भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.96

3.96.1

मनो हि भावनामात्रं भावना स्पन्दरूपिणी ।
क्रिया तद्भावितं रूपं फलं सर्वो ऽनुधावति ॥

3.96.2

विस्तरेण मम ब्रह्मञ् जडस्याप्य् अजडाकृतेः ।
रूपम् आरूढसङ्कल्पं मनसो वक्तुम् अर्हसि ॥

3.96.3

अनन्तस्यात्मतत्त्वस्य सर्वशक्तेर् महात्मनः ।
सङ्कल्पशक्तिसहितं यद् रूपं तन् मनो विदुः ॥

3.96.4

जडाजडदृशोर् मध्ये दोलायितवपुस् स्थितम् ।
यत् तत्त्वं द्विपरामृष्टं तद् रूपं मनसो विदुः ॥

3.96.5

नाहं चिदवभासात्मा कृपणो ऽस्मीति निश्चयः ।
यस् सदाक्रान्तकलनस् तद् रूपं मनसो विदुः ॥

3.96.6

भावस् सदसतोर् मध्ये नॄणां स्फुरति निश्चलः ।
कलनोन्मुखतां यातस् तद् रूपं मनसो विदुः ॥

3.96.7

कलनात्मिकया कर्मशक्त्या विरहितं मनः ।
न सम्भवति लोके ऽस्मिन् गुणहीनो गुणी यथा ॥

3.96.8

यथानलौष्ण्ययोस् सत्ता न सम्भवति भिन्नयोः ।
तथैव कर्ममनसोस् तथात्ममनसोर् अपि ॥

3.96.9

स्वेनैव चित्तरूपेण कर्मणा फलधर्मणा ।
सङ्कल्पैकशरीरेण नानाविस्तरशालिना ॥

3.96.10

या येन वासना यत्र लतेवारोपिता यथा ।
सा तेन फलभूस् तत्र तद् एव प्राप्यते तथा ॥

3.96.11

कर्मबीजं मनस् स्पन्दः कथ्यते ऽथानुभूयते ।
क्रियास् तु विविधास् तस्य शाखाश् चित्रफलास् तरोः ॥

3.96.12

मनो यद् अनुसन्धत्ते तत् कर्मेन्द्रियवृत्तयः ।
सर्वास् सम्पादयन्त्य् एतास् तस्मात् कर्म मनस् स्मृतम् ॥

3.96.13

मनो बुद्धिर् अहङ्कारश् चेतः कर्माथ कल्पना ।
संसृतिर् वासनाविद्या प्रयत्नस् स्मृतिर् एव च ॥

3.96.14

इन्द्रियं प्रकृतिर् माया क्रिया चेतीतरा अपि ।
चित्राश् शब्दश्रियो बह्व्यस् संसारभ्रमहेतवः ॥

3.96.15

काकतालीययोगेन त्यक्तस्फारचमत्कृतेः ।
चितेश् चेत्यानुपातिन्यः कृताः पर्यायवृत्तयः ॥

3.96.16

परायास् संविदो ब्रह्मन्न् एताः पर्यायवृत्तयः ।
कल्प्यमानविचित्रार्थाः कथं रूढिम् उपागताः ॥

3.96.17

गतेव सकलङ्कत्वं यदा चित् कलनात्मकम् ।
उन्मेषरूपिणी जाता तदैव हि मनस्स्थितिः ॥

3.96.18

भावानाम् अनुसन्धानं यदा निश्चित्य संस्थिता ।
तदैषा प्रोच्यते बुद्धिर् नियता ग्रहणक्षमा ॥

3.96.19

यदा मिथ्याभिमानेन सत्तां कलयति स्वयम् ।
अहङ्काराभिधा तेन प्रोच्यते भवबन्धनी ॥

3.96.20

इदं त्यक्त्वेदम् आयाति बालवत् पेलवा यदा ।
विचारं सम्परित्यज्य तदा सा चित्तम् उच्यते ॥

3.96.21

यदा स्पन्दैकधर्मत्वात् कर्मपैशुन्यशंसिनी ।
आधावति स्पन्दफलं तदा कर्मेत्य् उदाहृता ॥

3.96.22

काकतालीययोगेन त्यक्त्वैकद्रव्यनिश्चयम् ।
यदेहितं कल्पयति भावं तेनेह कल्पना ॥

3.96.23

पूर्वं दृष्टम् अदृष्टं वा प्राग् सृष्टम् इति निश्चयम् ।
यदैषेहां विधत्ते ऽन्तस् तदा स्मृतिर् उदाहृता ॥

3.96.24

यदा पदार्थशक्तीनां सम्भुक्तानाम् इवान्तरे ।
वसत्य् अस्तमितान्येहं वासनेति तदोच्यते ॥

3.96.25

अस्त्य् आत्मतत्त्वं विमलं द्वितीया दृष्टिर् अङ्किता ।
ऽजाता ह्य् अविद्यमानैव तदाविद्येति कथ्यते ॥

3.96.26

स्फुरत्य् आत्मविनाशाय विस्मारयति तत् पदम् ।
मिथ्याविकल्पजालेन तन् मलं परिकल्प्यते ॥

3.96.27

श्रुत्वा सृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा विमृश्य च ।
इन्द्रम् आमोदयत्य् एषा तेनेन्द्रियम् इति स्मृता ॥

3.96.28

सर्वस्य दृश्यजालस्य परमात्मन्य् अलक्षिते ।
प्रकृतत्वेन भावानां लोके प्रकृतिर् उच्यते ॥

3.96.29

सदसत्तां नयत्य् आशु सत्तां वासत्त्वम् अञ्जसा ।
सद् वासद् वा विकल्पौघं तेन मायेति कथ्यते ॥

3.96.30

दर्शनश्रवणस्पर्शरसनघ्राणकर्मभिः ।
क्रियेति कथ्यते लोके कार्यकारणतां गता ॥

3.96.31

चितश् चेत्यानुपातिन्या गतायास् सकलङ्कताम् ।
प्रस्फुरद्रूपधर्मिण्या एताः पर्यायवृत्तयः ॥

3.96.32

चित्तताम् उपयाताया गतायाः प्राकृतं पदम् ।
स्वैर् एव सङ्कल्पशतैर् भृशं रूढिम् उपागताः ॥

3.96.33

चेतनीयकलङ्काङ्का जाड्यजालानुपातिनी ।
सङ्ख्याविभागकलिता स्वविकल्पाकुलैव चित् ॥

3.96.34

जीव इत्य् उच्यते लोके मन इत्य् अपि कथ्यते ।
चित्तम् इत्य् उच्यते चैव बुद्धिर् इत्य् उच्यते तथा ॥

3.96.35

नानासङ्कल्पकलिलं पर्यायनिचयं बुधाः ।
वदन्त्य् अस्याः कलङ्किन्याश् च्युतायाः परमार्थतः ॥

3.96.36

मनः किं स्याज् जडं ब्रह्मन्न् अथ वापि च चेतनम् ।
इत्य् एको मम तत्त्वज्ञ निश्चयो ऽन्तर् न जायते ॥

3.96.37

मनो हि न जडं राम नापि चेतनतां गतम् ।
म्लाना जडाजडा दृष्टिर् मन इत्य् एव कथ्यते ॥

3.96.38

मध्ये सदसतो रूपं प्रतिभातं यद् आबिलम् ।
जगतः कारणं राम तद् एतच् चित्तम् उच्यते ॥

3.96.39

शाश्वतेनैकरूपेण निश्चयेन विना स्थितिः ।
येह सा चित्तम् इत्य् उक्ता तस्माज् जातम् इदं जगत् ॥

3.96.40

जडाजडदृशोर् मध्ये दोलारूढं स्वकल्पनम् ।
यच् चितो म्लानरूपिण्यस् तद् एतन् मन उच्यते ॥

3.96.41

चिन्निष्यन्दो हि मलिनः कलङ्कविकलान्तरः ।
मन इत्य् उच्यते राम न जडं न च चिन्मयम् ॥

3.96.42

तस्येमानि विचित्राणि नामानि कलितान्य् अलम् ।
अहङ्कारमनोबुद्धिजीवाद्यानीतराण्य् अपि ॥

3.96.43

यथा गच्छति शैलूषो रूपाण्यत्वं तथैव हि ।
मनो नामान्यताम् एति राम कर्मान्तरं व्रजन् ॥

3.96.44

चित्राधिकारवशतो विचित्राधिकृताभिधाम् ।
यथा याति नरः कर्मवशाद् याति तथा मनः ॥

3.96.45

या एताः कथितास् सञ्ज्ञा मया राघव चेतसः ।
एता एवान्यथा प्रोक्ता वादिभिः कल्पनाशतैः ॥

3.96.46

स्वभावाभिमतां युक्तिम् आरोप्य मनसा कृताः ।
मनोबुद्धीन्द्रियादीनां विचित्रा नामगीतयः ॥

3.96.47

मनो हि जडम् अन्यस्य भिन्नम् अन्यस्य जीवतः ।
तथाहङ्कृतिर् अन्यस्य बुद्धिर् अन्यस्य वादिनः ॥

3.96.48

अहङ्कारमनोबुद्धिदृष्टयस् सृष्टकल्पनाः ।
एकरूपतया प्रोक्ता या मया रघुनन्दन ॥

3.96.49

नैयायिकैर् इतरथा तादृशाः परिकल्पिताः ।
अन्यथा कल्पितास् साङ्ख्यैश् चार्वाकैर् अपि चान्यथा ॥

