मोक्षोपाय · अध्याय 3.95
अभिन्नौ कर्मकर्तारौ समम् एव परात् पदात् ।
स्वयं प्रकटतां यातौ पुष्पामोदौ तरोर् इव ॥
सर्वसङ्कल्पनामुक्ते जीवा ब्रह्मणि निर्मले ।
स्फुरन्ति वितते व्योम्नि नीलिम्न इव चन्द्रकाः ॥
अप्रबुद्धजनाचारो यत्र राघव दृश्यते ।
तत्र ब्रह्मण उत्पन्ना जीवा इत्य् उक्तयस् स्थिताः ॥
सम्प्रबुद्धजनाचारे वक्तुम् एवं न शोभनम् ।
यद् ब्रह्मण इदं जातं न जातं वेति राघव ॥
काचिद् वा कलना यावन् न नीता राघव प्रथाम् ।
उपदेश्योपदेशश्रीस् तावल् लोके न शोभते ॥
अतो भेददशां दीनाम् अङ्गीकृत्योपदिश्यते ।
ब्रह्मेदम् एते जीवाश् च वेति वाचाम् अयं भ्रमः ॥
इति दृष्ट्या निरासङ्गाद् ब्रह्मणो जायते जगत् ।
तज्जं तद् एव तत्त्वं तु गतं दुरवबोधतः ॥
मेरुमन्दरसङ्काशा बहवो जीवराशयः ।
उत्पत्योत्पत्य संलीनास् तस्मिन्न् एव परे पदे ॥
अनाद्यन्तास् स्फुरन्त्य् अन्ये जायमानास् सहस्रशः ।
नानाककुब्निकुञ्जेषु पादपेष्व् इव पल्लवाः ॥
जीवौघाश् चोद्भविष्यन्ति मधाव् इव नवाङ्कुराः ।
तत्रैव लयम् एष्यन्ति ग्रीष्मे मधुलता इव ॥
तिष्ठन्त्य् अजस्रं कालेषु त एवान्ये च भूरिशः ।
जायन्ते ऽथ प्रलीयन्ते परस्मिञ् जीवराजयः ॥
पुष्पामोदाव् इवाभिन्नौ पुमान् कर्म च राघव ।
परमेशात् समायातौ तत्रैव विशतश् शनैः ॥
इत्थम् एते जगत्य् अस्मिन् दैत्योरगनरामराः ।
उद्भवन्यग्भवाभावैः प्रस्फुरन्ति पुनः पुनः ॥
हेतुर् विहरणे तेषाम् आत्मविस्मरणाद् ऋते ।
न कश्चिल् लक्ष्यते साधो जन्माध्वफलदो ऽपरः ॥
अविसंवादितार्थं सद् यत् प्रमाणिकदृष्टिभिः ।
वीतरागैर् विनिर्णीतं तच् छास्त्रम् इति कथ्यते ॥
महासत्त्वगुणोपेता ये धीरास् समदृष्टयः ।
यन्निदेशाः फलोपेतास् साधवस् त उदाहृताः ॥
इयं तु दृष्टिस् सकला सिद्धये सर्वकर्मणाम् ।
साधुवृत्ततया शास्त्रं सर्वदैवानुवर्तते ॥
साधुसंव्यवहारस्थं शास्त्रं यो नानुवर्तते ।
बहिष्कुर्वन्ति तं सर्वे स च दुःखे निमज्जति ॥
इह लोके च वेदे च श्रुतिर् इत्थं सदा प्रभो ।
यथा कर्म च कर्ता च पर्यायेणेह सङ्गते ॥
कर्मणा क्रियते कर्ता कर्त्रा कर्म प्रमीयते ।
बीजाङ्कुरवद् आम्नायो लोके वेदोक्त एष सः ॥
कर्मणो जायते जन्तुर् बीजाद् इव नवाङ्कुरः ।
जन्तोः प्रजायते कर्म पुनर् बीजम् इवाङ्कुरात् ॥
यया वासनया कर्म दीयते भवपञ्जरे ।
तद्वासनानुरूपेण फलं समनुभूयते ॥
एवं स्थिते कथं नाम जन्मबीजेन कर्मणा ।
विनोत्पत्तिस् त्वया प्रोक्ता भूतानां ब्रह्मणः पदात् ॥
पक्षेणानेन भगवन् भवता जन्मकर्मणोः ।
तिरस्कृता जगज्जाताप्य् अविनाभावितैतयोः ॥
कर्मण्य् अकारणे ब्रह्मञ् जन्मादिषु फलेषु तु ।
कर्मणां फलम् अस्तीति त्वया लोके प्रमार्जितम् ॥
सञ्जाते सङ्करे लोके कर्मस्व् अफलदायिषु ।
मात्स्ये न्याये विलसति नाश एवावशिष्यते ॥
किं तत् कृतं भवत्य् एवं भगवन् ब्रूहि तत्त्वतः ।
