मोक्षोपाय · अध्याय 3.94
उत्तमाधममध्यानां पदार्थानाम् इतस् ततः ।
उत्पत्तीनां विभागो ऽयं शृणु वक्ष्यामि राघव ॥
इत्थम्प्रथमतोत्पन्नो यो ऽस्मिन्न् एव हि जन्मनि ।
ब्रह्मणस् सात्त्विकी तस्य प्रथमोत्पत्तिर् इष्यते ॥
इदम्प्रथमतानाम्नी शुभाभ्याससमुद्भवा ।
शुभलोकाश्रया सा च शुभकार्यानुबन्धिनी ॥
सा चेद् विचित्रसंसारवासनाव्यवहारिणी ।
भावैः कतिपयैर् मोक्षम् ईयुषी गुणपीवरी ॥
तादृक्फलप्रदानैककार्याकार्यानुमानदा ।
तेन राजससत्त्वेति प्रोच्यते सा कृतात्मभिः ॥
अथ चेच् चित्रसंसारवासनाव्यवहारिणी ।
अत्यन्तकलुषा जन्मसहस्रैर् ज्ञानभागिनी ॥
तादृक्फलप्रदानैकधर्माधर्मानुमानदा ।
असाव् अधमसत्त्वेति प्रोच्यते सा कृतात्मभिः ॥
सैव सङ्ख्यातिगानन्तजन्मवृन्दाद् अनन्तरम् ।
सन्दिग्धमोक्षा यदि तत् प्रोच्यते ऽत्यन्ततामसी ॥
अनद्यतनजन्मात्तमतिस् तादृशकारणा ।
योत्पत्तिर् मध्यमा पुंसो राम द्वित्रिभवान्तरा ॥
तद्वत्कार्यानुगा लोके राजसी राजसत्तम ।
अविप्रकृष्टजन्माध्वा सोच्यते कृतबुद्धिभिः ॥
सा हि तज्जन्ममात्रेण मोक्षयोग्या मुमुक्षुभिः ।
तादृक्कार्यानुमानेन प्रोक्ता राजससात्त्विकी ॥
सैव चेद् इतरैर् अल्पैर् जन्मभिर् मोक्षभागिनी ।
तत् तादृशी हि सा तज्ज्ञैः प्रोक्ता राजसराजसी ॥
सैव जन्मशतैर् मोक्षभागिनी चेच् चिरैषिणी ।
तद् उक्ता तादृगारम्भा सद्भी राजसतामसी ॥
सैव सन्दिग्धमोक्षा चेत् सहस्रैर् अपि जन्मनाम् ।
तद् उक्ता तादृगारम्भा राजसात्यन्ततामसी ॥
भुक्तजन्मसहस्रा तु योत्पत्तिर् ब्रह्मणो नृणाम् ।
चिरमोक्षा हि कथिता तामसी सा महर्षिभिः ॥
तज्जन्मनैव मोक्षस्य भागिनी चेत् तद् उच्यते ।
तज्ज्ञैस् तामससत्त्वेति तादृगारम्भशंसिनी ॥
भावैः कतिपयैर् मोक्षभागिनी चेत् तद् उच्यते ।
तमोराजसरूपेति तादृशैर् गुणवृत्तिभिः ॥
पूर्वं जन्मसहस्राढ्या पुरो जन्मशतैर् अपि ।
मोक्षयोग्या ततः प्रोक्ता तज्ज्ञैस् तामसतामसी ॥
पूर्वं तु जन्मलक्ष्याढ्या जन्मलक्ष्यैः पुरो ऽपि चेत् ।
सन्दिग्धमोक्षा तद् असौ प्रोच्यते ऽत्यन्ततामसी ॥
सर्वा एतास् समायान्ति ब्रह्मणो भूतजातयः ।
किञ्चित्प्रचलिता भोगात् पयोराशेर् इवोर्मयः ॥
सर्वा एता विनिष्क्रान्ता ब्रह्मणो जीवराशयः ।
स्वतेजस्स्पन्दिता भोगाद् दीपाद् इव मरीचयः ॥
सर्वा एव समुत्पन्ना ब्रह्मणो भूतपङ्क्तयः ।
स्वमरीचिबलोद्धूताद् अलाताङ्गात् कणा इव ॥
सर्वा एवोत्थितास् तस्माद् ब्रह्मणो जीवजातयः ।
मन्दारमञ्जरीरूपाश् चन्द्रबिम्बाद् इवांशवः ॥
सर्वा एव समुत्पन्ना ब्रह्मणो दृश्यदृष्टयः ।
यथा विटपिनश् चित्रास् तद्रूपा विटपश्रियः ॥
सर्वा एव समुत्पन्ना ब्रह्मणो जीवशक्तयः ।
कटकाङ्गदकेयूरयुक्तयः कनकाद् इव ॥
सर्वा एवोत्थिता राम ब्रह्मणो जीवराशयः ।
निर्झराद् अमलोद्द्योतात् पयसाम् इव बिन्दवः ॥
अजस्यैवाखिला राम भूतसन्ततिकल्पना ।
आकाशस्य घटस्थालीरन्ध्राकाशादयो यथा ॥
सर्वा एवोत्थिता लोककलना ब्रह्मणः पदात् ।
शीकरावर्तलहरीबिन्दवः पयसो यथा ॥
सर्वा एवोत्थिता राम ब्रह्मणो दृश्यदृष्टयः ।
मृगतृष्णातरङ्गिण्यो यथा भास्करतेजसः ॥
सर्वा दृश्यदृशो द्रष्टुर् व्यतिरिक्ता न रूपतः ।
शीतरश्मेर् इव ज्योत्स्ना स्वालोका इव तेजसः ॥
एवम् एता हि लोकानां जातयो विविधाश्रयाः ।
तस्माद् एव समायान्ति तस्मिन्न् एव विशन्ति च ॥
काश्चिज् जन्मसहस्रान्ताजातयश् चिरकालिकाः ।
काश्चित् कतिपयातीतजन्मरूपा व्यवस्थिताः ॥
इत्थं जगत्सु विविधेषु विचित्ररूपास् तस्येच्छया भगवतो व्यवहारवत्यः ।
आयन्ति यान्ति निपतन्ति तथोत्पतन्ति भूतश्रियः कणघटा इव पावकोत्थाः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0