3.96.50

जैमिनीयैर् आर्हतैश् च बौद्धैर् वैशेषिकैस् तथा ।
अन्यैर् अपि विचित्रेहैः पाञ्चरात्रादिभिस् तथा ॥

3.96.51

सर्वैर् एव हि गन्तव्यं तत् पदं पारमात्मिकम् ।
विचित्रदेशकालोत्थैः पुरम् एकम् इवाध्वगैः ॥

3.96.52

अज्ञानात् परमार्थस्य विपरीतावबोधतः ।
केवलं विवदन्ते ते विकल्पैर् आरुरुक्षवः ॥

3.96.53

स्वं मार्गम् अभिशंसन्ति वादिनश् चित्रया दृशा ।
विचित्रदेशकालोत्था मार्गं स्वं पथिका इव ॥

3.96.54

तैर् मिथ्या राघव प्रोक्ताः कर्ममानसचेतसाम् ।
स्वविकल्पार्पितैर् अर्थैस् स्वास् स्वा वैचित्र्ययुक्तयः ॥

3.96.55

यथैकः पुरुषस् स्नानदानादानाशनक्रियाः ।
कुर्वाणः कर्तृवैचित्र्यम् एति तद्वद् इदं मनः ॥

3.96.56

विचित्रकार्यवशतो नामभेदेन कर्तृता ।
मनसः प्रोच्यते जीववासनाकर्मनामभिः ॥

3.96.57

चित्तम् एवेदम् अखिलं सर्वेणैवानुभूयते ।
अचित्तो हि नरो लोके पश्यन्न् अपि न पश्यति ॥

3.96.58

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च घ्रात्वा भुक्त्वा शुभाशुभम् ।
अन्तर् हर्षं विषादं च समनस्को हि विन्दते ॥

3.96.59

आलोक इव रूपाणाम् अर्थानां कारणं मनः ।
बध्यते बद्धचित्तो हि मुक्तचित्तो हि मुच्यते ॥

3.96.60

तं जडानां वरं विद्धि जडं येनोच्यते मनः ।
तं चावगच्छत जडं मनो यस्य हि चेतनम् ॥

3.96.61

न चेतनं न च जडं यद् इदं प्रोत्थितं मनः ।
विचित्रसुखदुःखेहं जगद् अभ्युत्थितं ततः ॥

3.96.62

एकरूपे हि मनसि संसारः प्रविलीयते ।
आबिलं कारणं भ्रान्तेर् भ्रान्त्या जगद् उपस्थितम् ॥

3.96.63

अजडं हि मनो नाम संसारस्य न कारणम् ।
जडं चोपलधर्मापि संसारस्य न कारणम् ॥

3.96.64

मनः कारणम् अर्थानां रूपाणाम् इव भासनम् ।
चित्ताद् ऋते ऽन्यद् यद् अस्ति तद् अचित्तस्य किं जगत् ॥

3.96.65

न चेतनं न च जडं तस्माज् जगति राघव ।
सर्वस्य भूतजातस्य समग्रं प्रविलीयते ॥

3.96.66

नानाकर्मदशावेशान् मनो नानाभिधेयताम् ।
एकं विचित्रताम् एत्य याति कालो यथार्तुभिः ॥

3.96.67

यदि नामामनस्कानाम् अहङ्कारेन्द्रियक्रियाः ।
क्षोभयन्ति शरीरं तत् सन्तु जीवादयः परे ॥

3.96.68

दर्शनेषु तु ये प्रोक्ता भेदा मनसि तर्कतः ।
क्वचित् क्वचिद् वादकरैर् अपवादकरैः किल ॥

3.96.69

ते राम न विरुध्यन्ते विशिष्यन्ते न च क्वचित् ।
सर्वा हि शक्तयो देवे विद्यन्ते सर्वगे यतः ॥

3.96.70

यदैवं खलु शुद्धाया मनाग् अपि हि संविदः ।
जडेव शक्तिर् उदिता तदा वैचित्र्यम् आगतम् ॥

3.96.71

ऊर्णनाभाद् यथा तन्तुर् जायते चेतनाज् जडः ।
नित्यं प्रबुद्धात् परमाद् ब्रह्मणः प्रकृतिस् तथा ॥

3.96.72

अविद्यावशतश् चित्रा भावनास् स्थितिम् आगताः ।
चित्तपर्यायशब्दार्था भिन्नास् तेनेह वादिनाम् ॥

3.96.73

जीवो मनश् च ननु बुद्धिर् अहङ्कृतिश् चेत्य् एवं प्रथाम् उपगतेयम् अनिर्मला चित् ।
सैवोच्यते जगति चेतनचित्तजीवसञ्ज्ञागणेन किल नास्ति विवाद एषः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc