मोक्षोपाय · अध्याय 3.89
श्रूयते हि पुरा देव मगधेषु महीपतिः ।
इन्द्रद्युम्न इति ख्यात इन्द्रद्युम्न इवापरः ॥
तस्येन्दुबिम्बप्रतिमा भार्या कमललोचना ।
अहल्या नाम तत्रासीच् छशाङ्कस्येव रोहिणी ॥
तस्मिन्न् एव पुरे शिड्गः किलासीद् बलवान् इति ।
इन्द्रनामापरः कश्चिच् छ्रीमान् विप्रकुमारकः ॥
अहल्या पूर्वम् इन्द्रस्य बभूवेष्टेत्य् अहल्यया ।
श्रुतं राजमहिष्याथ कथाप्रस्तावतः क्वचित् ॥
आकर्ण्य तद् अहल्या सा बभूवेन्द्रानुरागिणी ।
अहल्यां मां न कस्मात् स शक्रो ऽभ्येतीति सोत्सुका ॥
मृणालहारकदलीपल्लवास्तरणेषु सा ।
अतप्यत भृशं बाला लतालूना वनेष्व् इव ॥
खेदम् आप समग्रासु तासु भूपविभूतिषु ।
मत्सी निदाघतप्तासु परिलोला स्थलेष्व् इव ॥
अयम् इन्द्रो ऽयम् इन्द्रश् चेत्य् एवं जातप्रलापया ।
लज्जापि हि तया त्यक्ता वैवश्यम् उपयातया ॥
इत्य् आर्ताया घनस्नेहम् अथ तस्या वयस्यया ।
उक्तम् आलि तवाविघ्नम् इन्द्रम् अप्य् आनयाम्य् अहम् ॥
इन्द्रं तवानयामीति श्रुत्वा विकसितेक्षणा ।
पपात पादयोस् सख्या नलिन्या नलिनी यथा ॥
ततः प्रयाते दिवसे समायाते निशागमे ।
सा वयस्या तम् इन्द्राख्यं ययौ विप्रकुमारकम् ॥
बोधयित्वा यथायुक्तं सा तम् इन्द्रकुमारकम् ।
अहल्यानिकटं रात्राव् आनयाम् आस सत्वरम् ॥
सा ततस् तेन शिड्गेन महेन्द्रेण रतिं ययौ ।
कस्मिंश्चित् सदने गुप्ते बहुमाल्यविलेपना ॥
हाराङ्गदमनोज्ञेन तेन सा तरुणी तदा ।
रतेनावर्जिता वल्ली रसेन मधुना यथा ॥
ततस् तदनुरक्ता सा पश्यन्ती तन्मयं जगत् ।
न सानन्तगुणाकीर्णं भर्तारं बह्व् अमन्यत ॥
केनचित् त्व् अथ कालेन तस्या इन्द्रानुरागिता ।
सा ज्ञाता राजसिंहेन तन्मुखव्योमचन्द्रिका ॥
इन्द्रं ध्यायति सा यावत् तावत् तस्या विराजते ।
मुखं पूर्णेन चन्द्रेण प्रबुद्धम् इव कैरवम् ॥
एवम् अन्योऽन्यम् आसक्तभावम् आलोक्य भूपतिः ।
चकार बहुभिर् दण्डैस् स द्वयोर् अथ शासनम् ॥
ताव् उभाव् अपि सन्त्यक्तौ हि सन्तौ सलिलाशये ।
तुष्टौ जहसतुस् तत्र न खेदं समुपागतौ ॥
अपृच्छत् तौ ततो राजा खिन्नौ स्थः किं न दुर्मती ।
ताव् ऊचतुर् महीपालं जलाशयसमुद्धृतौ ॥
संसृत्यावाम् इहान्योऽन्यं मुखकान्तिम् अनिन्दिताम् ।
मुह्यावो न महीपाल स्वाङ्गैर् अपि विकर्तितैः ॥
वह्नाव् अपि परिक्षिप्ताव् अखिन्नाव् एवम् एव तौ ।
ऊचतुर् मुदितात्मानाव् अन्योऽन्यं स्मृतिहर्षितौ ॥
ग्रथितौ गजपादेषु नखिन्नाव् एव संस्थितौ ।
एवम् एवोचतुर् भूपम् अन्योऽन्यं स्मृतिहर्षितौ ॥
कषाहताव् अखिन्नौ ताव् एवम् एव किलोचतुः ।
पङ्कमग्नाव् अखिन्नौ ताव् एवम् एव किलोचतुः ॥
अन्यस्माच् छासनाजालात् कल्पिताच् च पुनः पुनः ।
उद्धृताव् ऊचतुः पृष्टौ तम् एवार्थं पुनः पुनः ॥
उवाचेन्द्रो महीपाल जगन् मे दयितामयम् ।
न शासनानि दुःखानि बाधन्ते किञ्चिद् एव मे ॥
अस्याश् चैव जगद् राजन् सर्वं मन्मयम् एव हि ।
तेन नौ शासनादुःखं किञ्चिद् एव न बाधते ॥
मनो नाम वयं राजन् मनो हि पुरुषस् स्मृतः ।
प्रपञ्चमात्रम् एवायं देहो दृश्यत एव हि ॥
समकालप्रयुक्तेन सहसा दण्डराशिना ।
धीरं मनो भेधयितुं न मनाग् अपि शक्यते ॥
का नाम ता महाराज कीदृश्यः कस्य शक्तयः ।
याभिर् मनांसि भिद्यन्ते दृढनिश्चयवन्त्य् अपि ॥
पततूदेतु वा देहो यातु वा विशरारुताम् ।
भावितार्थाभिपतितं मनस् तिष्ठति पूर्ववत् ॥
इष्टे ऽर्थे चिरम् आविष्टं भङ्क्तुं धीरं स्थितं मनः ।
भावा भावाश् शरीरस्था मम शक्ता न केचन ॥
भावितं तीव्रवेगेन मनसा यन् महीपते ।
तद् एव पश्यत्य् अचलं न शरीरविचेष्टितम् ॥
न काश्चन क्रिया राजन् वरशापादिका अपि ।
तीव्रसंवेगसम्पन्नं शक्ताश् चालयितुं मनः ॥
तीव्रवेगेन संसक्तं पुरुषा ह्य् अभिवाञ्छिते ।
मनश् चालयितुं शक्ता न महाद्रिं मृगा इव ॥
रामेयम् असितापाङ्गा मनःकोशे प्रतिष्ठिता ।
देवागारे महोत्सेधे देवी भगवती यथा ॥
न दुःखम् अनुगच्छामि प्रियया जीवरक्षया ।
गिरिर् ग्रीष्मदशादाहं लग्नयेवाभ्रमालया ॥
यत्र यत्र यथा राजंस् तिष्ठाम्य् अभिपतामि वा ।
तत्रेष्टासङ्गमाद् अन्यत् किङ्चिन् नानुभवाम्य् अहम् ॥
अहल्यादयितानाम्ना मनसेन्द्राभिधं मनः ।
संसक्तम् इदम् आयाति न स्वभावाद् ऋते परम् ॥
एककार्यनिविष्टं हि मनो धीरस्य भूपते ।
न चाल्यते मेरुर् इव वरशापबलैर् अपि ॥
देहो हि वरशापाभ्याम् अन्यत्वम् उपगच्छति ।
न तु धीरं मनो राजन् विजिगीषुतयोत्थितम् ॥
एतानि चात्र मनसां न च कारणानि राजञ् शरीरशकलान्य् असमुत्थितानि ।
चेतो हि कारणम् अमीषु शरीरकेषु वारीव सर्ववनषण्डलतारसेषु ॥
आद्यं शरीरम् इह विद्धि मनो महात्मन् सङ्कल्पिता जगति तेन शरीरसङ्घाः ।
आद्यं शरीरम् अभितिष्ठति यत्र तत्र तत् तद् भृशं फलति नेतरद् अस्य पुंसः ॥
मुख्याङ्कुरं सुभग विद्धि मनो हि पुंसो देहास् ततः प्रविसृतास् तरुपल्लवाभाः ।
नष्टे ऽङ्कुरे पुनर् उदेति न पल्लवश्रीर् न त्व् अङ्कुरः क्षयम् उपैति दलक्षयेषु ॥
देहक्षये विविधदेहगणं करोति स्वप्नावनाव् इव वनं नवम् आशु चेतः ।
चित्ते क्षते न तु करोति हि किञ्चिद् एव देहस् ततस् समनुपालय चित्तरत्नम् ॥
दिशि दिशि हरिणाक्षीम् एव पश्यामि राजन् प्रिययुवतिमनस्त्वान् नित्यम् आनन्दितो ऽस्मि ।
तव सुखविकृतीनां यत् फलं दुःखदायि क्षणम् अथ सुचिरं वा तन् न पश्यामि किञ्चित् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0