मोक्षोपाय · अध्याय 3.86
कल्पनाम्नि महादेव ह्यस्तने दिवसे तव ।
तले कैलासशैलस्य जम्बुद्वीपैककोणके ॥
सुवर्णजटनाम्ना यत् त्वत्पुत्रैर् जनितप्रजैः ।
मण्डलं कल्पितं श्रीमद् अनल्पसुखसुन्दरम् ॥
तत्राभूद् अतिधर्मात्मा ब्राह्मणो ब्रह्मवित्तमः ।
इन्दुर् नामातिशान्तात्मा कश्यपस्य कुलोद्भवः ॥
तस्मिंस् तदा निवसतो नित्यं स्वजनमण्डले ।
न बभूवात्मजस् तस्य मरुभूमेस् तृणं यथा ॥
न व्यराजत सा भार्या तस्य निष्फलपुष्पिता ।
ऋज्वी गौरी सुशुद्धापि शून्या शरलता यथा ॥
तौ ततो दम्पती खिन्नौ पुत्रार्थं तपसे गिरेः ।
कैलासस्यांसम् आरूढौ रूढाव् इव वनद्रुमौ ॥
भूतैर् अनावृते शून्ये तस्मिन् कैलासकुञ्जके ।
तेपाते तौ तपो घोरं जलाहारौ तरुस्थितौ ॥
एकं पानीयचुलकं पीत्वा दिवसपर्यये ।
निस्पन्दम् उत्थितौ वार्क्षीं वृत्तिम् आश्रित्य संस्थितौ ॥
तस्थतुस् तौ तदा तत्र तावद् वनतरुव्रतौ ।
यावत् त्रेता द्वापरश् च युगे द्वे एव ते गते ॥
ततस् तुष्टो ऽभवद् देवस् तयोश् शशिकलाधरः ।
दिनतापोत्तापितयोर् इन्दुः कुमुदयोर् इव ॥
आजगाम तम् उद्देशं यत्र तौ विप्रदम्पती ।
सलतापादपं देशं पुष्पाकर इवेश्वरः ॥
दम्पती तौ वृषारूढं सोमं सोमार्धशेखरम् ।
फुल्लाननं ददृशतुः कुमुदे शशिनं यथा ॥
तौ तं प्रणेमतुर् देवं तुषारामलम् ईश्वरम् ।
द्यावापृथिव्याव् उदितं परिपूर्णम् इवोडुपम् ॥
तर्जयन् पवनाधूतनववेणुवनस्वनम् ।
मृदूद्दामं स्मितस्यन्दि प्रोवाचाथ वचश् शिवः ॥
वरं विप्र गृहाणाशु तुष्टो ऽस्मि तव वाञ्छितम् ।
मधुमासरसाक्रान्तवृक्षवन् मुदितो भव ॥
भगवन् देवदेवेश दश पुत्रा महाधियः ।
भव्या भवन्तु मे भूयश् शोको येन न बाधते ॥
अथैवम् अस्त्व् इति प्रोच्य जगामान्तर्धिम् ईश्वरः ।
व्योम्नि वारिनिधौ ह्रादं कृत्वेवोर्मिर् महावपुः ॥
ततस् तौ दम्पती तुष्टौ शिवात् प्राप्य वरं गृहम् ।
गतौ गीर्वाणसदृशौ खम् इवोमामहेश्वरौ ॥
तत्र सा ब्राह्मणी गेहे बभूवोदारगर्भिणी ।
बभौ पूर्णोदरी श्यामा मेघलेखेव वारिणा ॥
कालेन सुषुवे पुत्रान् प्रतिपच्चन्द्रकोमलान् ।
दश बालान् मधौ मुग्धा वसुधेव नवाङ्कुरान् ॥
ते कृतब्रह्मसंस्कारा वृद्धिम् ईयुर् महौजसः ।
स्वल्पेनैव हि कालेन प्रावृषीव नवाम्बुदाः ॥
ते सप्तवर्षवयसो बभूवुर् ज्ञातवाङ्मयाः ।
विरेजुस् तेजसा तत्र नभसीवामला ग्रहाः ॥
अथ कलेन महता तेषां तौ पितरौ तदा ।
सञ्जग्मतुस् तनुं त्यक्त्वा स्वां गतिं गतिकोविदौ ॥
मातापितृभ्यां रहिता दश ते ब्राह्मणास् ततः ।
ययुः कैलासशिखरं गृहं सन्त्यज्य दूरतः ॥
तत्र सञ्चिन्तयाम् आसुर् उद्विग्नास् ते विबान्धवाः ।
किं स्यात् परम् इह श्रेय ऊचुश् चेदं परस्परम् ॥
किम् इह स्यात् समुचितं भ्रातरः किम् अदुःखदम् ।
किं महत्त्वं महैश्वर्यं किं महाविभवं शुभम् ॥
कियद् एतद् अनैश्वर्यं सामन्ता हि चिरेश्वराः ।
सामन्तसम्पत् किं नाम राजानो हि महेश्वराः ॥
किं नाम सम्पद् भूपानां सम्राड् इह महेश्वरः ।
किं नाम सम्पत् साम्राज्यम् इन्द्रो हीह महेश्वरः ॥
किं नाम वस्त्व् अथेन्द्रत्वं यन् मुहूर्तं प्रजापतेः ।
विनश्यति न यत् कल्पे किं स्यात् तद् इह शोभनम् ॥
वदमानेष्व् अथैतेषु ज्येष्ठो भ्राता महामतिः ।
गम्भीरवाग् उवाचेदं मृगयूथान् मृगो यथा ॥
ऐश्वर्याणां हि सर्वेषाम् अकल्पान्तविनाशि यत् ।
रोचते भ्रातरस् तन् मे ब्रह्मत्वम् इह नेतरत् ॥
एतत् तदुक्तम् अखिला द्विजपुत्रास् तदोत्तमाः ।
वचोभिर् ऐन्दवास् तत्र साधु साध्व् इत्य् अपूजयन् ॥
ऊचुश् चेदं कथं तात सर्वदुःखापमर्जनम् ।
पद्मासनं जगत्पूज्यं विरिञ्चत्वम् अवाप्नुमः ॥
भ्रात्रा तेन पुनः प्रोक्ता भ्रातरो भूरितेजसः ।
मदुक्तं सर्व एवैते भवन्तः पालयन्त्व् अलम् ॥
पद्मासनगतो भास्वान् ब्रह्माहम् इति चेतसा ।
सृजामि संहरामीति ध्यानम् अस्तु चिराय वः ॥
अग्रजेनेति कथिते बाढं कृत्वा त उत्तमाः ।
ध्यानाधीनधियस् तस्थुस् सहैव ज्यायसा रसात् ॥
लिपिकर्मकृताकारा ध्यानासक्ता दशैव ते ।
अन्तस्स्थेनैव मनसा चिन्तयाम् आसुर् आदृताः ॥
अयम् उत्फुल्लकमलकोशचक्रोन्नतासनः ।
ब्रह्माहं जगतस् स्रष्टा कर्ता भोक्ता महेश्वरः ॥
यज्ञक्रियाक्रमयुतास् साङ्गोपाङ्गमहर्द्धयः ।
सरस्वत्या सगायत्र्या युक्ता वेदवरा इमे ॥
लोकपालपुराक्रान्तसञ्चरत्सिद्धमण्डलः ।
अयम् उद्दामसौभाग्यस् स्वर्गस् सुरविभूषितः ॥
पर्वतद्वीपजलधिकाननैस् समलङ्कृतम् ।
इदं भूमण्डलं नीलं त्रिलोकीकर्णकुण्डलम् ॥
एतत् पातालकुहरं दैत्यदानवभोगिनाम् ।
अमृतस्त्रीगणाकीर्णं गृहं गहनकोटरम् ॥
अयम् इन्द्रो महाबाहुर् वज्रालङ्कृतदोर्द्रुमः ।
त्रैलोक्यनगरीम् एकः पाति पावनयज्ञभुक् ॥
दीप्तिजालवरत्राभिर् अवष्टभ्येव दिग्गणम् ।
क्रमेण प्रतपन्त्य् एते भानवो भूरिभानवः ॥
लोकपाला इमे लोकं रक्षन्त्य् अक्षुब्धवृत्तयः ।
मर्यादाभिर् अतुच्छाभिर् गोपाला गोगणं यथा ॥
उन्मज्जन्ति निमज्जन्ति प्रस्फुरन्ति पतन्ति च ।
तरङ्गा इव तोयानाम् इमाः प्रतिदिशं प्रजाः ॥
सृजामीमम् अहं सर्गं संहरामि तथादृतः ।
अयम् आत्मनि तिष्ठामि शाम्यामि भुवनेश्वरः ॥
अयं संवत्सरो यात इदं परिणतं युगम् ।
सृष्टिर् इयम् असौ कालस् त्व् अयं संहरणस्य च ॥
अयम् अद्य गतः कल्पो ब्राह्मी रात्रिर् इयं ततः ।
अयम् आत्मनि तिष्ठामि पूर्णात्मा परमेश्वरः ॥
इति भावितया बुद्ध्या ते द्विजा ऐन्दवा दश ।
अबहिर्वृत्तयस् तस्थुस् समुत्कीर्णा इवोपलात् ॥
अधिगतकमलासनक्रमास् ते परिगलितेतरतुच्छवृत्तिजालाः ।
सततगजवजर्जरासनस्थाश् चिरम् इति पद्मजकल्पने विरेजुः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0