भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.83

3.83.1

किरातमण्डले तस्मिन् ये ये सन्ति महीभृतः ।
तैस् तैस् सह परा मैत्री तस्यास् समभिजायते ॥

3.83.2

सर्वांस् तत्र महोत्पातान् पिशाचादिभयान्य् अपि ।
रोगांश् च योगसिद्धा सा निवारयति राक्षसी ॥

3.83.3

बहुवर्षगणैर् नैषा ध्यानाद् विरतिम् आगता ।
तत्रागत्य समश्नाति वध्याञ् जन्तून् सुसञ्चितान् ॥

3.83.4

अद्यापि तत्र ये वध्यास् ते तदर्थं महीभुजा ।
दीयन्ते मित्रसम्माने के हि नाध्यवसायिनः ॥

3.83.5

तस्यां ध्याननिषण्णायां किरातजनमण्डले ।
अनायान्त्यां चिरं कालं जनदोषप्रशान्तये ॥

3.83.6

सा देवी कन्दरानाम्नी मङ्गलेतरनामिका ।
सम्प्रस्थापिता प्रोच्चैः पुरे गहनकोटरे ॥

3.83.7

ततः प्रभृति तत्रान्यो यो यो भवति भूमिपः ।
स कन्दरां भगवतीं प्रतिष्ठापयति स्वयम् ॥

3.83.8

यः कन्दरां प्रतिष्ठां वा न करोति नृपो ऽधमः ।
तस्योपतापनिचयाः प्रजा निघ्नन्ति यत्नतः ॥

3.83.9

तत्पूजनाद् अवाप्नोति जनस् तत्रेप्सितं फलम् ।
स्वभावनावशोच्छूनम् अनर्थायाप्रपूजनम् ॥

3.83.10

वध्यलोकोपचारेण सा देवी परिपूज्यते ।
प्रतिमायां स्थिताद्यापि चित्तस्थफलदायिनी ॥

3.83.11

सकललोकसमङ्गलकारिणी कवलिताखिलवध्यमहाजना ।
जयति सात्र किरातजनास्पदा परमबोधवती चिरदेवता ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc