भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.140

3.140.1

सर्वसंसृतिषण्डेषु बीजरूपकलात्मनः ।
तन्मात्रप्रतिभासस्य प्रतिभासे न भिन्नता ॥

3.140.2

प्रवृत्तिर् वा निवृत्तिर् वा तन्मात्रापत्तिपूर्वकम् ।
सर्वस्य जीवजातस्य सुषुप्तत्वाद् अनन्तरम् ॥

3.140.3

प्रवृत्तिभाजो ये जीवास् ते तन्मात्रपदं गताः ।
तन्मात्रैकतया सर्गान् मिथः पश्यन्ति कल्पितान् ॥

3.140.4

तन्मात्रैक्यप्रणालेन चित्रास् सर्गजलाशयाः ।
परस्परं सम्मिलन्ति घनतां यान्ति चाभितः ॥

3.140.5

केचित् पृथक् स्थितिम् इताः पृथग् एव लयं गताः ।
केचिन् मिथस् सम्मिलिता जगत्षण्डास् स्थिताः कृताः ॥

3.140.6

जगत्षण्डसहस्राणि यत्रासङ्ख्यान्य् अणाव् अणौ ।
अपरस्परलग्नानि काननं ब्रह्म नाम तत् ॥

3.140.7

मिथस् स मेलनं नैति घनतां समुपागतः ।
यद् यद् यत्र यथा रूढं तत् तत् पश्यति नेतरत् ॥

3.140.8

वर्तमानमनोराज्यवशाज् जीवपरम्पराः ।
परस्परं सम्मिलितास् सर्गाणां रूढिभावनाः ॥

3.140.9

देहसत्ता भृशं रूढा देहाभावस् तु विस्मृतः ।
देहत्वपरिरूढत्वाच् चिद्व्योम्ना विस्मृतात्मना ॥

3.140.10

यथा शुद्धप्राणमरुत् परप्राणाभिवेधनात् ।
वेत्ति वेध्यमनोराज्यं तथा सर्गान् नराश्रयी ॥

3.140.11

सर्वेषां जीवराशीनाम् आत्मावस्थात्रयं श्रितः ।
जाग्रत्स्वप्नसुषुप्ताख्यम् अत्र देहो न कारणम् ॥

3.140.12

एवम् आत्मनि जीवत्वम् अन्यावस्थात्रयात्मनि ।
तापाम्भसीव वीचित्वम् अस्मिन् कचति देहता ॥

3.140.13

चित्कलापदम् आसाद्य सुषुप्तान्तपदे स्थितम् ।
बुद्धो निवर्तते जीवो मूढस् सर्गे प्रवर्तते ॥

3.140.14

स्वभावशुद्धिर् हि यदा तदा मैत्री प्रवर्तते ।
द्वयोर् एकत्वरूपैव स्वसौहार्दनिदर्शना ॥

3.140.15

अज्ञस् सुषुप्तात् सम्बुद्धो जीवः कश्चित् स्वसर्गभाक् ।
सर्वगत्वाच् चितः कश्चित् परसर्गेण नीयते ॥

3.140.16

सर्गे सर्गे पृथग्रूपं सन्ति सर्गान्तराण्य् अपि ।
तेष्व् अप्य् अन्तस्स्थसर्गौघाः कदलीदलपीठवत् ॥

3.140.17

सर्गे सर्गान्तरापूरपत्त्रपीवरवृत्तिमान् ।
स्वभावशीतलो ब्रह्मकदलीदलमण्डपः ॥

3.140.18

कदल्याम् अन्यता नास्ति यथा पत्त्रशतेष्व् अपि ।
ब्रह्मतत्त्वे ऽन्यता नास्ति तथा सर्गशतेष्व् अपि ॥

3.140.19

बीजात् फलं रसाद् भूत्वा यथा बीजं पुनर् भवेत् ।
तथा ब्रह्म मनो भूत्वा बोधाद् ब्रह्म पुनर् भवेत् ॥

3.140.20

रसकारणकं बीजं फलभावेन जृम्भते ।
ब्रह्मकारणको जीवो जगद्रूपेण जृम्भते ॥

3.140.21

रसस्य कारणं किं स्याद् इति वक्तुं न युज्यते ।
स्वभावो निर्विशेषत्वात् परं वक्तुं न युज्यते ॥

3.140.22

न चासत्ता सर्वमये वक्तुं क्वचन शक्यते ।
नाकारणे कारणादि परे वास्त्य् आदिकारणे ॥

3.140.23

बीजं जहन् निजवपुः फलीभूतं विलोक्यते ।
ब्रह्माजहन् निजवपुः फलं बीजं च संस्थितम् ॥

3.140.24

बीजस्याकृतिमत् सर्वं तेनानाकृति तत्पदम् ।
न युज्यते समीकर्तुं तस्मान् नास्त्य् उपमा शिवे ॥

3.140.25

खम् एव जायते खाभान् न च तज् जायते ऽन्यदृक् ।
अतो न जातं वा जातं विद्धि ब्रह्मनभो जगत् ॥

3.140.26

दृश्यं पश्यन् स्वम् आत्मानं न द्रष्टा सम्प्रपश्यति ।
प्रपञ्चाक्रान्तसंवित्तेः कस्योदेति निजा स्थितिः ॥

3.140.27

मृगतृष्णाजलभ्रान्तौ सत्यां केव विदग्धता ।
विदग्धतायां सत्यां तु केवासौ मृगतृष्णिका ॥

3.140.28

आकाशविशदो द्रष्टा सर्वगो ऽपि न पश्यति ।
नेत्रं निजम् इवात्मानं दृशीभूतम् अहो भ्रमः ॥

3.140.29

आकाशविशदं ब्रह्म यत्नेनापि न लभ्यते ।
दृश्ये दृश्यतयादृष्टे त्व् अस्य लाभस् सुदूरतः ॥

3.140.30

त्वादृक्स्थूलो ऽवधानेन विना यत्र न दृश्यते ।
तत्रातिदूरोदस्तैव द्रष्टुस् सूक्ष्मस्य दृश्यता ॥

3.140.31

द्रष्टा द्रष्टैव भवति न तु स्पृशति दृश्यताम् ।
दृश्यं च दृश्यते तेन द्रष्टा राम न दृश्यते ॥

3.140.32

द्रष्टैव सम्भवत्य् एको न तु दृश्यम् इहास्ति हि ।
द्रष्टा सर्वात्मको दृश्यं स्थितश् चेत् केव दृश्यता ॥

3.140.33

सर्वशक्तिमता राज्ञा यद् यत् सम्पाद्यते यथा ।
तत् तत् तथा भवत्य् आशु स एवोदेति तत्तया ॥

3.140.34

यथा मधुरसोल्लासष् षण्डो भवति भासुरः ।
रसताम् अजहच् चैव फलपुष्पदलोन्नतः ॥

3.140.35

चिदुल्लासस् तथा जीवो भूत्वा भवति देहकः ।
चिन्मात्रतां ताम् अजहद् एव दर्शनदृङ्मयः ॥

3.140.36

नानाषण्डसहस्रौघैर् अद्वितीयैर् निजात्मनः ।
यथोदेति रसो भौमश् चित् तथोदेत्य् अहम्भ्रमैः ॥

3.140.37

चिद्रसोल्लासवृक्षाणां कचताम् आत्मनात्मनि ।
दृश्यशाखाशताढ्यानाम् इह नान्तो ऽवगम्यते ॥

3.140.38

षण्डः प्रत्येकम् एवान्तर् यथा रसचमत्कृतिम् ।
स्वादयत्य् एवम् एषा चित् पृथक् पश्यति संसृतीः ॥

3.140.39

या योदेति यथा यस्या जीवशक्तेस् स्वसंसृतिः ।
ताम् तां तथैति सा स्वान्तश् चिद् भूतभुवनस्थितिम् ॥

3.140.40

जीवसंसृतयः काश्चित् प्रमिलन्ति परस्परम् ।
स्वयं विहृत्य संसारे शाम्यन्ति चिरकालतः ॥

3.140.41

सूक्ष्मया परया दृष्ट्या स्वं पश्यस्य् अनया तथा ।
जगज्जालसहस्राणि परमाण्वन्तरेष्व् अपि ॥

3.140.42

भित्तौ नभसि पाषाणे ज्वालायाम् अनिले जले ।
सन्ति संसारलक्ष्याणि तिले तैलम् इवाखिले ॥

3.140.43

शुद्धिम् एति यदा चेतस् तदा जीवो भवेच् चितिः ।
शुद्धा च सा सर्वगता तेन सम्मेलनं मिथः ॥

3.140.44

सर्वेषां पद्मजादीनां स्वसत्ताभ्रमपूरकः ।
जगद्दीर्घमहास्वप्नस् स्वयम् अन्तस् समुत्थितः ॥

3.140.45

स्वप्नात् स्वप्नान्तरं यान्ति काश्चिद् भूतपरम्पराः ।
तेनोपलम्भः कुड्यादाव् आसां दृढतरस् स्थितः ॥

3.140.46

यद् यत्र चिद् भावयति तत् तत्राशु भवत्य् अलम् ।
तया स्वप्ने ऽपि यद् दृष्टं तत्काले सत्यम् एव तत् ॥

3.140.47

चिदणोर् अन्तरे सन्ति समस्तानुभवाणवः ।
यथा बीजान्तरे पत्त्रलतापुष्पफलाणवः ॥

3.140.48

परमाणुं जगद् अन्तर् धत्ते चित्परमाणुकः ।
लीनम् आकाशम् आकाशे द्वैतैक्यभ्रमम् उत्सृज ॥

3.140.49

देशकालक्रियाद्याख्यैस् स्वैर् एवाणुभिर् एव चित् ।
अणून् अनुभवत्य् अन्तर् इतराणोर् असम्भवात् ॥

3.140.50

स्वयं सर्वस्य कचितस् स्वच्छश् चिदणुषण्डकः ।
ब्रह्मादेः कीटनिष्ठस्य देहदृष्ट्यानुभावितः ॥

3.140.51

कचितं किञ्चिद् एवेह वस्तुतस् तु न किञ्चन ।
स्वयं स्वत्वं स्वादयन्ते द्वैतं चित्परमाणवः ॥

3.140.52

स्वयं प्रकचति स्फारदेहश् चिदणुषण्डकः ।
नेत्रादिकुसुमद्वारैस् संविदामोदम् उद्गिरन् ॥

3.140.53

सम्पश्यतीतरान् कश्चिद् बहीरूपेण चिद्घनान् ।
सर्वगत्वाद् अनाशत्वाद् दृश्यबीजस्य वै चितेः ॥

3.140.54

अन्तर् एवाखिलं कश्चित् पश्यत्य् अविकलं जगत् ।
तत्रातिकालं कलनाद् उन्मज्जति निमज्जति ॥

3.140.55

स्वप्नात् स्वप्नान्तरं तत्र तथा पश्यन् पुनः पुनः ।
मिथ्यावटेषु लुठितश् शिलेव शिखरच्युता ॥

3.140.56

केचित् सम्मीलिताः केचिद् आत्मन्य् एव भ्रमे स्थिताः ।
मग्नास् स्वसंविद्रसतस् स्फुरन्तो देहिषण्डकाः ॥

3.140.57

स्वयम् अन्तः प्रपश्यन्ति ये जगज्जीवसम्भ्रमम् ।
तैः कैश्चित् तत् तथा दृश्यम् असत्स्वप्नवद् आश्रितम् ॥

3.140.58

सर्वात्मत्वात् स्वभावस्य तद् दृश्यं सत्यम् आत्मनि ।
सर्वगो विद्यते यत्र तत्र सर्वम् उदेति हि ॥

3.140.59

जीवान्तः प्रतिभासस्य सर्गस्य पुनर् अन्तरे ।
जीवषण्ड उदेत्य् उच्चैस् तस्यान्तर् इतरो ऽपि च ॥

3.140.60

जीवान्तर् जायते जीवस् तस्यान्तर् अपि जीवकः ।
सर्वत्र रम्भादलवज् जीवबीजं प्रजीवति ॥

3.140.61

दृश्यबुद्धिपरावृद्धि समम् एतद् अनन्तकम् ।
हेम्नीव कटकादित्वं परिज्ञप्त्यैव नश्यति ॥

3.140.62

विचारो यस्य नोदेति को ऽहं किम् इदम् इत्य् अलम् ।
तस्याद्यन्ताविमुक्तो ऽसौ दीर्घो जीवज्वरभ्रमः ॥

3.140.63

विचारः फलितस् तस्य विज्ञेयो यस्य सन्मतेः ।
दिनानुदिनम् आयाति तानवं भोगगृध्नुता ॥

3.140.64

यथा देहोपयुक्तं हि करोत्य् आरोग्यम् औषधम् ।
तथेन्द्रियजये न्यस्तो विवेकः फलितो भवेत् ॥

3.140.65

विवेको ऽस्ति वचस्य् एव चित्रे ऽग्निर् इव भासुरः ।
यस्य तेन परित्यक्ता दुःखायैव विवेकिता ॥

3.140.66

यथा स्पर्शेन पवनस् सत्ताम् आयाति नो गिरा ।
तथेच्छातानवेनैव विवेको ऽस्येति बुध्यते ॥

3.140.67

चित्रामृतं नामृतम् एव विद्धि चित्रानलं नानलम् एव विद्धि ।
चित्रे ऽङ्गना नूनम् अनङ्गनैव वाचा विवेकस् त्व् अविवेक एव ॥

3.140.68

पूर्वं विवेकेन तनुत्वम् एति रागो ऽथ वैरं च समूलम् एव ।
पश्चात् परिक्षीयत एव यत्र स पावनस् तत्र विवेकितास्ति ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc