मोक्षोपाय · अध्याय 3.99
कासौ महाटवी ब्रह्मन् कदा दृष्टा कथं मया ।
के च ते पुरुषास् तत्र किं तत् कर्तुं कृतोद्यमाः ॥
रघुनाथ महाबाहो शृणु वक्ष्यामि ते ऽखिलम् ।
न सा महाटवी नाम दूरे नैव च ते नराः ॥
येयं संसारपदवी गम्भीरासारकोटरा ।
तां त्वं शून्यां विकाराढ्यां विद्धि राम महाटवीम् ॥
विचारालोकलभ्येन यदैकेनैव वस्तुना ।
पूर्णा नान्येन संयुक्ता केवलैव तदैव सा ॥
तत्र ये ते महाकाराः पुरुषाः प्रसरन्ति हि ।
मनांसि तानि विद्धि त्वं दुःखे निपतितान्य् अलम् ॥
द्रष्टा यो ऽयम् अहं तेषां सविवेको महामते ।
विवेकेन मया तानि दृष्टान्य् अन्यानि राघव ॥
मया तान्य् एव बुध्यन्ते विवेकेन मनांसि हि ।
सततं स्वप्रकाशेन कमलानीव भानुना ॥
मत्प्रबोधं समासाद्य मत्प्रसादान् महामते ।
मनांसि कानिचित् तानि गतान्य् उपशमात् परम् ॥
कानिचिन् नाभिनन्दन्ति मां विवेकं विमोहतः ।
मत्तिरस्कारवशतः कूपेष्व् एव पतन्त्य् उत ॥
ये ते ऽन्धकूपा गहना नरकास् ते रघूद्वह ।
मनांसि तानि तेष्व् अन्तर् निपतन्त्य् उत्पतन्ति च ॥
यत् तत् करञ्जगहनं तत् कलत्ररसं विदुः ।
दुःखकण्टकसम्बाधं मानुष्यं त्रिविधैषणम् ॥
करञ्जगहनं यानि प्रविष्टानि मनांसि तु ।
मानुष्ये तानि जातानि तत्रैकरसिकानि च ॥
कदलीकाननं यत् तच् छशाङ्ककरशीतलम् ।
तन् मनोह्लादनकरं स्वर्गं विद्धि रघूद्वह ॥
कदलीकाननं यानि सम्प्रविष्टानि तानि तु ।
स्वर्गैकरसिकानि त्वं मनांसि ज्ञातुम् अर्हसि ॥
प्रविष्टान्य् अन्धकूपान्तर् निर्गतानि न यानि तु ।
महापातकयुक्तानि तानि चित्तानि राघव ॥
करञ्जवनयातानि निर्गतानि न यानि तु ।
तानि मानुष्यजातानि चित्तानि रघुनन्दन ॥
कानिचित् सम्प्रबुद्धानि तत्र मुक्तानि बन्धनात् ।
कानिचिद् बहुरूपाणि योनेर् योनिं विशन्ति हि ॥
कानिचित् पुण्यपूतेन तपसा दारुणात्मना ।
धारयन्ति शरीराणि संस्थितान्य् उचितान्य् च ॥
यैर् अहं पुम्भिर् अबुधैर् दुर्द्विजेति तिरस्कृतः ।
तैर् मनोभिर् अनात्मज्ञैस् स्वविवेकतिरस्कृतः ॥
त्वया दृष्टो विनष्टो ऽस्मि शत्रुर् मे त्वम् इति द्रुतम् ।
यद् उक्तं तद् धि चित्तेन गलता परिदेवितम् ॥
रुदितं यन् महाक्रन्दं पुंसा बह्वस्रु राघव ।
तद् भोगजालं त्यजता मनसा रोदनं कृतम् ॥
अर्धप्राप्तविवेकस्य न प्राप्तस्यामलं पदम् ।
चेतसस् त्यजतो भोगान् परितापो भृशं भवेत् ॥
रुदताङ्गानि दृष्टानि कारुण्येनावबोधिना ।
कष्टम् एतानि सन्त्यज्य किं प्रयामीति चेतसा ॥
अर्धप्राप्तविवेकस्य न प्राप्तस्यामलं पदम् ।
चेतसस् त्यजतो ऽङ्गानि परितापो हि वर्धते ॥
हसितं यत् तद् आनन्दि पुंसा मदवबोधतः ।
परिप्राप्तविवेकेन तत् तुष्टं राम चेतसा ॥
परिप्राप्तविवेकस्य त्यक्तसंसारसंसृतेः ।
चेतसस् त्यजतो रूपम् आनन्दो हि विवर्धते ॥
हसताङ्गानि दृष्टानि पुंसा यान्य् उपहासतः ।
तानि दृष्टानि मनसा विप्रलम्भप्रदानि हि ॥
मिथ्याविकल्परचितैर् विप्रलब्धम् अहं चिरम् ।
इत्य् अङ्गान्य् उपहासेन दृष्टानि स्वानि चेतसा ॥
मनः प्राप्तविवेकं हि विश्रान्तं वितते पदे ।
प्राक्तनीं दीनतां धीरं हसत् पश्यति दूरतः ॥
यदासौ समवष्टभ्य मया पृष्टः प्रयत्नतः ।
तद् विवेको बलाच् चित्तम् आदत्त इति दर्शितम् ॥
यद् अङ्गानि विशीर्णानि गतान्य् अन्तर्धिम् अग्रतः ।
तच् चित्तेन विनार्थेच्छाश् शाम्यन्तीति प्रदर्शितम् ॥
सहस्रनेत्रहस्तत्वं यत् पुंसः परिवर्णितम् ।
तद् अनन्ताकृतित्वं हि चेतसः परिदर्शितम् ॥
यद् आत्मनि प्रहारौघैः पुमान् प्रहरति स्वयम् ।
तत् तत्कुकल्पनाघातैः प्रहरत्य् आत्मनो मनः ॥
पलायते यत् पुरुषस् स्वात्मनः प्रहरन् स्वयम् ।
स्ववासनाप्रहारेभ्यस् तन् मनः प्रपलायते ॥
स्वयं प्रहरति स्वान्तं स्वयम् एव स्वयेच्छया ।
पलायते स्वयं चैव पश्याज्ञानविजृम्भितम् ॥
स्ववासनोपतप्तानि सर्वाण्य् एव मनांसि हि ।
स्वयम् एव पलायन्ते गन्तुम् उत्कानि तत् पदम् ॥
यद् इदं विततं दुःखं तत् तनोति स्वयं मनः ।
स्वयम् एवातिखिन्नात्म पुनस् तस्मात् पलायते ॥
सङ्कल्पवासनाजाले स्वयम् आयाति बन्धनम् ।
मनो लालामयैर् वालैः कोशकारक्रिमिर् यथा ॥
यथानर्थम् अवाप्नोति तथा क्रीडति चञ्चलम् ।
भावि दुःखम् अपश्यन् स्वं दुर्लीलाभिर् इवार्भकः ॥
अपश्यन् काष्ठरन्ध्रस्थवृषणाक्रमणं यथा ।
कीलोत्पाटी कपिर् दुःखम् एतीदं हि मनस् तथा ॥
चिरपालनया चेतश् चिरभावनया तथा ।
अभ्यासात् स्वस्थताम् एत्य न भूयः परिशोचति ॥
मनःप्रमादाद् वर्धन्ते दुःखानि गिरिकूटवत् ।
तद्वशाद् एव नश्यन्ति सूर्यस्याग्रे हिमं यथा ॥
यावज्जीवम् अनिन्द्यया वरमते शास्त्रार्थसञ्जातया पाल्यं वासनया मनो हि मुनिवन् मौनेन रागादिषु ।
पश्चात् पावनपावनं पदम् अजं तत् प्राप्यते शीतलम् यत्संस्थेन न शोच्यते पुनर् अलं पुंसा महापत्स्व् अपि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0