भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.1

4.1.1

अथोत्पत्तिप्रकरणाद् अनन्तरम् इदं शृणु ।
स्थितिप्रकरणं राम ज्ञातं निर्वाणकारि यत् ॥

4.1.2

जीवबीजं परं ब्रह्म सर्वत्र खम् इव स्थिरम् ।
तेन जीवोदरजगत्य् अपि जीवो ऽस्त्य् अनेकधा ॥

4.1.3

चिद्घनैकघनात्मत्वाज् जीवान्तर् जीवजातयः ।
कदलीदलवत् सन्ति कीटा इव नरोदरे ॥

4.1.4

यो यो राम यथा ग्रीष्मे कल्कस्वेदाद् भवेत् क्रिमिः ।
तत्तन्नाम तथा चित्त्वात् खं जीवीभवति स्वतः ॥

4.1.5

यथा यथा यतन्ते ते जीवकास् स्वात्मसिद्धये ।
तथा तथा भवन्त्य् आशु विचित्रोपासनक्रमैः ॥

4.1.6

देवान् देवयजो यक्षयजो यक्षान् व्रजन्ति हि ।
ब्रह्म ब्रह्मयजो यान्ति यद् अतुच्छं तद् आश्रयेत् ॥

4.1.7

स शुक्रो भृगुपुत्रो हि निर्मलत्वात् स्वसंविदः ।
बद्धः प्रथमदृष्टेन दृश्येनाशु स्वभावतः ॥

4.1.8

अभिजातापरिम्लाना बाला यत् प्रथमं पुरः ।
संवित् प्राप्नोति तद्रूपा भवत्य् अन्या न काचन ॥

4.1.9

जाग्रत्स्वप्नदशाभेदं भगवन् वक्तुम् अर्हसि ।
कथं च जाग्रज् जाग्रत् स्यात् स्वप्नो ऽजाग्रत् कथं भवेत् ॥

4.1.10

स्थिरप्रत्यययुक्तं यत् तज् जाग्रद् इति कथ्यते ।
अस्थिरप्रत्ययं यत् स्यात् स स्वप्नस् समुदाहृतः ॥

4.1.11

जाग्रच् चेत् क्षणदृष्टं स्यात् स्वप्नः कालान्तरस्थितः ।
तज् जाग्रत् स्वप्नताम् एति स्वप्नो जाग्रत्त्वम् ऋच्छति ॥

4.1.12

जाग्रत्स्वप्नदशाभेदो न स्थिरास्थिरतां विना ।
समस् सदैव सर्वत्र समस्तानुभवो ऽनयोः ॥

4.1.13

यद् एव स्थिरताम् एति तज् जाग्रद् इति कथ्यते ।
क्षणभङ्गात्मकस् स्वप्नो यथा भवति तच् छृणु ॥

4.1.14

जीवधातुश् शरीरे ऽन्तर् विद्यते येन जीव्यते ।
तेजो वीर्यं जीवधातुर् इत्याद्यभिधम् अङ्ग तत् ॥

4.1.15

व्यवहारी यदा कायो मनसा कर्मणा गिरा ।
भवेत् तदा स सम्पन्नो जीवधातुः प्रसर्पति ॥

4.1.16

तस्मिन् प्रसर्पत्य् अङ्गेषु स्पर्शात् संविद् उदेति हि ।
पुष्टत्वात् सैति चित्ताख्याम् अन्तर्लीनजगद्भ्रमा ॥

4.1.17

सेक्षणादिषु रन्ध्रेषु प्रसर्पन्ती बहिर्मयम् ।
नानाकारविकाराढ्यं रूपम् आत्मनि पश्यति ॥

4.1.18

तत्स्थिरत्वात् तथैवाथ जाग्रद् इत्य् अवगम्यते ।
जाग्रत्क्रम इति प्रोक्तस् सुषुप्तादिक्रमं शृणु ॥

4.1.19

मनसा कर्मणा वाचा यदा क्षुभ्यति नो वपुः ।
शान्त आतिष्ठति स्वच्छो जीवधातुस् तदा त्व् असौ ॥

4.1.20

समताम् आगतैर् वातैः क्षोभ्यते न हृदन्तरे ।
निर्वातसदने दीपो यथालोकैककारकः ॥

4.1.21

ततस् सरति नाङ्गेषु संवित् क्षुभ्यति तेन नो ।
न चेक्षणादीन्य् आयाति रन्ध्राण्य् आयाति नो बहिः ॥

4.1.22

जीवो ऽन्तर् एव स्फुरति तैलसंविद् यथा तिले ।
शीतसंविद् धिम इव स्नेहसंविद् यथा घृते ॥

4.1.23

जीवः कालकलां काञ्चित् तिष्ठञ् शान्ततयात्मनि ।
दशाम् आयाति सौषुप्तीं सौम्यवातां विचेतनाम् ॥

4.1.24

ज्ञात्वा चेतस्य् उपरते शाम्यन् व्यवहरन्न् अपि ।
जाग्रत्स्वप्नसुषुप्तेषु प्रबुद्धस् तुर्यवान् स्मृतः ॥

4.1.25

सौषुप्तात् सोम्यतां यातैः प्राणैस् सञ्चाल्यते यदा ।
स जीवधातुस् सा संवित् ततश् चित्ततयोदिता ॥

4.1.26

स्वान्तस्संस्थं जगज्जालं भागभागैः क्रमभ्रमैः ।
पश्यति स्वान्तर् एवाशु स्फारं बीजम् इव द्रुमम् ॥

4.1.27

जीवधातुर् यदा वातैः किञ्चित् सङ्क्षोभ्यते भृशम् ।
तदोह्यते ऽम्बर इव पश्यत्य् आत्मनि खे गतिम् ॥

4.1.28

यदाम्भसा प्लाव्यते ऽसौ तदा वार्यादिसम्भ्रमम् ।
अन्तर् एवानुभवति स्वामोदं कुसुमं यथा ॥

4.1.29

यदा पित्तादिनाक्रान्तस् तदाग्न्यौष्ण्यादिसम्भ्रमम् ।
अन्तर् एवानुभवति स्फारं बहिर् इवाखिलम् ॥

4.1.30

रक्तापूर्णो रक्तवर्णान् देशकालान् बहिर् यदा ।
पश्यत्य् अनुभवात्मत्वात् तत्रैव च निमज्जति ॥

4.1.31

सेवते वासनां यां तां सो ऽन्तः पश्यति निद्रितः ।
पवनैः क्षोभितो रन्ध्रैर् बहिर् अक्षादिभिर् यथा ॥

4.1.32

अनाक्रन्तेन्द्रियच्छिद्रो यद् अक्षुब्धो ऽन्तर् एव सः ।
संविदानुभवत्य् आशु स स्वप्न इति कथ्यते ॥

4.1.33

समाक्रन्तेन्द्रियच्छिद्रो यत् क्षुब्धो बाह्यसंविदा ।
परिपश्यति तज् जाग्रद् इत्य् आहुर् मतिमत्तमाः ॥

4.1.34

इति विदितवता त्वयाधुनान्तः प्रथितमहामतिनेह सत्यतास्था ।
असति जगति नैव भावनीया मृतिहृतिसंसृतिदोषभावनी या ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc