भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.100

3.100.1

चित्तम् एतद् उपायातं ब्रह्मणः परमात् पदात् ।
अतन्मयं तन्मयं च तरङ्गस् सागराद् इव ॥

3.100.2

प्रबुद्धानां मनो राम ब्रह्मैवेह न चेतरत् ।
जलसामान्यबुद्धीनाम् अब्धेर् नान्यस् तरङ्गकः ॥

3.100.3

मनो रामाप्रबुद्धानां संसारभ्रमकारणम् ।
अपश्यतो ऽम्बुसामान्यम् अन्यताम्बुतरङ्गयोः ॥

3.100.4

अप्रबुद्धधियां पक्षे तत्प्रबोधाय केवलम् ।
वाच्यवाचकसम्बन्धकृतो भेदः प्रकल्प्यते ॥

3.100.5

सर्वशक्ति परं ब्रह्म नित्यम् आपूर्णम् अव्ययम् ।
न तद् अस्ति न तस्मिन् यद् विद्यते विततात्मनि ॥

3.100.6

सर्वशक्तिर् हि भगवान् यैव तस्मै हि रोचते ।
शक्तिस् ताम् एव विततां प्रकाशयति सर्वगः ॥

3.100.7

चिच्छक्तिर् ब्रह्मणो राम शरीरेष्व् अभिदृश्यते ।
स्पन्दशक्तिश् च वातेषु जडशक्तिस् तथोपले ॥

3.100.8

द्रवशक्तिर् अथाम्भस्सु तेजश्शक्तिस् तथानले ।
शून्यशक्तिर् अथाकाशे भावशक्तिर् भवस्थितौ ॥

3.100.9

ब्रह्मणस् सर्वशक्तेर् हि दृश्यते दशदिग्गता ।
नाशशक्तिर् विनाश्येषु शोकशक्तिश् च शोकिषु ॥

3.100.10

आनन्दशक्तिर् मुदिते वीर्यशक्तिर् महाभटे ।
सर्गेषु सर्गशक्तिश् च कल्पान्ते सर्वहारिता ॥

3.100.11

फलपुष्पलतापत्त्रशाखाविटपपर्ववान् ।
वृक्षबीजे यथा वृक्षस् तथेदं ब्रह्मणि स्थितम् ॥

3.100.12

प्रतिभासवशाद् एव मध्यस्थं चित्त्वजाड्ययोः ।
जीवेतराभिधं चित्तम् अन्तर् ब्रह्मणि दृश्यते ॥

3.100.13

नानातरुलतागुल्मजालपल्लवशालयः ।
यथर्तौ शक्तयस् तद्वज् जीवेहा ब्रह्मणि स्थिताः ॥

3.100.14

व्युप्तसर्वर्तुकुसुमा क्ष्मा देशविधिभेदतः ।
यथा ददाति पुष्पाणि तथा चित्तानि लोककृत् ॥

3.100.15

क्वचित् काश्चित् कदाचिच् च तस्माद् आयान्ति शक्तयः ।
देशकालात् तु वैचित्र्यात् क्ष्मातलाद् इव शालयः ॥

3.100.16

निर्विकल्पकचिन्मात्रनामाविज्ञातकल्पनम् ।
ब्रह्मैवेदम् अहं त्वं च जगदाशाश् च राघव ॥

3.100.17

स आत्मा सर्वगो राम नित्योदितमहावपुः ।
यन् मनाङ्मननां शक्तिं धत्ते तन् मन उच्यते ॥

3.100.18

पिञ्छभ्रान्तिर् यथा व्योम्नि पयस्य् आवर्तधीर् यथा ।
प्रतिभासकलामात्रं मनो जीवस् तथात्मनि ॥

3.100.19

यद् एतन् मनसो रूपम् उदितं मननात्मकम् ।
ब्राह्मी शक्तिर् असौ तस्माद् ब्रह्मैव तद् अरिन्दम ॥

3.100.20

इदं तद् अहम् इत्य् एव विभागः प्रतिभासजः ।
मनसो ब्रह्मणो ऽन्यत्वे मोहः परमकारणम् ॥

3.100.21

यद् यच् चैतन्मननता किञ्चित् सदसदात्मकम् ।
शब्दितं सर्वशक्तेस् सा शक्तिर् ब्रह्मैव तां विदुः ॥

3.100.22

मनस्सत्तात्मकं नाम यद् एतन् मनसि स्थितम् ।
तज् जातं प्रतिभासेन तेनैवान्येन नश्यति ॥

3.100.23

प्रतियोगिव्यवच्छेदसङ्ख्यारूपादयश् च ये ।
मनश्शब्दैः प्रकल्प्यन्ते ब्रह्मजान् ब्रह्म विद्धि तान् ॥

3.100.24

यथा यथास्य मनसः प्रतिभासः प्रवर्तते ।
तथा तथैव भवति दृष्टान्तो ऽत्र किलैन्दवाः ॥

3.100.25

स्वयम् अक्षुब्धविमले यथा स्पन्दो महाम्भसि ।
संसारकारणं जीवस् तथायं परमात्मनि ॥

3.100.26

ज्ञस्य सर्वचिता राम ब्रह्मैवावर्तते सदा ।
कल्लोलोर्मितरङ्गोघैर् अब्धेर् जलम् इवात्मनि ॥

3.100.27

द्वितीया नास्ति सत्तैव नामरूपक्रियात्मिका ।
परे नानातरङ्गे ऽब्धौ कल्पनेव जलेतरा ॥

3.100.28

जायते नश्यति तथा यद् इदं याति तिष्ठति ।
तद् इदं ब्रह्मणि ब्रह्म ब्रह्मणैव विवर्तते ॥

3.100.29

स्वात्मन्य् एवातपस् तीव्रो मृगतृष्णिकया यथा ।
वैचित्र्येणाविचित्रो ऽपि स्फुरत्य् आत्मात्मना तथा ॥

3.100.30

कारणं कर्म कर्ता च जननं मरणं स्थितिः ।
सर्वं ब्रह्मैव नान्यो ऽस्ति तद् विना कलनार्थतः ॥

3.100.31

न लोभो ऽस्ति न मोहो ऽस्ति न तृष्णास्ति निरञ्जनाः ।
क आत्मन्य् आत्मनो लोभस् तृष्णा मोहो ऽथवा कुतः ॥

3.100.32

आत्मैवेदं जगत् सर्वम् आत्मैव कलनाक्रमः ।
हेमाङ्गदतयेवायम् आत्मोदेति मनस्तया ॥

3.100.33

अबुद्धं ब्रह्म यद् राम तच् चित्तं जीव उच्यते ।
अपरिज्ञात एवाशु बन्धुर् आयात्य् अबन्धुताम् ॥

3.100.34

चिन्मयेनात्मनाज्ञेन स्वसङ्कल्पनया स्वयम् ।
शून्यता गगनेनेव जीवता प्रकटीकृता ॥

3.100.35

आत्मैवानात्मवद् इह जीवो जगति राजते ।
द्वीन्दुत्वम् इव दुर्दृष्टेस् सच् चासच् च समुत्थितम् ॥

3.100.36

मोहादिशब्दार्थदृशोर् एतयोर् अत्यसम्भवात् ।
सर्वत्वाद् आत्मनश् चैव क्वात्मा बद्धः क्व मुच्यते ॥

3.100.37

नित्यासम्भवबन्धस्य बन्धो ऽस्तीति कुकल्पना ।
यस्य काल्पनिकस् तस्य मोक्षो मिथ्या न सत्यतः ॥

3.100.38

मनो यन्निश्चयं याति तत् तद् भवति नान्यथा ।
तेन काल्पनिको नास्ति बन्धः कथम् इव प्रभो ॥

3.100.39

मिथ्याकाल्पनिकैवेयं मूर्खाणां बन्धकल्पना ।
मिथ्यैवाभ्युदिता तेषाम् इतरा मोक्षकल्पना ॥

3.100.40

एवम् अज्ञानकलने बन्धमोक्षदृशौ स्मृते ।
वस्तुतस् तु न बन्धो ऽस्ति न मोक्षो ऽस्ति महामते ॥

3.100.41

कल्पनाया अवस्तुत्वं सम्प्रबुद्धमतिं प्रति ।
रज्ज्वहेर् इव हे प्राज्ञ न त्व् अबुद्धमतिं प्रति ॥

3.100.42

बन्धमोक्षादिसम्मोहो न प्राज्ञस्यास्ति कश्चन ।
सम्मोहो बन्धमोक्षादिर् अज्ञस्यैवास्ति राघव ॥

3.100.43

आदौ मनस् तदनु बन्धविमोक्षदृष्टी पश्चात् प्रपञ्चरचना भुवनाभिधाना ।
इत्यादिका स्थितिर् इयं हि गता प्रतिष्ठाम् आख्यायिका भवति बालजनोचितेव ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc