण्डं लोकेशाः पालयन्ति तम् ॥

4.14.40

अप्य् आपदि दुरन्तायां नैव रन्तव्यम् अक्रमे ।
राहुर् अप्य् अक्रमेणैव पिबन्न् अप्य् अमृतं मृतः ॥

4.14.41

सच्छास्त्रसाधुसम्पर्कम् अर्कम् उग्रप्रकाशदम् ।
ये श्रयन्ति न ते यान्ति मोहान्ध्यस्य पुनर् वशम् ॥

4.14.42

अवश्या वश्यम् आयान्ति यान्ति सर्वापदः क्षयम् ।
अवश्यं भवति श्रेयः क्रेयं यस्य गुणैर् यशः ॥

4.14.43

येषां गुणेष्व् असन्तोषो ऽरागो येषां श्रुतं प्रति ।
सत्य् अव्यसनिनो ये च ते नराः पशवो ऽपरे ॥

4.14.44

यशश्चन्द्रिकया येषां भासितं जनहृन्नभः ।
तेषां क्षीरसमुद्राणां नूनं मूर्तौ स्थितो हरिः ॥

4.14.45

भुक्तं भोक्तव्यम् अखिलं दृष्टा द्रष्टव्यदृष्टयः ।
किम् अन्यद् भवभङ्गाय भूयोभोगेष्व् अलुब्धता ॥

4.14.46

यथाक्रमं यथाशास्त्रं यथाचारं यथास्थिति ।
स्थीयतां मुच्यताम् अन्तर् भोगगार्ध्यम् अवास्तवम् ॥

4.14.47

संस्तवः क्रियतां कीर्त्या गुणैर् गगनगामिभिः ।
त्रायन्ते मृत्युनोपेतं न कदाचन भोगकाः ॥

4.14.48

गायन्ति सिद्धसुन्दर्यो येषाम् इन्दुसितं यशः ।
गीतिभिर् गगनाभोगे ते जीवन्ति मृताः परे ॥

4.14.49

परमं पौरुषं यत्नम् आस्थायादाय सूद्यमम् ।
यथाशास्त्रम् अनुद्वेगम् आचारात् को न सिद्धिभाक् ॥

4.14.50

यथाशास्त्रं विहरता त्वरा कार्या न सिद्धिषु ।
चिरकालपरा पक्वा सिद्धिः पुष्टतरा भवेत् ॥

4.14.51

वीतशोकभयायासम् अगर्धम् अपयन्त्रणम् ।
व्यवहारो यथाशास्त्रं क्रियतां मा विनश्यताम् ॥

4.14.52

जीवो जीर्णान्धकूपेषु भवेष्व् अन्तर्धिम् आगतः ।
भवतां भूरिभङ्गानाम् अधुनोद्ध्रियताम् अतः ॥

4.14.53

इतः प्रभृति मा भूयो गम्यताम् अधराद् अधः ।
इदं निर्धार्यतां शास्त्रम् अस्त्रम् आपन्निवारणे ॥

4.14.54

रणे रभसनिर्लूनवारणे प्राणम् उज्झताम् ।
किम् अर्थमात्रया कार्यम् आर्याश् शास्त्रम् अवेक्ष्यताम् ॥

4.14.55

इदं बिम्बम् इदं निम्बम् इति मत्या विचार्यताम् ।
स्वया परप्रेरणया यात मा पशवो यथा ॥

4.14.56

दौर्भाग्यदायिनी दीना शुभहीनाविचारणा ।
घनदीर्घमहानिद्रा त्यज्यतां सम्प्रबुध्यताम् ॥

4.14.57

सुप्तं मा स्थीयतां वृद्धमन्दकच्छपवच् छनैः ।
उत्थानम् अङ्गीक्रियतां जरामरणशान्तये ॥

4.14.58

अनर्थायार्थसम्पत्तिर् भोगौघो भवरोगदः ।
आपदे सम्पदस् सर्वास् सर्वत्रानादरो जयः ॥

4.14.59

लोकतन्त्रानुसारेण विचाराद् व्यवहारिणाम् ।
शास्त्राचाराविरुद्धेन कर्मणा शर्म सिध्यति ॥

4.14.60

स्वाचारचारुचरितस्य विविक्तवृत्तेस् संसारदुःखलवसौख्यदशास्व् अगृध्नोः ।
आयुर् यशांसि च गुणाश् च सहैव लक्ष्म्या फुल्लन्ति माधवलता इव सत्फलाय ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc