भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.84

3.84.1

एतत् ते कथितं सर्वम् उपाख्यानम् अनिन्दितम् ।
कर्कट्या वनराक्षस्या यथावद् अनुपूर्वशः ॥

3.84.2

हिमवद्गह्वरप्रोक्ता सा कथं कृष्णराक्षसी ।
कथं च कर्कटी नाम्ना यथावद् वद मे प्रभो ॥

3.84.3

कुलानि सन्त्य् अनेकानि राक्षसानां स्वभावतः ।
तानि कृष्णानि शुक्लानि हरितान्य् उज्ज्वलानि च ॥

3.84.4

कर्कटप्राणिसदृशः कर्कटो नाम राक्षसः ।
बभूव तज्जा सा कृष्णा कर्कटी कर्कटाकृतिः ॥

3.84.5

कर्कटीप्रश्नसंस्मृत्या मयैषा कथिता तव ।
अध्यात्मोक्तिप्रसङ्गेन चित्स्वरूपनिरूपणे ॥

3.84.6

सम्पन्नम् एवम् एकस्माद् असम्पन्नम् अपि स्फुटम् ।
इदं जगद् अनाद्यन्तात् पदात् परमकारणात् ॥

3.84.7

भाविन्यो वीचयो वारिण्य् अन्यानन्यास् स्थिता यथा ।
वर्तमाना अपि परे सृष्टयस् संस्थितास् तथा ॥

3.84.8

अज्वलन्न् एव काष्ठेषु वह्निर् अर्थक्रियां यथा ।
करोति मर्कटादीनां शीतापहरणादिकाम् ॥

3.84.9

समं सौम्यत्वम् अजहद् एव नित्योदितस्थिति ।
तथा ब्रह्म करोतीदं नानाकर्तेव सज् जगत् ॥

3.84.10

अप्य् अनागत एवायम् एवं सर्ग उपागतः ।
भोस् सालभञ्जिकासंविद् दारुणीव सुबोधिता ॥

3.84.11

बीजाद् यथानन्यद् अपि फलाद्य् अन्यद् इवोत्थितम् ।
चितेस् तथानन्यद् अपि चेत्यम् अन्यद् इवोत्थितम् ॥

3.84.12

अच्छेदाद् एकसत्ताया न भेदः फलबीजयोः ।
चिच्चेत्ययोश् च वार्यूर्म्योर् इव वस्तुनि कश्चन ॥

3.84.13

अविचाराद् ऋते भेदो नैतयोर् उपपद्यते ।
यतः कुतश्चिद् उदितस् स विचारेण नश्यति ॥

3.84.14

भ्रान्तिर् एषा यथायाता तथा यातु रघूद्वह ।
ज्ञास्यस्य् एतत् प्रबुद्धस् त्वम् एनां केवलम् उत्सृज ॥

3.84.15

भ्रान्तिग्रन्थौ वित्रुटिते मदुक्तिश्रवणात् तव ।
ज्ञानशब्दार्थभेदानां वस्तु ज्ञास्यस्य् अलं स्वयम् ॥

3.84.16

चित्ताद् इयम् अनर्थश्रीस् तच् च सा चेतरश् च ते ।
मदुक्तिश्रवणाद् एव शान्तिम् एष्यन्त्य् असंशयम् ॥

3.84.17

ब्रह्मणस् सर्वम् उत्पन्नं सर्वं ब्रह्मैव चेति च ।
मद्गीर्भिस् सम्प्रबुद्धस् सञ् ज्ञास्यस्य् अलम् अनिन्दित ॥

3.84.18

तस्माद् इदम् इति ब्रह्मन् व्यतिरेकार्थपञ्चमी ।
ननु किं वक्षि देवेशाद् अभिन्नं सर्वम् इत्य् अपि ॥

3.84.19

उपदेशाय शास्त्रेषु जातश् शब्दो ऽथवार्थजः ।
प्रतियोगिव्यवच्छेदस् सङ्ख्यालक्षणपक्षवान् ॥

3.84.20

भेदो दृश्यत एवायं व्यवहारान् न वास्तवः ।
वेतालो बालकस्येव कार्यार्थं परिकल्पितः ॥

3.84.21

द्वैतैक्यम् अपि नो यस्यां यथाभूतार्थसंस्थितौ ।
अस्ति तस्याम् ईदृशस् स्यात् कुतस् सङ्कल्पविप्लवः ॥

3.84.22

कार्यकारणभावो हि यथा स्वस्वामिलक्षणः ।
हेतुश् च हेतुमांश् चैव तथैवावयवक्रमः ॥

3.84.23

व्यतिरेकाव्यतिरेकपरिणामादिविभ्रमः ।
तथा भावविकाराश् च विद्याविद्ये सुखासुखे ॥

3.84.24

एवमादिमयी मिथ्यासङ्कल्पकलनोम्भिता ।
अज्ञानाम् अवबोधार्थं न तु भेदो ऽस्ति वस्तुनि ॥

3.84.25

असम्बोधाद् अयं भेदो ज्ञाते द्वैतं न विद्यते ।
ज्ञाते संशान्तकलनं मौनम् एवावशिष्यते ॥

3.84.26

परम् एकम् अनाद्यन्तम् अविभागम् अखण्डितम् ।
इति ज्ञास्यसि सिद्धान्तकाले बोधम् उपागतः ॥

3.84.27

विकल्पन्ते ह्य् असम्बुद्धास् स्वविकल्पविजृम्भितैः ।
उपदेशाद् अयं वादो ज्ञाते द्वैतं न विद्यते ॥

3.84.28

वाच्यवाचकसम्बन्धो विना द्वैतं न सिध्यति ।
न च द्वैतं सम्भवति मौनं वा वाच इत्य् अलम् ॥

3.84.29

महावाक्यार्थनिष्ठां त्वं बुद्धिं कृत्वा रघूद्वह ।
वचोभेदम् अनादृत्य यद् इदं वच्मि तच् छृणु ॥

3.84.30

जातं कुतश्चिद् उत्थाय गन्धर्वपुरवन् मनः ।
भ्रान्तिमात्रं तनोतीदं जगदाख्यं स्वजृम्भणम् ॥

3.84.31

यथा चेतस् तनोतीमां जगन्मायां तथानघ ।
शृणु त्वं कथयामीदं दृष्टान्तं सृष्टिवेदने ॥

3.84.32

यं श्रुत्वा सर्वम् एवेदं भ्रान्तिमात्रम् इति स्वयम् ।
राम निश्चयवान् भूत्वा दूरे त्यक्ष्यसि वासनाम् ॥

3.84.33

मनोमनननिर्माणमात्रम् एव जगत्त्रयम् ।
सर्वम् उत्सृज्य शान्तात्मा स्वात्मन्य् एव निवत्स्यसि ॥

3.84.34

मद्वाक्यार्थावधानस्थो मनोव्याधिचिकित्सने ।
विवेकौषधिलेपेन प्रयत्नं च करिष्यसि ॥

3.84.35

एवं स्थिते जगद्रूपं चित्तम् एवेह जृम्भते ।
न विद्यते शरीरादि सिकतान्तरतैलवत् ॥

3.84.36

चित्तम् एव हि संसारो रागादिक्लेशदूषितम् ।
तद् एव तैर् विनिर्मुक्तं भवान्त इति कथ्यते ॥

3.84.37

चित्तं साध्यं पालनीयं विचार्यं कार्यम् आर्यवत् ।
आहार्यं व्यवहार्यं च सञ्चार्यं धार्यम् आदरात् ॥

3.84.38

एवम् अभ्यन्तरे चित्रं बिभर्ति त्रिजगन् मनः ।
अण्डं मायूरम् इव तद् यथाकालं विजृम्भते ॥

3.84.39

यो ऽयं चित्तस्य चिद्भागस् सैषा सर्वार्थबीजता ।
यश् चास्य जडभागस् स्वस् तज् जगत् सो ऽङ्ग विभ्रमः ॥

3.84.40

अविद्यमानम् एवेदम् आदिसर्गे धरादिकम् ।
निराकृतिर् अजस् स्वप्नं पश्यतीव न पश्यति ॥

3.84.41

सर्गादि दीर्घसंवित्त्या शैलादि जडसंविदा ।
सूक्ष्मं सूक्ष्मविदा वेत्ति देहं शून्यं न वास्तवम् ॥

3.84.42

सर्वगेनात्मना व्याप्तं स्वचेत्यात्मवपुर् मनः ।
आतलं सोम्यविमलं वारीव रवितेजसा ॥

3.84.43

चित्तबालो जगद्यक्षं मिथ्या पश्यत्य् अबोधतः ।
बोधतो ऽसौ परं रूपं स्वं पश्यति निरामयम् ॥

3.84.44

यथात्मा दृश्यताम् एति द्वैतैक्यभ्रमदायिनीम् ।
शृणु तत् ते प्रवक्ष्यामि वक्ष्यमाणकथाक्रमैः ॥

3.84.45

यत् कथ्यते हि हृदयङ्गमयोपमानयुक्त्या गिरा मधुरमुग्धपदार्थया च ।
श्रोतुस् तद् अङ्ग हृदयं परितो विसारि व्याप्नोति तैलम् इव वारिणि वार्य् अशङ्कम् ॥

3.84.46

त्यक्तोपमानम् अमनोज्ञपदं दुरर्थं क्षुब्धं त्वराविधुरितं विनिगीर्णवर्णम् ।
श्रोतुर् न याति हृदयं प्रविनाशम् एव संयाति चाज्यम् इव भस्मनि हूयमानम् ॥

3.84.47

आख्यानकानि भुवि यानि कथाश् च या या यद् यत् प्रमेयम् उदितं परिपेशलं वा ।
दृष्टान्तदृष्टिकथनेन तद् एति साधो प्राकाश्यम् आशु भुवनं सितरश्मिनेव ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc