भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.90

3.90.1

अथेन्द्रेणैवम् उक्तो ऽसौ राजा राजीवलोचनः ।
मुनिं भरतनामानं पार्श्वसंस्थम् उवाच ह ॥

3.90.2

भगवन् सर्वधर्मज्ञ पश्यस्य् अस्य दुरात्मनः ।
भृशम् अद्य मुखे स्फारं धार्ष्ट्यं मद्दारहारिणः ॥

3.90.3

पापानुरूपम् अप्य् अस्य शापं देहि महामुने ।
यद् अवध्यवधात् पापं वधत्यागात् तद् एव हि ॥

3.90.4

इत्य् उक्तो राजसिंहेन भरतो मुनिसत्तमः ।
यथावत् प्रविचार्याशु पापं तस्य दुरात्मनः ॥

3.90.5

सहानया दुष्कृतिन्या भर्तृद्रोहाभिभूतया ।
विनाशं व्रज दुर्बुद्धे इति शापं विसृष्टवान् ॥

3.90.6

ततस् तौ स्नेहसम्बद्धमनस्काव् एव शापतः ।
पतितौ भूतले वृक्षविच्युताव् इव पल्लवौ ॥

3.90.7

अथ व्यसनसंसक्तौ मृगयोनिम् उपागतौ ।
ततो द्वाव् अपि संसक्तौ भूयो जातौ विहङ्गमौ ॥

3.90.8

अद्यास्माकं विभो सर्गे मिथस्सम्बद्धभावनौ ।
तपःपरौ महापुण्यौ जातौ ब्राह्मणदम्पती ॥

3.90.9

भारतो हि तयोश् शापस् स समर्थो बभूव ह ।
शरीरमात्राक्रमणे न मनोनिग्रहे प्रभो ॥

3.90.10

ताव् अद्यावधितेनैव देहसंस्कारहेतुना ।
यत्र यत्रोपजायेते भवतस् तत्र दम्पती ॥

3.90.11

अकृत्रिमप्रेमरसानुविद्धं स्नेहं तयोस् तं प्रसमीक्ष्य कान्तम् ।
वृक्षा अपि स्नेहरसानुविद्धाश् शृङ्गारचेष्टाकुलिता भवति ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc