मोक्षोपाय · अध्याय 4.12
इति तुष्टेषु देवेषु दानवेषु हतेषु च ।
दामव्यालकटा दीना बभूवुर् भयविह्वलाः ॥
जज्वाल ज्वलितः कोपी कल्पान्ताग्निर् इव ज्वलन् ।
शम्बरश् शमितानीको दामव्यालकटान् प्रति ॥
शम्बरस्य भयाद् गत्वा पातालम् अथ सप्तमम् ।
दामव्यालकटास् तस्थुस् त्यक्त्वा दानवमण्डलम् ॥
यमस्य किङ्करास् तत्र वेतालत्रासनक्षमाः ।
कुकुहा नाम तिष्ठन्ति नरकार्णवपालकाः ॥
चिन्ता इव घनाकारा दुहितॄस् तु क्रमाद् ददुः ॥
तैस् सार्धं नीतवन्तस् ते तत्र दामादयो ऽवधिम् ।
दशवर्षसहस्रान्ताम् आत्तानन्तकुवासनाः ॥
इयं मे वनिता रम्या ममेयं प्रभुतेति च ।
कुकुहस्नेहबद्धानां कालस् तेषां व्यवर्तत ॥
धर्मराजो ऽथ तं देशं कदाचित् समुपाययौ ।
महानरककार्याणां विचारार्थं यदृच्छया ॥
अपरिज्ञातम् एनं ते धर्मराजं त्रयो ऽसुराः ।
न प्रणेमुर् विनाशाय सामान्यम् इव किङ्करम् ॥
अथ वैवस्वतेनैते ज्वलितश्वभ्रभूमिषु ।
विहितभ्रूपरिस्पन्दम् आदेशेन निवेशिताः ॥
तत्र ते करुणाक्रन्दास् ससुहृद्दारबान्धवाः ।
दग्धास् सपर्णविटपा वृक्षा इव दवानलैः ॥
स्वया वासनया जातास् तथैव क्रूरया पुनः ।
वधकर्मकराकाराः कैराता राजकिङ्कराः ॥
तज् जन्माथ परित्यज्य जातास् सुह्मेषु वायसाः ।
तदन्ते गृध्रतां यातास् ततो ऽपि बकतां गताः ॥
शवरत्वं त्रिगर्तेषु मेषत्वं बर्बरेषु च ।
मगधेष्व् अथ कीटत्वं चक्रुस् ते वक्रबुद्धयः ॥
अनुभूयेतराम् अत्र चित्रां योनिपरम्पराम् ।
अद्य मत्स्यास् स्थिता राम कश्मीरारण्यपल्वले ॥
दावाग्निक्वथिताल्पाल्पपङ्ककल्कानुपायिनः ।
न म्रियन्ते न जीवन्ति जरज्जम्बालजर्जराः ॥
विचित्रयोनिसंरम्भम् अनुभूय पुनः पुनः ।
भूत्वा भूत्वा पुनर् नष्टास् तरङ्गा जलधाव् इव ॥
भवजलधिगतास् ते वासनावातनुन्नास् तृणम् इव चिरम् ऊढा देहरूपैस् तरङ्गैः ।
उपशमम् अनुयाता राम नाद्याप्य् अनन्तं परिकलय महत्त्वं दारुणं वासनायाः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0