भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.88

3.88.1

ब्राह्मण ब्रह्मणो भानुर् इत्य् उक्त्वा ब्रह्मणो मम ।
ब्रह्मन् ब्रह्मविदां श्रेष्ठ तूष्णीम् एव बभूव सः ॥

3.88.2

तत उक्तं मया तस्य चिरम् सञ्चिन्त्य चेतसा ।
भानोर् भानो वदाशु त्वं किम् अन्यत् संसृजाम्य् अहम् ॥

3.88.3

एतानि दश विद्यन्ते किल यत्र जगन्ति हि ।
तत्रान्यो मम सर्गेण को ऽर्थः कथय भास्कर ॥

3.88.4

निरीहस्य निरिच्छस्य को ऽर्थस् सर्गेण ते प्रभो ।
विनोदमात्रम् एवेयं सृष्टिस् तव जगत्पते ॥

3.88.5

निष्कामाद् एव भवतस् सर्गस् सम्पद्यते प्रभो ।
अर्काद् इव जलादित्यः प्रतिबिम्बम् इवाधियः ॥

3.88.6

शरीरसन्निवेशस्य त्यागे रागे मते यदा ।
निष्कामो भगवन् भावो नाभिवाञ्छति नोज्झति ॥

3.88.7

सृजसीदं तदा देव विनोदायैव भूतप ।
पुनस् संहृत्य संहृत्य दिनं दिनपतिर् यथा ॥

3.88.8

तव नित्यम् असंसक्तविनोदायैव केवलम् ।
इदं कर्तव्यम् एवेति जगन् न तु घनेच्छया ॥

3.88.9

सृष्टिं न च करोषि त्वम् अहर्व्यापारम् आत्मनः ।
नित्यकर्मपरित्यागात् किम् अपूर्वम् अवाप्स्यसि ॥

3.88.10

यथाप्राप्तं हि कर्तव्यम् असक्तेन सता सदा ।
मकुरेणाकलङ्केन प्रतिबिम्बक्रिया यथा ॥

3.88.11

यथैव कर्मकरणे कामना नास्ति धीमतः ।
तथैवाकर्मकरणे कामना नास्ति धीमतः ॥

3.88.12

अतस् सुषुप्तोपमया वृत्त्या निष्कामयानया ।
सुप्तप्रबुद्धसमया कुरु कार्यं यथागतम् ॥

3.88.13

सर्गैर् अथेन्दुपुत्राणां तोषम् एति जगत् प्रभो ।
तदैते तोषयिष्यन्ति न त्वां सर्गास् सुरेश्वर ॥

3.88.14

चित्तनेत्रैर् भवान् एतान् सर्गान् पश्यति नो दृशा ।
अपश्यंश् चक्षुषा सर्गं सृष्टम् इत्य् एव वेत्ति कः ॥

3.88.15

येनैव मनसा सर्गो निर्मितः परमेश्वर ।
स एव मांसनेत्रेण तं पश्यति हि नेतरः ॥

3.88.16

न चैतान् दश संसारान् दशनीरजसम्भवान् ।
कश्चिन् नाशयितुं शक्तश् चितो दार्ढ्याच् चिरं स्थितान् ॥

3.88.17

कर्मेन्द्रियैर् यत् क्रियते तद् रोद्धुं किल युज्यते ।
न मनोनिश्चयकृतं कश्चिद् रोधयितुं क्षमः ॥

3.88.18

यो बद्धपदतां यातो जन्तोर् मनसि निश्चयः ।
स तेनैव विना ब्रह्मन् नान्येन विनिवार्यते ॥

3.88.19

बहुकालं यद् अभ्यस्तं मनसा दृढनिश्चयम् ।
शापेनापि न तस्यास्ति क्षयो नष्टे ऽपि देहके ॥

3.88.20

यद् बद्धपीठम् अभितो मनसि प्ररूढं तद्रूप एव पुरुषो भवतीह नान्यः ।
तद्बोधनाद् इतरम् अत्र किलाभ्युपायं शैलौघम् एकम् इव निष्फलम् एव मन्ये ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc