भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.91

3.91.1

तेनैतद् वच्मि भगवन् यथाजातं मनो मुने ।
अनिग्राह्यम् अभेद्यं च शापैर् अपि दुरासदैः ॥

3.91.2

ऐन्दवानाम् अतस् सृष्टिक्रमाणां प्रविनाशनम् ।
युज्यते न न च ब्रह्मन् युक्तम् एतन् महात्मनः ॥

3.91.3

किं तद् अस्ति जगत्य् अस्मिन् विविधेषु जगत्सु वा ।
तवापि नाथ नाथस्य यद् दैन्याय महात्मनः ॥

3.91.4

मनो हि जगतां कर्तृ मनो हि पुरुषस् स्मृतः ।
मनःकृतं कृतं लोके न शरीरकृतं कृतम् ॥

3.91.5

यन् मनोनिश्चयकृतं तद् द्रव्यौषधिदण्डनैः ।
हन्तुं न शक्यते जन्तोः प्रतिबिम्बं मणेर् इव ॥

3.91.6

तस्माद् एते ऽत्र तिष्ठन्तु भासुरैस् सर्गसम्भ्रमैः ।
त्वं सृष्ट्वेह प्रजास् तिष्ठ बुद्ध्याकाशे ऽप्य् अनन्तकः ॥

3.91.7

चित्ताकाशश् चिदाकाश आकाशश् च तृतीयकः ।
अनन्तास् त्रय एवैते चिदाकाशप्रकाशिताः ॥

3.91.8

एकं द्वौ वा बहून् वापि कुरु सर्गान् प्रजापते ।
स्वेच्छयात्मनि तिष्ठ त्वं किं गृहीतं तवैन्दवैः ॥

3.91.9

अथैन्दवे जगज्जाले भानुनेत्थम् उदाहृते ।
मया सञ्चिन्त्य सुचिरम् इदम् उक्तं महामुने ॥

3.91.10

युक्तम् उक्तं त्वया भानो विततं हि किलाम्बरम् ।
मनश् च विततं चापि चिदाकाशश् च विस्तृतः ॥

3.91.11

तद् यथाभिमतं सर्गं नित्यं कर्म करोम्य् अहम् ।
कल्पयामि बहून्य् आशु भूतजालानि भास्कर ॥

3.91.12

तत् त्वम् एवाशु भगवन् प्रथमो ऽत्र मनुर् भव ।
कुरु सर्गं यथाकामं मया समभिचोदितः ॥

3.91.13

अथैतत् स महातेजा मम वाक्यं प्रभाकरः ।
अङ्गीकृत्य द्विधात्मानं चकार तपतां वरः ॥

3.91.14

एकेन प्राक्तने तस्मिन् वपुषा सूर्यतां गतः ।
व्योमाध्वगतया सर्गे ततान दिवसावलीम् ॥

3.91.15

मन्मनुत्वं द्वितीयेन कृत्वा स्ववपुषा क्षणात् ।
ससर्ज सकलां सृष्टिं तताम् अभिमतां मम ॥

3.91.16

प्रतिभासम् उपायाति यद् यद् अस्य हि चेतसः ।
तत् तत् प्रकटताम् एति स्थैर्यं सफलताम् अपि ॥

3.91.17

सामान्यब्राह्मणा भूत्वा प्रतिभासवशात् किल ।
ऐन्दवा ब्रह्मतां याता मनसः पश्य शक्तताम् ॥

3.91.18

यथैवैन्दवजीवास् ते चित्तत्वाद् ब्रह्मतां गताः ।
वयं तथैव चिद्भावाच् चित्तत्वाद् ब्रह्मतां गताः ॥

3.91.19

चित्तं हि प्रतिभासात्म यच् च तत्प्रतिभासनम् ।
तद् इदं भाति देहादिखाभं नातो ऽस्ति देहदृक् ॥

3.91.20

चित्त्वम् आत्मचमत्कारस् तच् चमत्कुरुते स्वतः ।
यद् यावत्सम्भवं स्वात्मन्य् एवान्तर् मरिचात्मवत् ॥

3.91.21

तद् एतच् चित्तवद् भातम् आतिवाहिकनामकम् ।
तद् एवोदाहरन्त्य् एतद् देहनाम्ना घनं भ्रमि ॥

3.91.22

कथ्यते जीवनाम्नैतच् चेतः प्रतनुवासनम् ।
शान्तं देहचमत्कारं जीवं विद्धि क्रमात् परम् ॥

3.91.23

नाहं न चान्यद् अस्तीह चित्त्वं चित्तम् इदं स्थितम् ।
वसिष्ठैन्दवसंविद्वद् असत् सत्ताम् इवागतम् ॥

3.91.24

यथैन्दवमनो ब्रह्मा तथैवायम् अहं स्थितः ।
मत्कृतं चाहम् एवेदं सङ्कल्पात्मैव भासते ॥

3.91.25

कश्चिच् चित्तविलासो ऽयं ब्रह्माहम् इति संस्थितः ।
स्वभाव एव देहादि विद्धि शून्यतरात्मखात् ॥

3.91.26

शुद्धा चित् परमात्मैकरूपिणीत्य् एव भावनात् ।
जीवीभूय मनो भूत्वा वेत्तीत्थं देहतां मुधा ॥

3.91.27

सर्वम् ऐन्दवसंसारवद् इदं भाति चिद्वपुः ।
सम्पन्नम् अप्रबोधात्म दीर्घस्वप्नस् स्वशक्तिजः ॥

3.91.28

द्विचन्द्रविभ्रमाकारं तन्मात्राकारविभ्रमम् ।
ऐन्दवाब्जजवद् रूढं चितश् चित्त्वं मनो भवेत् ॥

3.91.29

न सन् नासद् अहंरूपं सत्त्वासत्त्वे तथैव च ।
उपलम्भेन सद्रूपम् असत्यं तद्विरोधतः ॥

3.91.30

जडाजडं मनो विद्धि सङ्कल्पात्म बृहद्वपुः ।
अजडं ब्रह्मरूपत्वाज् जडं दृश्यात्मतागमात् ॥

3.91.31

दृश्यानुभवसत्यात्म तदभावे विलायि तत् ।
कटकत्वं यथा हेम्नि तथा ब्रह्मणि संस्थितम् ॥

3.91.32

सर्वत्वाद् ब्रह्मणस् सर्वं जडं चिन्मयम् एव वा ।
अस्मदादिशिलान्तात्म न जडं न च चेतनम् ॥

3.91.33

दार्वादीनाम् अचित्त्वेन नोपलम्भस्य सम्भवः ।
उपलम्भो हि सदृशसम्बन्धाद् एव जायते ॥

3.91.34

उपलब्धेर् जडं विद्धि चेतनं सर्वम् एव हि ।
उपलम्भो हि सम्बन्धात् सम्बन्धो हि समात्मनोः ॥

3.91.35

जडचेतनशान्तादिशब्दार्थश्रीर् न विद्यते ।
अनिर्देश्ये पदे पत्त्रलतादीव महामरौ ॥

3.91.36

चितौ यच् चेत्यकलनं तन् मनस्त्वम् उदाहृतम् ।
चिद्भागो ऽत्राजडो भागो जाड्यम् अत्र तु चेत्यता ॥

3.91.37

चिद्भागो ऽत्रावबोधांशो जडं चेत्यं हि दृश्यता ।
इति जीवो जगद्भ्रान्तिं पश्यन् गच्छति लोलताम् ॥

3.91.38

चिता स्व एव भावो ऽसौ शुद्धयैवं द्वयीकृतः ।
अतस् सर्वं जगत् सैव द्वैतं लब्धांशम् एव तत् ॥

3.91.39

स्वम् एवान्यतया दृष्ट्वा चितिर् दृश्यतया वपुः ।
निर्भागाप्य् एकभागाभं भ्रमतीव भ्रमातुरा ॥

3.91.40

न भ्रान्तिर् अस्ति भ्रमभाङ् नैवेतीह हि निश्चयः ।
परिपूर्णार्णवप्रख्या चितीत्थं संस्थिता चितिः ॥

3.91.41

सर्वत्वाज् जाड्यम् अस्त्व् अस्यां चिति चित्त्वं च वेत्सि तत् ।
चिद्भागो ऽत्रावबोधांशस् त्व् अहन्ताजडतोदयः ॥

3.91.42

अहन्त्वादि परे तत्त्वे मनाग् अपि न विद्यते ।
ऊर्म्यादीव पृथक् तोये संवित्सारं हि तद् यतः ॥

3.91.43

अहम्प्रत्ययसन्दृश्यं चेत्यं विद्धि समुत्थितम् ।
मृगतृष्णास्व् इवातस् तन् नूनं विद्यत एव नो ॥

3.91.44

अहन्तापदमात्रात्मपदं विद्धि निरामयम् ।
विदं विदुर् अहन्तादि शैत्यम् एव यथा हिमम् ॥

3.91.45

चितैव चेत्यते जाड्यं स्वप्ने स्वमरणोपमम् ।
सर्वात्मत्वात् सर्वशक्तीः कुर्वती नैति साम्यताम् ॥

3.91.46

मनः पदार्थादितया सर्वरूपं विजृम्भते ।
नानात्मा चित्तदेहो ऽयम् आकाशविषदाकृतिः ॥

3.91.47

देहादि देहप्रतिभारूपात्म त्यजता सदा ।
विचार्यं प्रतिभासात्म चित्त्वं चित्त्वेन वै स्फुटम् ॥

3.91.48

चित्तताम्रे शोधिते हि परमार्थसुवर्णताम् ।
गते ऽकृत्रिम आनन्दः किं देहोपलखण्डकैः ॥

3.91.49

यद् विद्यते शोध्यते तद् धौतः केन खपादपः ।
देहाद्यविद्या सत्या चेद् युक्त एतां प्रति ग्रहः ॥

3.91.50

असत्याभिनिविष्टानां देहादाव् अधियाम् इह ।
ये नामोपदिशन्त्य् अज्ञाः केचित् ते पुरुषैडकाः ॥

3.91.51

यथैतद् भावयेत् स्वान्तं तथैतद् भवति क्षणात् ।
दृष्टान्तो ऽत्रैन्दवाहल्याकृत्रिमेन्द्रादिनिश्चयः ॥

3.91.52

यद् यद् यथा स्फुरति स्वप्रतिभात्म चित्तं तत् तत् तथा भवति देहतयोदितात्म ।
देहो ऽयम् अस्ति न न चाहम् इति स्वरूपं विज्ञानम् एकम् अवगम्य निरिच्छम् आस्स्व ॥

3.91.53

देहो ऽयम् एष च किलाहम् इति स्वभावाद् देहार्थम् एव यतते तत एति नाशम् ।
यक्षादिकल्पनवशाद् भयम् एति बालो निर्यक्षदेशगत एव कयापि युक्त्या ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc