मोक्षोपाय · अध्याय 3.98
यतः कुतश्चिद् उत्पन्नं चित्तं यत् किञ्चिद् एव हि ।
नित्यम् आत्मविमोक्षाय यतते यत्नतो ऽनघ ॥
अस्ति नामातिवितता शून्या शान्तापि भीषणा ।
अरण्यानी नभो यस्यां लक्ष्यते कोणमात्रकम् ॥
तस्याम् एको हि पुरुषस् सहस्रकरलोचनः ।
पर्याकुलमतिर् भीमस् संस्थितो वितताकृतिः ॥
सहस्रेण स बाहूनाम् आदाय परिघान् बहून् ।
प्रहरत्य् आत्मनः पृष्ठे स्वात्मनैव पलायते ॥
दृढप्रहारैः प्रहरन् स्वयम् एवात्मनात्मनि ।
प्रविद्रवति भीतात्मा स योजनशतान्य् अपि ॥
क्रन्दन् पलायमानो ऽसौ गत्वा दूरम् इतस् ततः ।
श्रमवान् विवशाकारो विशीर्णचरणाङ्गकः ॥
पतितो ऽवश एवाशु महत्य् अन्धो ऽन्धकूपके ।
कृष्णरात्रितमोभीमनभोगम्भीरकोटरे ॥
ततः कालेन महता सो ऽन्धकूपात् समुत्थितः ।
पुनः प्रहारैः प्रहरन् विद्रवत्य् आत्मनात्मनः ॥
पुनर् दूरतरं गत्वा करञ्जवनगुल्मकम् ।
प्रविष्टः कण्टकव्याप्तं शलभः पावकं यथा ॥
तस्मात् करञ्जगहनाद् विनिष्क्रम्य क्षणाद् इव ।
स्वयं प्रहारैः प्रहरन् विद्रवत्य् आत्मनात्मनः ॥
पुनर् दूरतरं गत्वा तम् एवान्धो ऽन्धकूपकम् ।
स सम्प्रविष्टस् त्वरया विशीर्णावयवाकृतिः ॥
अन्धकूपात् समुत्थाय प्रविष्टः कदलीवनम् ।
पुनः प्रहारैः प्रहरन् विद्रवत्य् आत्मनात्मनः ॥
पुनर् दूरतरं गत्वा शशाङ्ककरशीतलम् ।
कदलीकाननं कान्तं सम्प्रविष्टो हसन्न् इव ॥
कदलीषण्डकात् तस्माद् विनिष्क्रम्य पुनः क्षणात् ।
कदलीकाननाच् छुभ्रं करञ्जवनगुल्मकम् ॥
करञ्जकवनात् कूपं कूपाद् रम्भावनान्तरम् ।
प्रविश्य प्रहरंश् चैव स्वयम् आत्मनि संस्थितः ॥
एवंरूपनिजाचारस् सो ऽवलोक्यादरान् मया ।
अवष्टभ्य बलाद् एव मुहूर्तं परिबोधितः ॥
पृष्टश् च कस् त्वं किम् इदं केनार्थेन करोषि वा ।
किं नामाभिमतं ते स्यात् किं मुधा परिमुह्यसि ॥
इति पृष्टेन कथितं तेन मे रघुनन्दन ।
नाहं कश्चिन् न चैवेदं मुने किञ्चित् करोम्य् अहम् ॥
त्वयायम् अवभग्नो ऽस्मि त्वं मे शत्रुर् अरिन्दम ।
त्वया दृष्टो ऽस्मि नष्टो ऽस्मि दुःखाय च सुखाय च ॥
इति उक्त्वा माम् असाव् अङ्गान्य् आलोक्य स्वानि तिष्ठवान् ।
रुरोदार्तरवं दीनो मेघो वर्षन्न् इवारवी ॥
क्षणमात्रेण तत्रासाव् उपसंहृत्य रोदनम् ।
स्वान्य् अङ्गानि समालोक्य जहासेन्द्वंशुवत् सितम् ॥
अथाट्टहासपर्यन्ते स पुमान् पुरतो मम ।
क्रमेण तानि तत्याज स्वान्य् अङ्गानि समन्ततः ॥
प्रथमं पतितं तस्य शिरः परमदारुणम् ।
ततस् ते बाहवः पश्चाद् वक्षस् तदनु चोदरम् ॥
अथ क्षणेन स पुमांस् तान्य् अङ्गानि च सम्भ्रमः ।
सर्वम् अन्तर्धिम् आयातं स्वप्नो बोधवतो यथा ॥
विचार्य नियतेश् शक्तिं ततो गन्तुम् उपस्थितः ।
दृष्टवान् अहम् एकान्ते पुनर् अन्यं तथा नरम् ॥
सो ऽपि प्रहारान् परितः प्रयच्छन् स्वयम् आत्मनि ।
बाहुभिः पीवराकारैस् स्वयम् एव पलायते ॥
कूपे पतति कूपात् तु समुत्थायाभिधावति ।
पुनः पतति कुञ्जे ऽन्तः पुनर् आर्तः पलायते ॥
पुनः प्रविशति स्वच्छं क्षणं शिशिरकाननम् ।
रुष्टः पुनः पुनस् तुष्टः पुनः प्रहरति स्वयम् ॥
एवम्प्रायनिजाचारश् चिरम् आलोक्य सस्मयम् ।
स मया समवष्टभ्य परिपृष्टस् तथैव हि ॥
तेनैवाथ क्रमेणासौ रुदित्वा सम्प्रहस्य च ।
अङ्गैर् विशीर्णताम् एत्य ययाव् अलम् अलक्ष्यताम् ॥
विचार्य नियतेश् शक्तिं ततो गन्तुम् उपस्थितः ।
दृष्टवान् अहम् एकान्ते पुनर् अन्यं तथा नरम् ॥
प्रहरंस् तद्वद् एवासौ स्वयम् एव पलायते ।
पलायमानः पतितो महत्य् अन्धो ऽन्धकूपके ॥
तत्राहं सुचिरं कालम् अवसं तत्प्रतीक्षकः ।
यावत् स सुचिरेणापि कूपाद् अभ्युत्थितश् शठः ॥
अथाहम् उद्यतो गन्तुं दृष्टवान् पुरुषं पुनः ।
तादृशं तादृशाचारं प्रयतन्तं तथैव च ॥
अवष्टभ्य तथैवाशु तस्य प्रोक्तं पुनर् मया ।
तथैवोत्पलपत्राक्ष नासौ तद् अवबुद्धवान् ॥
केवलं माम् असौ मूढो नैव जानामि किञ्चन ।
आः पाप दुर्द्विजेत्य् उक्त्वा स्वव्यापारपारो ययौ ॥
अथ तस्मिन् महारण्ये तथा विहरता मया ।
बहवस् तादृशा दृष्टाः पुरुषा दोषकारिणः ॥
मत्पृष्टाः केचिद् आयान्ति स्वप्नसम्भ्रमवच् छमम् ।
मदुक्तं नाभिनन्दन्ति केचिच् छ्वविरुतं यथा ॥
विनिपत्यान्धकूपेभ्यः केचिन् न प्रोत्थिताः पुनः ।
कदलीषण्डकात् केचिच् चिरेणापि न निर्गताः ॥
केचिद् अन्तर्हितास् स्फारे करञ्जवनकुञ्जके ।
न क्वचित् स्थितिम् आयान्ति केचिद् भ्रमपरायणाः ॥
एवंविधा सा वितता रघूद्वह महाटवी ।
अद्यापि विद्यते यस्याम् इत्थं ते पुरुषास् स्थिताः ॥
सा च दृष्टाटवी राम त्वयेह व्यवहारिणा ।
बाल्यात् तु बुद्धितत्त्वस्य न त्वं स्मरसि राघव ॥
सा भीषणा विविधसङ्कटसङ्कटाङ्गी घोराटवी घनतमोगहना च लोकैः ।
आगत्य निर्वृतिम् अबुद्धिहतैर् न तज्ज्ञैर् आसेव्यते कुसुमगुल्मकवाटिकेव ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0