मोक्षोपाय · अध्याय 3.97
ब्रह्मन् मनस एवेदम् अत आडम्बरं स्मृतम् ।
यतस् तद् एव कर्मेति वाक्यार्थाद् उपलभ्यते ॥
दृढभावोपरक्तेन मनसैवोररीकृतम् ।
मरुचण्डातपेनेव भासुरावरणं वपुः ॥
ब्रह्मन् मन्ये जगत्य् अस्मिन् मन एवाकृतिं गतम् ।
क्वचिन् नरतया रूढं क्वचित् सुरतयोदितम् ॥
क्वचिद् दैत्यतयोल्लासि क्वचिद् यक्षतयोत्थितम् ।
क्वचिद् गन्धर्वतां प्राप्तं क्वचित् किन्नररूपि च ॥
नानावननगाभोगपुरपत्तनरूपया ।
मन्ये विततयाकृत्या मन एव विजृम्भते ॥
एवं स्थिते शरीरौघस् तृणकाष्ठलवोपमः ।
तद्विचारणया को ऽर्थो विचार्यं मन एव नः ॥
तेनेदं सर्वम् आभोगि जगद् अत्याकुलं ततम् ।
मन्ये तद्व्यतिरेकेण परमात्मैव शिष्यते ॥
आत्मा सर्वपदातीतस् सर्वगस् सर्वसंश्रयः ।
तत्प्रसादेन संसारे मनो धावति वल्गति ॥
अतो मन्ये मनः कर्म तच् छरीरेषु कारणम् ।
जायते म्रियते तद् धि नात्मनीदृग्विधो गुणः ॥
मन एवं विचारेण मन्ये विलयम् एष्यति ।
मनोविलयमात्रेण ततश् श्रेयो भविष्यति ॥
मनोनाम्नि परिक्षीणे कर्मण्य् अहितसम्भ्रमे ।
मुक्त इत्य् उच्यते जन्तुः पुनर् नाम न जायते ॥
भगवान् भवता प्रोक्ता जातयस् त्रिविधा नृणाम् ।
प्रथमं कारणं तासां मनस् सदसदात्मकम् ॥
तत् कथं शुद्धचिन्नाम्नस् तत्त्वाच् छुद्धिविवर्जितम् ।
उत्थितं स्फारतां यातं जगच्चित्रकरं मनः ॥
आकाशा हि त्रयो नाम विद्यन्ते विततान्तराः ।
चित्ताकाशश् चिदाकाशो भूताकाशस् तृतीयकः ॥
एते हि सर्वसामान्यास् सर्वत्रैव व्यवस्थिताः ।
शुद्धचित्तत्त्वशक्त्या तु लब्धसत्तैकतां गताः ॥
सबाह्याभ्यन्तरस्थो यो वेत्ता सत्तावबोधकः ।
व्यापी समस्तभूतानां चिदाकाशस् स उच्यते ॥
सर्वभूतहितस् स्रष्टा यः कलाकलनात्मकः ।
येनेदम् आततं सर्वं चित्ताकाशस् स उच्यते ॥
दशदिङ्मण्डलाभोगैर् अव्युच्छिन्नवपुर् हि यः ।
भूतात्मा सो ऽयम् आकाशः पवनाब्दादिसंश्रयः ॥
आकाशचित्ताकाशौ द्वौ चिदाकाशवशोद्भवौ ।
चित् कारणं हि सर्वस्य कार्यौघस्य दिनं यथा ॥
जडो ऽस्मि न जडो ऽस्मीति निश्चयो मलिनश् चितः ।
यस् तद् एव मनो विद्धि तेनाकाशादि भाव्यते ॥
अप्रबुद्धात्मविषयम् आकाशत्रयकल्पना ।
कल्प्यते ह्य् उपदेशार्थं प्रबुद्धविषयं न तु ॥
एकम् एव परं ब्रह्म सर्वं सर्वावपूरकम् ।
प्रबुद्धं विमलं नित्यं कलाकलनवर्जितम् ॥
द्वैताद्वैतसमुद्भेदैर् वाक्यसन्दर्भगर्भितैः ।
उपदिश्यत एवाज्ञो न प्रबुद्धः कथञ्चन ॥
यावद् रामाप्रबुद्धत्वम् आकाशत्रयकल्पना ।
तावद् एवावबोधार्थं मया त उपदिश्यते ॥
आकाशचित्ताकाशाद्याश् चिदाकाशात् कलङ्कितात् ।
प्रसूता दावदहनाद् यथा मरुमरीचयः ॥
चितो हि मलिनं रूपं चित्ततां समुपागतम् ।
त्रिजगन्तीन्द्रजालानि रचयत्य् आकुलात्मकम् ॥
चित्तत्वम् अस्य मलिनस्य चिदात्मकस्य तत्त्वस्य दृश्यत इदं ननु बोधहीनैः ।
शुक्तौ यथा रजतता न तु बोधवद्भिर् मौर्ख्येण बन्ध इह बोधबलेन मोक्षः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0