एतं मे संशयं स्फारं छिन्द्धि वेदविदां वर ॥
साधु राघव पृष्टो ऽस्मि त्वया प्रश्नम् इमं शुभम् ।
शृणु वक्ष्यामि ते येन भृशं ज्ञानोदयो भवेत् ॥
मनसो यस् समुन्मेषः कलाकलनरूपतः ।
एतत् तत् कर्मणां बीजं फलम् अस्यैव विद्यते ॥
यद् एव हि मनस्तत्त्वम् उत्थितं ब्रह्मणः पदात् ।
तद् एव कर्म जन्तूनां जीवो देहतया स्थितः ॥
कुसुमामोदयोर् भेदो न यथा भिन्नयोर् इह ।
तथैव कर्ममनसोर् भेदो नास्त्य् अपि भिन्नयोः ॥
क्रियास्पन्दो जगत्य् अस्मिन् कर्मेति कथितो बुधैः ।
पूर्वं तस्य मनोदेहः कर्मातश् चित्तम् एव हि ॥
न स शैलो न तद् व्योम न सा दिङ् न त्रिविष्टपम् ।
अस्ति यत्र फलं नास्ति कृतानाम् आत्मकर्मणाम् ॥
ऐहिकं प्राक्तनं वापि कर्म यद् रचितं स्फुटम् ।
पौरुषो ऽसौ परो यत्नो न कदाचन निष्फलः ॥
ब्रह्मणः प्रोत्थितं चित्तं कर्म विद्धीह नेतरत् ।
तद् एव जनताबीजं विद्धि राघव नेतरत् ॥
देशाद् देशान्तरप्राप्तेर् अनुसन्धानहेतुतः ।
पूर्वं हि कारणं चेतः कर्म चित्तम् अतो विदुः ॥
अक्षुब्धसागरप्रख्याद् ब्रह्मणस् स्पन्दधर्मिणी ।
या चिद् आहुर् अतश् चित्तं जनताजीवतां गतम् ॥
मनः कर्म मनो जीवः कायस् तेनैव तन्यते ।
अतः कर्म च कर्ता च न भिन्नौ तिलतैलवत् ॥
कर्तृकर्मात्मकाव् अर्थाव् अभिन्नौ नित्यम् एव हि ।
अबोधाद् भेदम् आयातौ कल्प्यमानौ मुधैव हि ॥
द्वे कर्ममनसी राम मूर्खाणां न तु धीमताम् ।
समुद्राम्बु तरङ्गाम्बु बालानाम् इव भेदधीः ॥
पर्यायशब्दाव् एतौ हि विद्धि त्वं चित्तकर्मणी ।
पर्यायशब्दतां त्यक्त्वा स्थिते दुरवबोधतः ॥
मनः कर्मात्मकं पूर्वं परस्मात् सम्प्रवर्तते ।
आमोदात्मेव कुसुमं विविधाकृति पादपात् ॥
कर्तृकर्माभिधानीह चेतांस्य् अविरतं पदात् ।
परस्मात् सम्प्रवर्तन्ते तरङ्गा इव सागरात् ॥
उद्धृतान्य् एव तस्मिंस् तु जीवसञ्ज्ञानि तानि तु ।
स्फुरित्वा प्रविलीयन्ते तरङ्गा इव सागरे ॥
मनसा क्रियते कर्म यद् यत् तत् सफलं भवेत् ।
मनस्य् एव न कायोत्थं कर्ता कर्म मनस् ततः ॥
आलोकलाञ्छिताभोगे मकुरे राजते सुखम् ।
ब्रह्मतत्त्वपरामृष्टे कर्तृत्वं मनसि स्फुटम् ॥
गुणो गुणिनि शौक्ल्यादिः पटादौ संस्थितो यथा ।
तथा मनसि कर्तृत्वं जीवनाम्नि व्यवस्थितम् ॥
यथा शैत्यादिरहितस् तुषारो नोपलभ्यते ।
तथा कर्म विना चित्तं न किञ्चिद् उपलभ्यते ॥
कृष्णतासङ्क्षये यद्वत् क्षीयते कज्जलं स्वयम् ।
स्पन्दात्मकर्मविगमे तद्वत् प्रक्षीयते मनः ॥
कर्मनाशो मनोनाशो मनोनाशो ह्य् अकर्मता ।
मुक्तस्यैव भवत्य् एष नामुक्तस्य कदाचन ॥
वह्न्यौष्ण्ययोर् इव सदा श्लिष्टयोश् चित्तकर्मणोः ।
द्वयोर् एकतराभावे द्वयम् एव विलीयते ॥
चित्तं सदा स्पन्दविलासम् एतत् स्पन्दैकरूपं ननु कर्म विद्धि ।
कर्माथ चित्तं किल धर्मधर्मि पदं गते राम परस्परेण ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0