मोक्षोपाय · अध्याय 3.92
इत्य् उक्तवान् स भगवान् मया कमलसम्भवः ।
रघूद्वह पुनः पृष्टो वाक्यम् आक्षिप्य भूतपः ॥
त्वयैव भगवन् प्रोक्ताश् शापमन्त्रादिशक्तयः ।
अमोघा इति ता एव कथं मोघीकृताः पुनः ॥
शापेन मन्त्रवीर्येण मनोबुद्धीन्द्रियाण्य् अपि ।
सर्वाण्य् एव विमूढानि दृष्टानि किल जन्तुषु ॥
यथैतौ पवनस्पन्दौ यथा स्नेहघृते तथा ।
अभिन्नौ तद्वद् एवैतौ मनोदेहौ सदैव हि ॥
अथ नास्त्य् एव वा देहः केवलं चेतसोहितः ।
मुधानुभूयते स्वप्नमृगतृष्णाद्विचन्द्रवत् ॥
एकनाशे द्वयोर् एव नाशो ऽत्राभ्युपपद्यते ।
अवश्यभावी तु मनोनाशे देहपरिक्षयः ॥
मनश् शापादिभिर् दोषैः कथं नाक्रम्यते प्रभो ।
कथम् आक्रम्यते वापि ब्रूहि मे परमेश्वर ॥
न तद् अस्ति जगत्कोशे शुभकर्मानुपातिना ।
यत् पौरुषेण शुद्धेन न समासाद्यते जनैः ॥
आब्रह्मस्थावरान्तं च सर्वदा सर्वजातयः ।
सर्वा एव जगत्य् अस्मिन् द्विशरीराश् शरीरिणाम् ॥
एकं मनश्शरीरं तु क्षिप्रकारि स्थितं चलम् ।
अकिञ्चित्करम् अन्यत् तु शरीरं मांसनिर्मितम् ॥
यत्र मांसमयः कायस् सर्वस्यैव वशङ्गतः ।
सर्वैर् आयास्यते शापैस् तथाधिव्याधिसञ्चयैः ॥
मूकप्रायो ह्य् अशक्तो ऽसौ दीनः क्षणविनश्वरः ।
पद्मपत्त्राम्बुचपलो देवादिविवशस्थितिः ॥
मनो नाम द्वितीयो यः कायः कायवताम् इह ।
स आयत्तो ऽपि नायत्तो भूतानां भुवनत्रये ॥
पौरुषं स्वम् अवष्टभ्य धैर्यम् आलम्ब्य शाश्वतम् ।
यदि तिष्ठत्य् अगम्यो ऽसौ दुःखानां तद् अनिन्दितः ॥
यथा यथासौ यतते मनोदेहो हि देहिनाम् ।
तथा तथासौ भवति स्वनिश्चयफलैकभाक् ॥
सफलो मांसदेहस्य न कश्चित् पौरुषक्रमः ।
मनोदेहस्य सफलं सर्वम् एव स्वचेष्टितम् ॥
पवित्रम् अनुसन्धानं चेतसा यस् स्मरन् स्थितः ।
निष्फलास् तत्र शापाद्याश् शिलायाम् इव सायकाः ॥
पतत्व् अम्भसि वह्नौ वा कर्दमे वा कलेवरम् ।
मनो यद् अनुसन्धत्ते तद् एवाप्नोति निश्चितम् ॥
पौरुषातिशयस् सर्वस् सर्वभावोपमर्दजः ।
ददात्य् अविघ्नेन फलं मनो हि मनसो मुने ॥
पौरुषेण बलेनान्तश् चित्तं कृत्वा प्रियामयम् ।
कृत्रिमेन्द्रेण दुःखार्तिर् न दृष्टा शासनास्व् अपि ॥
पौरुषेण मनः कृत्वा नीरागं विगतज्वरम् ।
माण्डव्येन जिताः क्लेशाश् शूलप्रान्ते ऽपि तिष्ठता ॥
अन्धकूपे स्थितेनापि मानसैर् यज्ञसञ्चयैः ।
ऋषिणा दीर्घतपसा सम्प्राप्तं वैबुधं पुरम् ॥
इन्दोः पुत्रैर् नरैर् एव पुरुषाध्यवसायतः ।
ध्यानेन ब्रह्मता प्राप्ता या मयापि न खण्ड्यते ॥
अन्ये ऽप्य् सावधाना ये धीरास् सुरमहर्षयः ।
चित्तात् स्वम् अनुसन्धानं न त्यजन्ति मनाग् अपि ॥
आधयो व्याधयश् चैव शापाः पापदृशस् तथा ।
न खण्डयन्ति तान् पद्मपत्त्राघाताश् शिलाम् इव ॥
ये वापि खण्डिताः केचिच् छापाद्यैर् आधिसायकैः ।
स्वविवेकाक्षमं तेषां मनो मन्ये ऽप्य् अपौरुषम् ॥
न कदाचन संसारे सावधानमना मनाक् ।
स्वप्ने ऽपि कश्चिद् अस्त्य् एव दोषजालैः खलीकृतः ॥
मनसैव मनस् तस्मात् पौरुषेण पुमान् इह ।
स्वकम् एव स्वकेनैव योजयेत् पावने पथि ॥
प्रतिभातं यद् एवास्य तथारूपं भवत्य् अलम् ।
क्षणाद् एव मनः पीनं बालवेतालवन् मुने ॥
प्रतिभासस्यानुपदं प्राक्तनीं स्थितिम् उज्झति ।
कुलालकर्मानुपदं घटो मृत्पिण्डताम् इव ॥
प्रतिभातार्थताम् एति क्षणाद् एव मनो मुने ।
स्पन्दमात्रात्मकं वारि यथा तुङ्गतरङ्गताम् ॥
अनुसन्धानमात्रेण सूर्यबिम्बे ऽपि यामिनीम् ।
मनः पश्यत्य् अशुद्धाक्षश् चन्द्रबिम्बे द्विताम् इव ॥
यत् पश्यति तद् एवाशु फलीभूतम् इदं मनः ।
सह हर्षविषादाभ्यां भुङ्क्ते तस्मात् तद् एव सत् ॥
प्रतिभानुपदं चैतच् चन्द्रे ऽप्य् अग्निशिखाशतम् ।
दृष्ट्वा दाहम् अवाप्नोति दग्धं च परितप्यते ॥
प्रतिभानुपदं चेतः क्षारे ऽपि हि रसायनम् ।
दृष्ट्वा पीत्वा परां तृप्तिं याति वल्गति दृप्यति ॥
प्रतिभानुपदं चेतो व्योमन्य् अपि महावनम् ।
दृष्ट्वा लुनाति लूत्वा च पुनर् आरोपयत्य् अलम् ॥
इत्थं यद् एव परिकल्पयतीन्द्रजालं क्षिप्रं तद् एव परिपश्यति तात चेतः ।
नासज् जगन् न च सद् इत्य् अवगम्य नूनम् एनां दृशं विविधभेदवतीं जहीहि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0