मोक्षोपाय · अध्याय 3.81
अहो नु परमार्थोक्तिः पावनी तव मन्त्रिणः ।
राजा राजीवपत्त्राक्ष इदानीम् एष भाषताम् ॥
एषो ऽणुवेदनाद् वायुर् वायुश् च भ्रान्तिदृष्टितः ।
ततो न किञ्चिद् वाय्वादि केवलं शुद्धचेतनम् ॥
शब्दसंवेदनाच् छब्दश् शब्दश् च भ्रान्तिदर्शनम् ।
ततो ऽत्र शब्दशब्दार्थदृष्टिर् दूरतरं गता ॥
सो ऽणुस् सर्वं नकिञ्चिच् च सो ऽहं नाहं स एव च ।
सर्वशक्त्यात्मनो ऽस्यैव प्रतिभैवात्र कारणम् ॥
आत्मा यत्नशतैः प्राप्यो लब्धे ऽस्मिन् न च किञ्चन ।
लब्धं भवति तच् चैतत् परमं नाम किञ्चन ॥
तावज् जन्मवसन्तेषु संसृतिव्रततिश् चिरम् ।
विकसत्य् उदितो यावन् न बोधो मूलकाषकृत् ॥
अणुनानेन रूपं स्वं दृश्यताम् इव गच्छता ।
तापेनाम्बु धियैवेव स्वस्थेनैवापहारितम् ॥
अनेन संविदं नाना मेरुस् त्रिभुवनं तृणम् ।
वमित्वा बहिर् अन्तस्स्थं मायात्मकम् अवेक्ष्यते ॥
चिदणोर् अन्तरे यद् यद् अस्ति तद् दृश्यते बहिः ।
सङ्कल्पेष्टालिङ्गनादि दृष्टान्तो ऽत्र हि रागिणः ॥
आदिसर्गे सर्वशक्तिश् चिद् यथा चोदितात्मना ।
तथाशु पश्यत्य् अखिलं सङ्कल्पमतिवत् स्वतः ॥
अभिजाताशयस्यान्तर् यद् यथा प्रतिभासते ।
तत् तथा पश्यतीवासौ दृष्टान्तो ऽत्र शिशोर् मनः ॥
परमाणुत एवापि चिन्मात्रेणामुनाणुना ।
परिसूक्ष्मतमेनैव विश्वग् विश्वं प्रपूरितम् ॥
अणुर् एव न मात्य् एष योजनानां शतेष्व् अपि ।
सर्वगत्वाद् अनाद्यन्तरूपत्वाद् वेदनाकृतिः ॥
यथा धूर्तेन शिड्गेन पुंसा बालः प्रनाट्यते ।
सभ्रूविकारनयननिरीक्षणविचेष्टितैः ॥
चिदालोकेन शुद्धेन सपर्वततृणं जगत् ।
नाट्यते ऽविरतं तद्वद् विवृत्याभिनयं सदा ॥
तेनैवानन्तरूपत्वाद् अणुना वाससा यथा ।
संविदन्तर् भवेद् बाह्ये कृत्वा मेर्वादि वेष्टितम् ॥
दिक्कालाद्यनवच्छिन्नरूपत्वान् मेरुतो बृहत् ।
वालाग्रशतभागात्माप्य् एष सूक्ष्मः परो ऽणुकः ॥
शुद्धसंवेदनाकाशरूपस्य परमाणुना ।
शोभते न हि साम्योक्तिर् मेरुसर्षपयोर् इव ॥
मायाकलापराणुत्वं निर्माया परमात्मता ।
हेम्नीव कटकत्वेन नातो ऽत्र समता भवेत् ॥
प्रकटो ऽनेन दीपेन प्रकाशो ऽनुभवात्मना ।
स्वसत्तानाशपूर्वो हि विनानेन भवेत् तु सः ॥
यदि सूर्यादिकं सर्वं जगद् एकजडं भवेत् ।
ततः किम् आत्मा किं रूपं प्रकाशस् स्यात् क्व वाथ किम् ॥
शुद्धचिन्मात्रसत्त्वं यत् स्वतस् स्वात्मनि संस्थितम् ।
तद् एतद् अणुना तेजो दृष्टं बहिर् इव स्थितम् ॥
तेजांस्य् अर्केन्दुवह्नीनाम् अभिन्नानि तमोघनात् ।
एतावान् अत्र भेदो ऽस्ति यद् वर्णे शौक्ल्यकृष्णते ॥
यादृक् कज्जलनीहारमेघनीहारयोर् भवेत् ।
तादृक् प्रकाशतमसोर् भेदश् चेति तयोस् स्थितः ॥
जडयोर् उपलम्भाय चिदादित्यः किलैतयोः ।
यदा तपति तेनैते लब्धसत्तैकतां गते ॥
तपत्य् एकश् चिदादित्यो रात्रिन्दिवम् अतन्द्रितः ।
अन्तर् बहिश् शिलाद्यन्तर् अप्य् अनस्तमयोदयः ॥
त्रिलोकी भाति तेनेयं जीवस्य प्रथितात्मनः ।
नानोपलम्भभाण्डाढ्या कुटी कठिनकोटरा ॥
तमस्त्वं तमसो देहम् अविनाशयतामुना ।
तप्यते भासया भासा सर्वम् आभास्यते तमः ॥
पद्मोत्पलौ यथार्केण तपता प्रकटीकृतौ ।
प्रकाशतमसोस् सत्ते चितैवं प्रकटीकृते ॥
अर्कः कुर्वन्न् अहोरात्रं दर्शयत्य् आकृतिं यथा ।
चितिस् सदसती कृत्वा दर्शयत्य् आकृतिं तथा ॥
चिदणोर् अन्तरे सन्ति विचित्रानुभवाणवः ।
यथा मधुरसस्यान्तः पत्त्रपुष्पफलश्रियः ॥
उद्यन्ति चिदणोर् एते समग्रानुभवाणवः ।
मधुमासरसाच् चित्रा इव षण्डपरम्पराः ॥
परमात्माणुर् अत्यन्तं निस्स्वादस् सूक्ष्मतावशात् ।
समग्रस्वादसत्तैकजनकस् स्वदते स्वयम् ॥
यो यो नाम रसः कश्चित् स्वसत्तायां कृतस्थितिः ।
प्रतिबिम्बम् इवादर्शे तां विना नास्त्य् असौ स्वतः ॥
त्यजता संश्रितं सर्वं चिन्मात्रपरमाणुना ।
त्यक्तं जगद् असंवित्त्या संवित्त्या सर्वम् आश्रितम् ॥
अशक्तयाप्य् आत्मगुप्तौ सर्वम् आच्छादितं जगत् ।
चिताणुताम् एव परां सम्प्रसार्य वितानवत् ॥
आत्मगुप्तिं न शक्नोति परमात्माम्बराकृतिः ।
मनाग् अपि क्षणम् अपि गजो दूर्वावने यथा ॥
तथाप्य् आक्रान्तवान् विश्वं ज्ञतां गोपयति क्षणात् ।
जगद्धानां कणं बाल इवाहो घनमायिता ॥
चिन्मात्राणुनयेनेदं जगत् समभिजीवति ।
वसन्तरसवेधेन विचित्रेव वनावली ॥
चित्सत्तैवेयम् अखिलं स्वतो जगद् इवोदिता ।
मधुमासरसोल्लासी चित्रो हि वनषण्डकः ॥
सत्यं चिन्मयम् एवेदं जगद् इत्य् एव विद्ध्य् अलम् ।
वसन्तरसम् एवेदं विद्धि पल्लवगुल्मकम् ॥
सर्वावयविसारत्वात् सहस्रकरलोचनः ।
परंआणुर् असाव् एव नित्यानवयवोदयः ॥
निमेषांशावबोधे ऽपि चिदणोः प्रतिभासते ।
यतः कल्पसहस्रौघस् स्वप्नवार्द्धकबाल्यवत् ॥
ततस् सो ऽप्य् निमेषाणुः कल्पकोटिशतान्य् अलम् ।
सर्वसत्ताविलासेन प्रतिभैका हि जृम्भते ॥
अभुक्तवत्य् एव यथा भुक्तवान् अहम् इत्य् अलम् ।
जायते प्रत्ययस् तद्वन् निमेषे कल्पनिश्चयः ॥
अभुक्त्वा भुक्तवान् अस्मीत्य् एवं प्रत्ययशालिनः ।
दृश्यन्ते वासनाविष्टास् स्वप्ने स्वमरणम् यथा ॥
जगन्ति परितिष्ठन्ति परमाणौ चिदात्मनि ।
प्रतिभासाः प्रवर्तन्ते तत एव हि जागताः ॥
यद् अस्ति यत्र तत् तस्मात् समुदेति तद् एव तत् ।
आकारिणि विकारादि दृष्टं न गगने ऽमले ॥
चिति भूतानि भूतानि वर्तमानानि सम्प्रति ।
भविष्यन्ति भविष्यन्ति शक्तिबीजे द्रुमा इव ॥
निमेषकल्पाव् एतेन तुषेणान्नकणाव् इव ।
वलितौ नैष चैताभ्याम् अणुस् स्वाङ्गात्मकश् चितः ॥
उदासीनवद् आसीनो न संस्पृष्टो मनाग् अपि ।
एष भोक्तृत्वकर्तृत्वैः खात्मा कुर्वञ् जगन्त्य् अपि ॥
जगत्सत्तोदितेयं हि शुद्धचित्परमाणुतः ।
परामणोश् च भोक्तृत्वकर्तृत्वे क्वेव संस्थिते ॥
जगन् न किञ्चित् क्रियते सर्वदैव न केनचित् ।
विलीयते च नो किञ्चिन् मात्रस्याद्य् अस्य खण्डनम् ॥
सर्वं समरसाभासम् इदम् आकाशकोशगम् ।
जगत्पर्यायशब्दाख्यं विद्ध्य् अनाख्यं च राक्षसि ॥
चिदणुर् दृश्यसिद्ध्यर्थम् आन्तरीं चिच्चमत्कृतिम् ।
बहीरूपतया धत्ते स्वात्मनात्मनि संस्थिताम् ॥
एतद् बहिस्स्थम् अन्तस्स्थम् अस्ति शब्दे न वस्तुनि ।
उपदेशाय सत्त्वानां चिद्रूपत्वाज् जगत्त्रये ॥
द्रष्टा दृश्यपदं गच्छन्न् आत्मानं सम्प्रपश्यति ।
नेत्रं दृश्याभिपातीव सद् एवासद् इव स्थितम् ॥
न च गच्छति दृश्यत्वं द्रष्टा ह्य् असद् अवास्तवम् ।
आत्मन्य् एव न यत् किञ्चित् तत्ताम् एति कथं पुरः ॥
दृग् एव लोचने सा च वासना तन् निजं वपुः ।
बहुरूपतया दृश्यं कृत्वा द्रष्टृतयोदिता ॥
न विना द्रष्टृताम् अस्ति दृश्यसत्ता कथञ्चन ।
पितृतेव विना पुत्रं द्वितेवैक्यपदं विना ॥
द्रष्टैव दृश्यताम् एति न द्रष्टृत्वं विनास्ति तत् ।
विना पित्रेव तनयो विना भोक्त्रेव भोग्यता ॥
द्रष्टुर् हि दृश्यनिर्माणे चित्त्वाद् अस्त्य् एव शक्तता ।
कनकस्यावदातस्य कटकत्वकृताव् इव ॥
दृश्यस्य द्रष्टृनिर्माणे जडत्वान् नास्ति शक्तता ।
कटकत्वस्य मोहस्य यथा कनकनिर्मितौ ॥
चेतनाद् दृश्यनिर्माणं चित् कचत्य् असद् एव यत् ।
अकारणं मोहहेतुर् हेमैव कटकभ्रमः ॥
कटकत्वावभासे हि यथा हेम्नो न हेमता ।
सत्यैव प्रकचत्य् एवं द्रष्टुर् दृश्यस्थितौ वपुः ॥
द्रष्टा दृश्यतया तिष्ठन् द्रष्टृताम् उज्झतीव हि ।
सत्यां कटकसंवित्तौ हेम काञ्चनताम् इव ॥
एकस्मिन् प्रतिभासे ऽस्ति न सत्ता द्रष्टृदृश्ययोः ।
पुम्प्रत्ययप्रकचने क्व पशुप्रत्ययोदयः ॥
दृश्यं पश्यन् स्वम् आत्मानं न द्रष्टा स्वं प्रपश्यति ।
द्रष्टुर् हि दृश्यतापत्तौ सत्तासत्तेव तिष्ठति ॥
बोधाद् गलितदृश्यस्य द्रष्टुस् सत्तैव भासते ।
अबुद्धकटकत्वस्य हेम्नः कनकता यथा ॥
दृश्ये ऽसत्य् अस्ति न द्रष्टा दृश्यं द्रष्टरि नासति ।
द्वयेन च विना नैक्यं नैक्यम् अप्य् अस्ति चानयोः ॥
सर्वं यथावद् विज्ञाय शुद्धसंविन्मयात्मनः ।
वाचाम् अविषयस् स्वास्थ्यं किञ्चिद् एवावशिष्यते ॥
आत्माथ दर्शनं दृश्यं दीपेनेवावभासितम् ।
कृतं च सर्वम् एतेन चिन्मात्रपरमाणुना ॥
मातृमेयप्रमाणाख्यं बुद्धौ निगिरति त्रयम् ।
हेमेव कटकादित्वम् असन्मयम् उपस्थितम् ॥
यथा न जलम् ऊर्म्यादेः पृथक् किञ्चिन् मनाग् अपि ।
तथैतस्मात् स्वभावाणोर् न किञ्चित् पृथग् एव हि ॥
सर्वगानुभवात्मत्वात् सर्वानुभवरूपतः ।
एकत्वानुभवे न्याय्ये रूढे सर्वैकतास्य हि ॥
अस्येच्छया पृथक्तास्ति वीचितेव महाम्भसः ।
इच्छानुरूपसम्पत्तेर् भावितार्थैकलाभिनः ॥
दिक्कालाद्यनवच्छिन्नः परमात्मास्ति केवलः ।
सर्वात्मत्वात् स सर्वात्मा सर्वानुभवतस् स्वतः ॥
सन्न् एष चेतनात्मत्वाद् असन्न् अनवबोधतः ।
द्वैतैक्ये नात्र विद्येते सत्यरूपे महात्मनि ॥
यदि कश्चिद् द्वितीयस् स्यात् तद् एकस्यैकता भवेत् ।
द्वित्वैक्ययोर् मिथस् सिद्धिर् आतपच्छाययोर् इव ॥
यत्र नास्ति द्वितीयो हि तत्रैकस्यैकता कथम् ।
एकतायाम् असिद्धायां द्वयम् एव न विद्यते ॥
एवं स्थिते तु यच् छिष्टं तत् स्याद् रिक्तम् इहास्थितेः ।
तस्मान् न व्यतिरिक्तं तद्रूपं द्रव इवाम्भसः ॥
नानारम्भविशालं च साम्येनाक्षुब्धरूपि च ।
बीजस्यान्तस् तरुर् इव ब्रह्मणो ऽन्तस् स्थितं जगत् ॥
द्वैतम् अप्य् अपृथक् तस्माद् धेम्नः कटकता यथा ।
साम्यबुद्धावबोधे हि द्वैतं सच् च नसन्मयम् ॥
यथा द्रवत्वं पयसस् स्पन्दनं मातरिश्वनः ।
व्योम्नश् शून्यत्वम् एवं हि न पृथग् द्वैतम् ईश्वरात् ॥
द्वैताद्वैतोपलम्भो हि दुःखायैष क्षयात्मने ।
निपुणो ऽनुपलम्भो यस् त्व् एतयोस् तत् परं विदुः ॥
मातृमानप्रमेयादि द्रष्टृदर्शनदृश्यताः ।
एतावज् जगद् एतच् च परमाणौ चितस् स्थितम् ॥
अयं जगदणुर् नित्यम् अनेनाणुसुमेरुणा ।
स्पन्दनं पवनेनेव स्वाङ्ग एव धृतः कुतः ॥
अहो नु भीमा मायेयम् अथ वा मायिता परा ।
परमाण्वन्तर् एवास्ति यत् त्रैलोक्यपरम्परा ॥
अथासम्भवमायित्वम् एवैतत् सर्वदा स्थितम् ।
चिन्मात्रपरमाण्वन्तमात्रम् एव जगत् स्थितम् ॥
अन्तर्गतजगज्जालो ऽप्य् एषो ऽणुस् साम्यम् अत्यजन् ।
स्थितो ऽन्तस्स्थबृहद्वृक्षं बीजं भाण्डोदरे यथा ॥
बीजे ऽन्तर् वृक्षविस्तारस् स्थितस् सफलपल्लवः ।
परया दृश्यते दृष्ट्या जगच् च चिदणूदरे ॥
स शाखाफलवृक्षत्वम् अजहद् बीजकोटरे ।
यथा तरुस् स्थितस् तद्वद् विकासि चिदणौ जगत् ॥
संस्थितद्वैतम् अद्वैतबीजकोशम् इव स्थितम् ।
जगच् चित्परमाण्वन्तर् यः पश्यति स पश्यति ॥
न द्वैतं न च वाद्वैतं न बीजं न च वाङ्कुरः ।
न स्थूलं न च वा सूक्ष्मं नाजातं जातम् एव नो ॥
न चास्ति न च नास्तीदं न सोम्यं क्षुभितं न च ।
त्रिजगच्चिदणोर् अन्तस् सत्त्वं वाथ न किञ्चन ॥
न जगन् नाजगद् वास्ति विद्यते चित्पराणुता ।
सर्वात्मिका यदा यत्र या यथोदेति तत् तथा ॥
उदेत्य् अनुदितो ऽप्य् एष स्वसंवेदनजृम्भितः ।
परमात्माणुर् एकात्मा समग्रात्मतयेव खे ॥
द्रुमीभूयेव बीजत्वम् इवोदेत्य् अनुदय्य् अपि ।
परं तत्त्वं जगद्भङ्ग्या जगन्नाशोदयेन च ॥
द्रुमो बीजतयेवाशु न सन्त्यक्तसमस्थितिः ।
तिष्ठत्य् अपगतस्पन्दत्यागात्यागः परो ऽणुकः ॥
बिसतन्तुर् महामेरुः परात्माणोर् अपेक्षया ।
दृश्यः किल बिसे तन्तुर् अदृश्याक्ष्णा परात्मता ॥
बिसतन्तुर् महामेरुः परमाणोः किलात्मनः ।
तस्यैव तद्घनाच् चान्तस्स्थिता मेर्वादिकोटयः ॥
एतेन तेन महता परमाणुना च व्याप्तं ततं विरचितं जनितं कृतं च ।
विश्वप्रपञ्चरचनं नभसेव विष्वक् शून्यत्वम् अच्छम् अभितः परिलब्धम् एव ॥
द्वैतेन सुन्दरतरं स्वम् अनुज्झतेव रूपं सुषुप्तसदृशेन परावबोधात् ।
ऐक्यं गतं स्थितगमागममुक्तम् एवम् इत्थं स्थितं ननु जगत् परमार्थपिण्डः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0