भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.93

3.93.2

तस्मात् सर्वपदार्थानां त्रैलोक्योदरवर्तिनाम् ।
उत्पत्तिर् ब्रह्मणो राम तरङ्गानाम् इवार्णवात् ॥

3.93.4

काश्चिज् जन्मसहस्राढ्याः पतन्ति वनपर्णवत् ।
कर्मवात्या परिभ्रान्ता लुठन्ति गिरिकुक्षिषु ॥

3.93.5

अप्रमेयभवाः काश्चित् सन्तताज्ञानमोहिताः ।
चिरजाता भ्रमन्तीह बहुकल्पशतान्य् अपि ॥

3.93.6

काश्चित् कतिपयातीतमनोरमभवान्तराः ।
विहरन्ति जगत्य् अस्मिञ् शुभकर्मपरायणाः ॥

3.93.7

काश्चिद् विज्ञातविज्ञानाः परम् एव पदं गताः ।
वातोद्धूताः पयोमध्यं सामुद्रा इव बिन्दवः ॥

3.93.8

उत्पत्तिस् सर्वबीजानाम् इति हि ब्रह्मणः पदात् ।
आविर्भावतिरोभावभङ्गुरा भवरागिणी ॥

3.93.9

वासना विषवैषम्यवैधुर्यज्वरधारिणी ।
अनन्तसङ्कटानर्थकार्यसङ्करकारिणी ॥

3.93.10

नानादिग्देशकालान्तशैलकन्दरचारिणी ।
रचितोत्तमवैचित्र्या विहितावर्तसम्भ्रमा ॥

3.93.11

एषा जगज्जङ्गलजीर्णवल्ली सम्यक्समालोककुठारकृत्ता ।
विलीनविक्षुब्धमनश्शरीरा भूयो न संरोहति रामभद्र ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc