भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.13

4.13.1

अतः प्रबोधाय तव वच्मि राम महामते ।
दामव्यालकटन्यायो मा ते ऽस्त्व् इति न लीलया ॥

4.13.2

अविवेकानुसन्धानाच् चित्तम् आपदम् ईदृशीम् ।
अनन्ततरदुःखाय परिगृह्णाति लीलया ॥

4.13.3

क्व किलामरविध्वंसिशम्बरानीकनाथता ।
क्व तापतप्तजम्बालजलजर्जरमीनता ॥

4.13.4

क्व धैर्यम् अमरानीकविद्रावणकरं महत् ।
क्व किरातमहीपालक्षुद्रकिङ्कररूपता ॥

4.13.5

क्व नाम निरहङ्कारचित्सत्त्वोदारधीरता ।
क्व मिथ्यावासनावेशाद् अहङ्कारकुकल्पना ॥

4.13.6

शाखाप्रतानगहना संसारविषमञ्जरी ।
अहङ्काराङ्कुराद् एव समुदेतीयम् आतता ॥

4.13.7

अहङ्कारम् अतो राम मार्जयान्तः प्रयत्नतः ।
अहं न कश्चिद् एवेति मार्जयित्वा सुखी भव ॥

4.13.8

अहङ्काराम्बुदच्छन्नं परमार्थेन्दुमण्डलम् ।
रसायनमयं शीतम् अदृश्यत्वम् उपागतम् ॥

4.13.9

अहङ्कारपिशाचात्ता दामव्यालकटास् त्रयः ।
गतास् सत्ताम् असन्तो ऽपि मायामाहात्म्यदानवाः ॥

4.13.10

कश्मीरेषु महापद्मसरसीतीरपल्वले ।
अद्य मत्स्यास् स्थिता राम शेवाललवलालसाः ॥

4.13.11

नासतो विद्यते भावो नाभावो विद्यते सतः ।
ते ह्य् असन्तः कथं सन्तस् सम्पन्ना इति मे वद ॥

4.13.12

एवम् एतन् महाबाहो नासद् भवति हि क्वचित् ।
कदाचित् किञ्चिद् अप्य् एतद् बृहद् भवति वा तनु ॥

4.13.13

किम् असत् सत् स्थितं ब्रूहि किं तत् सद् वाप्य् असत् स्थितम् ।
निदर्शनेनानेनैव करिष्ये त्वद्विबोधनम् ॥

4.13.14

सन्त एव स्थितास् सन्तो ब्रह्मन् वयम् इमे किल ।
दामादयस् त्व् असन्तो ऽपि वक्षि सन्तस् स्थिता इति ॥

4.13.15

यथा दामादयो राम स्थिता मायामया इह ।
असत्या एव सत्याभा मृगतृष्णाम्बुपूरवत् ॥

4.13.16

तथैवेमे वयम् अपि ससुरासुरदानवाः ।
असत्या एव वल्गामो याम आयाम एव च ॥

4.13.17

अलीकम् एव त्वद्भावो मद्भावो ऽलीक एव च ।
अनुभूतो ऽप्य् असद्रूपस् स्वप्ने स्वमरणं यथा ॥

4.13.18

मृतो बन्धुर् यथा स्वप्ने ऽप्य् अनुभूतो ऽप्य् असन्मयः ।
मृतो ऽयम् इति च ज्ञप्तिर् भवेद् एवम् इदं जगत् ॥

4.13.19

एषा हि मूढविषया उक्तिर् एव न राजते ।
अभ्यासेन विनोदेति नानुभूतेर् अपह्नवः ॥

4.13.20

निश्चयो ऽन्तः प्ररूढो यस् स यत्नाभ्यसनं विना ।
नाशम् आयाति लोके ऽस्मिन् न कदाचन कस्यचित् ॥

4.13.21

इदं जगद् असद् ब्रह्म सत्यम् इत्य् एव वक्ति यः ।
तम् उन्मत्तम् इवोन्मत्ता विमूढा विहसन्त्य् अलम् ॥

4.13.22

अक्षीवक्षीवयोर् ऐक्यं क्व किलेहाज्ञतज्ज्ञयोः ।
अन्धप्रकाशयोर् बोधे स्याच् छायातपयोर् इव ॥

4.13.23

यत्नेनाप्य् अनुभूते ऽर्थे सत्ये कर्तुम् अपह्नवम् ।
तज्ज्ञो ऽज्ञश् च न शक्नोति शव आक्रमणं यथा ॥

4.13.24

ब्रह्म सर्वं जगद् इति वक्तुं तज्ज्ञस्य युज्यते ।
यतो ऽविद्याननुभवे स तद् एवानुभूतवान् ॥

4.13.25

प्रबुद्धविषये ह्य् एषा राम वाक् प्रविराजते ।
बुद्धस्यास्मीति रूपेण किल नास्त्य् एव किञ्चन ॥

4.13.26

ब्रह्मैवेदं परं शान्तम् इत्य् एवानुभवन् सुधीः ।
अपह्नवस् स्वानुभूतेः कर्तुं तस्य क्व युज्यते ॥

4.13.27

परस्माद् व्यतिरेकेण नाहम् आत्मनि किञ्चन ।
हेमनीवोर्मिकादित्वं न मय्य् अस्ति वसिष्ठता ॥

4.13.28

भूतत्वव्यतिरेकेण मूढो नात्मनि किञ्चन ।
ऊर्म्यादिबुद्धौ हेमेव नाज्ञे ऽस्ति परमार्थता ॥

4.13.29

मिथ्याहन्तामयो मूढस् सत्यैकात्ममयस् सुधीः ।
युज्यते न क्वचिन् नाम स्वभावापह्नवो ऽनयोः ॥

4.13.30

यो यन्मयस् तस्य तस्मिन् युज्यते ऽपह्नवः कथम् ।
पुरुषस्य घटो ऽस्मीति वाक्यम् उन्मत्ततैव हि ॥

4.13.31

तस्मान् नेमे वयं सत्या न च दामादयः क्वचित् ।
असत्यास् ते वयं चेमे नास्ति नः खलु सम्भवः ॥

4.13.32

सत्यसंवेदनं शुद्धं बोधाकाशं निरञ्जनम् ।
सत्यं सर्वगतं शान्तम् अस्त्य् अनस्तमितोदयम् ॥

4.13.33

सर्वं सत् तच् च निश्शून्यं नकिञ्चिद् इव संस्थितम् ।
तत्र व्योम्नि विभान्तीमा निजा भासो ऽङ्ग दृष्टयः ॥

4.13.34

यथा तैमिरिकाक्षस्य सहजा एव दृष्टयः ।
केशोण्डुकादिवद् भान्ति तथेमास् तत्र सृष्टयः ॥

4.13.35

स आत्मानं यथा वेत्ति तथानुभवति क्षणात् ।
चिदाकाशस् ततो ऽसत्यम् अपि सत्यं तदीक्षणात् ॥

4.13.36

न सत्यम् अपि नासत्यम् इह तस्माज् जगत्त्रये ।
यद् यथा वेत्ति चिद् रूपं तत् तथोदेत्य् असंशयम् ॥

4.13.37

यथा दामादयस् तद्वद् एवेमे ऽभ्युदिता वयम् ।
सत्यासत्याः किम् अत्राङ्ग तान् प्रत्य् अपि विकल्पना ॥

4.13.38

अस्यानन्तस्य चिद्व्योम्नस् सर्वगस्य निराकृतेः ।
चिद् उदेति यथा यान्तस् तथा सा तत्र भात्य् अलम् ॥

4.13.39

यत्र दामादिरूपेण संवित् प्रकचते स्वयम् ।
तथासौ तत्र सम्पन्ना तथाकारानुभूतितः ॥

4.13.40

स्वस्वप्नप्रतिभासस्य जगद् इत्य् अभिधा कृता ।
चिद्व्योम्नो व्योमवपुषस् तापस्येव मृगाम्बुता ॥

4.13.41

यत्र प्रबुद्धं चिद्व्योम तत्र दृश्याभिधा कृता ।
यत्र सुप्तं तु तेनैव तत्र मोक्षाभिधा कृता ॥

4.13.42

न च तत् क्वचिद् आसुप्तं न प्रबुद्धं कदाचन ।
चिद्व्योम केवलं दृश्यं जगद् इत्य् अवगम्यताम् ॥

4.13.43

निर्वाणम् एव सर्गश्रीस् सर्गश्रीर् एव निर्वृतिः ।
नानयोश् शब्दयोर् अर्थभेदः पर्याययोर् इव ॥

4.13.44

परमार्थे जगद् इति रूपं वेत्ति स्वयं स्वकम् ।
यथा तैमिरिकं चक्षुः केशोण्डुकम् इवेक्षितम् ॥

4.13.45

न तत् केशोण्डुकं किञ्चित् सा हि दृष्टिस् तथा स्थिता ।
नेदं दृश्यम् इदं किञ्चिद् इत्थं चिद्व्योम संस्थितम् ॥

4.13.46

सर्वत्र सर्वम् इदम् अस्ति यथानुभूतं नो किञ्चन क्वचिद् इहास्ति च नानुभूतम् ।
शान्तं सद् एकम् इदम् आततम् इत्थम् आस्ते सन्त्यक्तशङ्कम् अपभेदम् अतस् त्वम् आस्स्व ॥

4.13.47

शिलोदराकारघनं प्रशान्तम् महाचितो रूपम् इदं खम् अच्छम् ।
नैवास्ति नास्तीति दृशौ क्वचित् स्तो यच् चास्ति तत् साधु तद् एव भाति ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc