भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.80

3.80.1

महानिशि महारण्ये महाराक्षसकन्यया ।
इति प्रोक्ते महाप्रश्ने महामन्त्री गिरं ददौ ॥

3.80.2

शृणु तोयदसङ्काशे प्रश्नम् एनं भिनद्मि ते ।
अनुक्रमात्मकं मत्तं गजेन्द्रम् इव केसरी ॥

3.80.3

भवत्या परमात्मैष कथितः कमलेक्षणे ।
अनयैव वचोभङ्ग्या ब्रह्मविद्बोधयोग्यया ॥

3.80.4

अनाख्यत्वाद् अगम्यत्वान् मनसाम् अप्य् अगोचरः ।
चिन्मात्रम् एवम् आत्माणुर् आकाशाद् अपि सूक्ष्मकः ॥

3.80.5

चिदणोः परमस्यान्तस् सद् एवासद् इव स्थितम् ।
सत्ताप्य् एवम् असत्तेव स्फुरतीदं जगत् स्थितम् ॥

3.80.6

स किञ्चिदनुभूतित्वात् सर्गात्मकतया स्थितः।
तदात्मकतया पूर्वं भावसत्तां किलागतः ॥

3.80.7

अतीन्द्रियत्वान् नो किञ्चित् स एवाणुर् अनन्तकः ।
सर्वात्मकत्वाद् भुङ्क्ते च तेन किञ्चिन् न किञ्चन ॥

3.80.8

चिदणोः प्रतिभासात् स्वाद् एकस्यानेकतोदिता ।
असत्यैवापि सत्येव हेम्नः कटकता यथा ॥

3.80.9

एषो ऽणुः परमाकाशस् सूक्ष्मः खाद् अप्य् अलक्षितः ।
मनष्षष्ठेन्द्रियातीतस् स्थितस् सर्वात्मको ऽपि सन् ॥

3.80.10

सर्वात्मकस् स्यान् नैवासौ शून्यो भवति कर्हिचित् ।
यद् अस्ति न तद् अस्तीति वक्तोन्मत्त इति स्मृतः ॥

3.80.11

कयाचिद् अपि युक्त्येह सतो ऽसत्त्वं न युज्यते ।
सर्वात्मा खातगुप्तेन कर्पूरेणेव दर्श्यते ॥

3.80.12

चिन्मात्राणुस् स एवेह सर्वं किञ्चिद् घनं स्थितः ।
न किञ्चिद् इन्द्रियातीतरूपत्वाद् अमलस् स्थितः ॥

3.80.13

स एव चैको ऽनेकश् च सर्वसत्तात्मवेदनात् ।
स एवेदं जगद् धत्ते जगत्कोटीस् तथैव च ॥

3.80.14

इमाश् चित्त्वमहाम्भोधेस् त्रिजगज्जलवीचयः ।
प्रजास् तस्मिन् कचन्त्य् अप्सु द्रवत्वाच् चक्रता इव ॥

3.80.15

चित्तेन्द्रियाद्यलभ्यत्वात् सो ऽणुश् शून्यं खरूपधृत् ।
स्वसंवेदनलभ्यत्वाद् अशून्यं व्योमरूप्य् अपि ॥

3.80.16

सो ऽहं भवन्न् एव भवात् सम्पन्नो द्वैतवेदनात् ।
भवान् भवन्न् अहं जातो बोधबृंहाबृहद्वपुः ॥

3.80.17

त्वत्ताहन्तात्मकं सर्वं विनिगीर्यावबोधतः ।
न त्वं नाहं न सर्वं वासर्वं वा भवति स्वयम् ॥

3.80.18

गच्छन् न गच्छत्य् एषो ऽणुर् योजनौघगतो ऽपि सन् ।
संवित्त्या योजनौघत्वं तस्याणोर् अन्तरे स्थितम् ॥

3.80.19

न गच्छत्य् एष यातो ऽपि सम्प्राप्तो ऽपि न चागतः ।
स्वसत्ताकाशकोशे ऽन्तर् वासित्वाद् देशकालयोः ॥

3.80.20

गम्यं यस्य शरीरस्थं क्व किलासौ प्रयाति हि ।
कुचकोटरगः पुत्रः किं मात्रान्यत्र वीक्ष्यते ॥

3.80.21

गम्यो यस्य महादेशो यावत्सम्भवम् अक्षयः ।
अन्तस्स्थस् सर्वकर्तुश् च स कथं क्वेव गच्छति ॥

3.80.22

यथा देशान्तरप्राप्ते कुम्भे वक्त्रसुमुद्रिते ।
तदाकाशस्य गमनागमौ न स्तस् तथात्मनः ॥

3.80.23

चितितास्थाणुते ऽस्यान्तर् यदा स्तो ऽनुभवात्मिके ।
चेतनश् च जडश् चैव तदासौ द्वयम् एव हि ॥

3.80.24

यदा चेतनपाषाणसत्तैकात्मैव चिद्वपुः ।
तदा चेतन एवासौ पाषाण इव राक्षसि ॥

3.80.25

परमे व्योम्न्य् अनाद्यन्ते चिन्मात्रपरमाणुना ।
विचित्रं त्रिजगच् चित्रं तेनेदम् अकृतं कृतम् ॥

3.80.26

तत्संवित्त्या वह्निसत्ता तेनात्यक्तानलाकृतिः ।
सर्वगो ऽप्य् अदहन्न् एव स जगद्द्रव्यपाचकः ॥

3.80.27

अज्वलन् भासुराकारान् निर्मलाद् गगनाद् अपि ।
प्रज्वलंश् चेतनैकात्मा तस्माद् अग्निः प्रजायते ॥

3.80.28

संवेदनाद् अनर्कादिः प्रधाने स प्रकाशकः ।
न नश्यत्य् आद्यभारूपो महाकल्पाम्बुदैर् अपि ॥

3.80.29

अनेत्रलभ्यो ऽनुभवरूपो हृद्गृहदीपकः ।
सर्वसत्ताप्रदो ऽनन्तः प्रकाशस् स परस् स्मृतः ॥

3.80.30

प्रवर्तते ऽस्माद् आलोको मनष्षष्ठेन्द्रियातिगात् ।
येनान्तर् अपि वस्तूनां दृश्यादृश्यचमत्कृतिः ॥

3.80.31

लतागुल्माङ्कुरादीनाम् अनक्षाणां च सो ऽणुकः ।
उत्सेधवेदनाकारः प्रकाशो ऽनुभवात्मकः ॥

3.80.32

कालाकाशक्रियासत्तास्वभावानां स्ववेदनात् ।
स्वामी कर्ता पिता भोक्ता खात्मत्वाच् च न किञ्चन ॥

3.80.33

अणुत्वम् अजहत् सो ऽणुर् जगद्रत्नसमुद्गकः ।
मातृमानप्रमेयात्मा जगत् तत्रास्ति वेदने ॥

3.80.34

स एव सर्वजगति सर्वत्र कचति स्फुटम् ।
यदा जगत् समुद्गे ऽस्मिंस् तदासौ परमो मणिः ॥

3.80.35

दुर्बोधत्वात् तमस् सो ऽणुश् चिन्मात्रत्वात् प्रकाशदृक् ।
सो ऽस्ति संवित्तिरूपत्वात् तदक्षातीतया त्व् असत् ॥

3.80.36

दूरे ऽसौ नाक्षलभ्यत्वाच् चिद्रूपत्वाद् अदूरगः ।
सर्वसंवेदनाच् छैला असाव् एवाणुर् एव सन् ॥

3.80.37

तत् संवेदनमात्रं यत् तद् इदं भासते जगत् ।
न सत्यम् अस्ति शैलादि तेनाणाव् एव मेरुता ॥

3.80.38

निमेषप्रतिभासो हि निमेष इति कथ्यते ।
कल्पैकप्रतिभासो हि कल्पशब्देन कथ्यते ॥

3.80.39

कल्पक्रियाविलासो हि निमेषे प्रतिभासते ।
बहुयोजनविस्तीर्णं मनसीव महापुरम् ॥

3.80.40

निमेषजठरे कल्पसंरम्भस् समुदेति हि ।
महानगरनिर्माणं मकुरे ऽन्तर् इवामले ॥

3.80.41

निमेषकल्पशैलाब्धिपुरयोजनकोटयः ।
यत्राणाव् एव विद्यन्ते तत्र द्वैतैकते कुतः ॥

3.80.42

कृतवान् प्राग् इदम् अहम् इति बुद्धाव् उदेति हि ।
क्षणात् सत्यम् असत्यं च दृष्टान्तस्स्वप्नविभ्रमाः ॥

3.80.43

दुःखे कालस् सुदीर्घो हि सुखे लघुतरस् सदा ।
रात्रिर् द्वादशवर्षाणि हरिश्चन्द्रस्य चोदिता ॥

3.80.44

निश्चयो य उदेत्य् अन्तस् सत्यो वासत्य एव वा ।
हेम्नीव कटकादित्वम् ऊर्मिस् सिन्धौ विराजते ॥

3.80.45

न निमेषो ऽस्ति नो कल्पो नादूरं न च दूरता ।
चिदणुप्रतिभैवेवं स्थितानन्यान्यवस्तुवत् ॥

3.80.46

प्रकाशतमसोर् दूरादूरयोः क्षणकल्पयोः ।
एकचित्कोशयोर् एवं न भेदो ऽस्ति मनाग् अपि ॥

3.80.47

प्रत्यक्षम् अक्षसारत्वाद् अप्रत्यक्षं ततो ऽतिगम् ।
दृश्यत्वेनैव चोदेति वित्वाद् द्रष्टैव सद्वपुः ॥

3.80.48

यावत् कटकसंवित्तिस् तावन् नास्त्य् एव हेमता ।
यावच् च दृश्यतापत्तिस् तावन् नास्त्य् एव सा कला ॥

3.80.49

कटकत्वे क्षते दृश्ये सुवर्णत्वम् इवाततम् ।
केवलं निर्मलं बुद्धं ब्रह्मैव परिशिष्यते ॥

3.80.50

सर्वत्वाद् एष सद्रूपो दुर्लक्ष्यत्वाद् असद्वपुः ।
चेतनश् चेतनात्मत्वाच् चेत्यासम्भवतस् त्व् अचित् ॥

3.80.51

चिच्चमत्कारमात्रात्मन्य् अस्मिंस् तत्प्रतिभात्मनि ।
जगत्य् अनिलवृक्षाभे चिच्चेत्यकलने कुतः ॥

3.80.52

यथा तपस्य् अपीनस्य भासनं मृगतृष्णिका ।
एकं पीवरम् अद्वैतं तथा चिद्भासनं जगत् ॥

3.80.53

अर्कांशुसूक्ष्मतरभानिर्माणं यद् अनामयम् ।
अस्तितानास्तिते तत्र कुड्यादेर् इव कैव धीः ॥

3.80.54

मायापांसुकणाङ्के खे यथा कचति काञ्चनम् ।
तथा जगद् इदं भाति चिच्चेत्यकलने कुतः ॥

3.80.55

स्वप्नगन्धर्वसङ्कल्पनगरे कुड्यवेदनम् ।
न सन् नासद् यथा तद्वद् विद्धि दीर्घभ्रमं जगत् ॥

3.80.56

तथा चैवंविधन्यायभावनाभ्यासनिर्मलाः ।
कुड्याकाशेन निर्यान्ति यथाभूतार्थदर्शिनः ॥

3.80.57

न कुड्याकाशयोर् भेदो दृढसंवेदनाद् ऋते ।
आ ब्रह्मजीवकलनाद् यद् रूढं रूढम् एव तत् ॥

3.80.58

प्रतिभासामलाकाशे खत्वकुड्यत्वशून्यताः ।
प्रकचन्ति घनीभावात् प्रभापिण्ड इव प्रभाः ॥

3.80.59

पृथक्ता प्रतिभासस्य स्वचमत्कारयोगतः ।
सर्वात्मिका हि प्रतिभा परा वृक्षात्मबीजवत् ॥

3.80.60

बीजम् अन्तस्स्थवृक्षत्वं नानानाना यथैकदृक् ।
तथासङ्ख्यं जगद् ब्रह्म शान्तम् आकाशकोशवत् ॥

3.80.61

बीजस्यान्तस्स्थवृक्षस्य व्योमाद्वैता स्थितिर् यथा ।
ब्रह्मणो ऽन्तस्स्थजगतो व्योमाक्षुब्धा स्थितिस् तथा ॥

3.80.62

शान्तं समस्तम् अजम् एकम् अनादिमध्यं नेहास्ति काचन कला कलनाः कथञ्चित् ।
निर्द्वन्द्वशान्तम् अतिरेकम् अनेकम् अच्छम् आभासरूपम् अलम् एकविकासम् आस्स्व ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc