मोक्षोपाय · अध्याय 3.85
पुरा मे ब्रह्मणा प्रोक्तं सर्गसङ्कथयानघ ।
यद् इदं तत् प्रवक्ष्यामि त्वयि पृच्छति राघव ॥
पुरा मया हि भगवान् पृष्टः कमलसम्भवः ।
इमे कथम् उपायान्ति ब्रह्मन् सर्गगणा इति ॥
एवं हि मन एवेदम् इत्थं स्फुरति भूतवत् ।
चलैर् जलाशयस् स्फारैर् विचित्रैश् चक्रकैर् इव ॥
दिनादौ सम्प्रबुद्धस्य संसारं स्रष्टुम् इच्छतः ।
पुराकल्पे हि कस्मिंश्चिच् छृणु किं वृत्तम् अङ्ग मे ॥
कदाचिद् अखिलं सर्गं संहृत्य दिवसक्षये ।
एक एवाहम् एकाग्रस् स्वस्थस् स्वाम् अनयं निशाम् ॥
निशान्ते सम्प्रबुद्धस् सन् सान्ध्यां कृत्वा तथा विधिम् ।
प्रजा द्रष्टुं दृशस् स्फारे व्योम्नि योजितवान् अहम् ॥
यावत् पश्यामि गगनं न तमोभिर् न तेजसा ।
व्याप्तम् अत्यन्तविततं शून्यम् अन्तविवर्जितम् ॥
सर्गं सङ्कल्पयामीमम् इति निश्चित्य तन् मया ।
खम् एवेक्षितुम् आरब्धं शुद्धसूक्ष्मेण चेतसा ॥
अथाहं दृष्टवांस् तत्र मनसा वितते ऽम्बरे ।
पृथक्स्थितान् महारम्भान् सर्गान् स्थितिनिरर्गलान् ॥
परस्परेण चादृष्टान् ब्रह्मविष्ण्विन्द्रसंयुतान् ।
ससुरासुरगन्धर्वकिन्नरोरगमानवान् ॥
मेरुमन्दरकैलासमहेन्द्रमलयाचलान् ।
साद्रिद्यूर्वीनदीशांश् च सङ्ख्यया दशभासुरान् ॥
तेषु तत्प्रतिबिम्बाभाः पद्मकोशाधिवासिनः ।
राजहंसरथारूढास् संस्थिता दशपद्मजाः ॥
पृथक्स्थितेषु दशसु तेषूद्यद्भूतपङ्क्तिषु ।
ज्वलज्ज्वालेषु दीर्घेषु जगत्सूज्ज्वलदीप्तिषु ॥
प्रवहन्ति महानद्यः प्रध्वनन्ति तथाब्धयः ।
प्रतपन्त्य् उष्णरुचयः प्रस्फुरन्त्य् अम्बरे ऽनिलाः ॥
दिवि क्रीडन्ति विबुधा भुवि क्रीडन्ति मानवाः ।
दानवा भोगिनश् चैव पातालेषु सुखं स्थिताः ॥
कालचक्रपरिप्रोताष् षट् छुभास् सकलर्तवः ।
यथाकालं फलपूर्णां भूषयन्त्य् अभितो महीम् ॥
प्रौढिं शुभाशुभाचारस्थितयः ककुभां प्रति ।
नरकस्वर्गफलदास् सर्वत्र समुपागताः ॥
भोगमोक्षफलार्थिन्यस् समस्ता भूतजातयः ।
समीहितं यथाकालं प्रयतन्ते यथाक्रमम् ॥
सप्तलोकास् तथा द्वीपास् समुद्रा गिरयस् तथा ।
अवेक्षमाणाः कल्पान्तं स्फुरन्त्य् उरुतरारवम् ॥
क्वचिद् रात्रित्वम् आयातं क्वचित् स्थिरतया स्थितम् ।
स्थितं पर्वतकुञ्जेषु तमस् तेजोलवद्रुतम् ॥
नभोनीलोत्पलस्यान्तर् भ्रमदभ्रमधुव्रतम् ।
प्रस्फुरत्तारकाजालं केसरापूरतां गतम् ॥
कल्पान्तघननीहारो मेरुकुञ्जेषु संस्थितः ।
शल्मलेर् अमलं तूलम् अष्ठीलाकोटरेष्व् इव ॥
लोकालोकाद्रिरशनां रणदर्णवघुर्घुराम् ।
तमःखण्डेन्द्रनीलाढ्यां निजरत्नविराजिताम् ॥
दधाना वसुधा भूतरवकाकलिघुङ्घुमाम् ।
संस्थिता भुवनाभोगे स्वान्तःपुर इवाङ्गना ॥
गौराहःपङ्क्तिमध्यस्थरजनीराजिराजिताः ।
पद्मोत्पलस्रज इव लक्ष्यन्ते वत्सरश्रियः ॥
बहुगर्भविभागस्थभूतलोकाः पृथक् पृथक् ।
तेजोऽरुणा विलोक्यन्ते दाडिमानीव षण्डके ॥
त्रिप्रवाहा त्रिपथगा कृत्वोर्ध्वाधोगमागमा ।
जगद्यज्ञोपवीताभा स्फुरन्तीन्दुकलामला ॥
इतश् चेतश् च गच्छन्ति शीर्यन्ते प्रोद्भवन्ति च ।
दिग्लतासु तडित्पुष्पा वातान्ते मेघपल्लवाः ॥
गन्धर्वनगरोद्यानविमानावलिमालिता ।
समुद्रभूमिनभसां पदवी प्रविराजते ॥
लोकान्तरेषु सङ्घेन देवासुरनरोरगाः ।
उदुम्बरेषु मषका इव घुङ्घुमितास् स्थिताः ॥
युगकल्पक्षणलवकलाकाष्टाकलङ्कितः ।
कालो वहत्य् अकलितस् सर्वनाशप्रतीक्षकः ॥
एवम् आलोक्य शुद्धेन परेण स्वेन तेजसा ।
भृशं विस्मयम् आपन्नः किम् एतत् कथम् इत्य् अहम् ॥
कथं मांसमयेनाक्ष्णा यन् न पश्यामि किञ्चन ।
तन् मायाजालम् अतुलं पश्यामि मनसाम्बरे ॥
अथालोक्य चिरं कालं मनसैवाहम् अम्बरात् ।
अर्कं तस्माज् जगज्जालाद् एकम् आनीय पृष्टवान् ॥
आगच्छ देवदेवेश भो भास्कर महाद्युते ।
स्वागतं ते ऽस्त्व् इति प्रोक्तं मयासौ कथितो ऽप्य् अथ ॥
कस् त्वं कथम् इदं जातं जगद् एकं जगन्ति वा ।
यदि जानासि भगवंस् तद् एतत् कथयानघ ॥
इत्य् उक्तो माम् असाव् अर्कस् सम्परिज्ञातवान् अथ ।
नमस्कृत्याभ्युवाचेदम् अनिन्द्यपदया गिरा ॥
अस्य दृश्यपिशाचस्य नित्यं कारणताम् अपि ।
गतः कस्मान् न जानीषे किं माम् ईश्वर पृच्छसि ॥
अथ मद्वाक्यसन्दर्भे लीला चेत् तव सर्वग ।
अचिन्तितात् समुत्पन्नं तच् छृणु त्वं वदाम्य् अहम् ॥
सद् असद् इति कलाभिर् आततं सद् भ्रमभरभेदविमोहदायिनीभिः ।
प्रविततरचनाभिर् ईश्वरात्म प्रविलसतीह मनो महन् महात्मन् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0