भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.82

3.82.1

इति राजमुखाच् छ्रुत्वा कर्कटी वनमर्कटी ।
अवबुद्धपदान्तस्स्थं जहौ मात्सर्यचापलम् ॥

3.82.2

अन्तश्शीतलतां तोषं विश्रान्तिम् अपतापताम् ।
प्राप्ता प्रावृण्मयूरीव सज्योत्स्नेव कुमुद्वती ॥

3.82.3

तया राजगिरा तस्या आनन्द उदभूद् भृशम् ।
गर्भो ऽन्तः खे बलाकाया रवेणेव पयोमुचः ॥

3.82.4

अहो बत पवित्रेयं भवतोर् भाति शेमुषी ।
अनस्तमितसारेण प्रबोधार्केण भासिता ॥

3.82.5

सिता समरसा शुद्धा ज्योत्स्नेव शशिमण्डलात् ।
विवेककणिका दृष्टा भवतोर् हृदयाद् इयम् ॥

3.82.6

विवेकिनो जगत्पूज्यास् सेव्या मन्ये भवादृशाः ।
त्वत्सङ्गात् सविकासास्मि चन्द्रेणेव कुमुद्वती ॥

3.82.7

सौरभं कुसुमासङ्गाद् इव सत्सङ्गमाच् छुभम् ।
प्रवर्तते ऽर्कसम्पर्काद् विकासो ऽम्बुरुहाम् इव ॥

3.82.8

महताम् एव संसर्गात् पुनर् दुःखं न बाधते ।
को हि दीपशिखाहस्तस् तमसा परिभूयते ॥

3.82.9

मयेमौ जङ्गले प्राप्तौ भवन्तौ भूमिभास्करौ ।
पूजनीयाव् अतश् शीघ्रम् ईहितं कथ्यतां शुभम् ॥

3.82.10

अस्मज्जनपदे रक्षःकुलकाननमञ्जरि ।
जनस्य बाधते ऽत्यर्थं सदा हृदयशूलनम् ॥

3.82.11

यदा सर्वैव जनता सदा दृढविषूचिका ।
मन्मण्डले ऽद्य तेनाहं निर्गतो रात्रिचर्यया ॥

3.82.12

शूलानि हृदये नॄणां न शाम्यन्ति यदौषधैः ।
तदाहं त्वद्विधप्रोक्तमन्त्राद्यर्थेन निर्गतः ॥

3.82.13

त्वादृशस्य च लोकस्य मुग्धलोकाभिघातिनः ।
निग्रहार्थं प्रवृत्तिर् मे सा च सम्पत्तिम् एत्व् अलम् ॥

3.82.14

एतावद् एव च शुभे नन्व् अङ्गीक्रियतां त्वया ।
भूयो भवत्या यत् प्राणा हिंसनीया न कस्यचित् ॥

3.82.15

बाढम् एवं करोम्य् अद्यप्रभृत्य् अवितथं प्रभो ।
सत्यम् एवं न किञ्चिद् धि हिंसनीयं मयाधुना ॥

3.82.16

यद्य् एवं फुल्लपद्माक्षि परदेहैकभोजने ।
किं स्याच् छरीरवृत्त्या ते स्थिताया मत्समीहिते ॥

3.82.17

षड्भिर् वर्षशतै राजन् प्रबुद्धायास् समाधितः ।
जातभोजनसङ्कल्पा भोजनेच्छेयम् अद्य मे ॥

3.82.18

इदानीं शिखरं गत्वा तद् एव ध्याननिश्चला ।
यावदिच्छं सुखेनासे सजीवा सालभञ्जिका ॥

3.82.19

आमृतीं धारणां बद्ध्वा धारयामि शरीरकम् ।
यथेच्छम् अथ कालेन त्यक्ष्यामीति मतिर् मम ॥

3.82.20

आशरीरपरित्यागम् इदानीं न मया नृप ।
हिंसनीयाः परप्राणास् तेनेदं मद्वचश् शृणु ॥

3.82.21

हिमवान् नाम शैलो ऽस्ति रुचा चन्द्रांशुनिर्मलः ।
य उत्तराशाहृदये स्पृष्टपूर्वापरार्णवः ॥

3.82.22

तत्राहं निवसाम्य् उग्रे हेमशृङ्गदरीगृहे ।
आयसी स्तम्भलेखेव कर्कटी नाम राक्षसी ॥

3.82.23

तपसा प्रार्थितो ब्रह्मा जनतामारणेच्छया ।
विषूचिका प्राणहरा स्यां सूक्ष्मास्मीति वै मया ॥

3.82.24

तस्मात् सम्प्राप्तवरया बहून् वर्षगणान् मया ।
भुक्ता विषूचिकात्वेन जनता जीववेधनैः ॥

3.82.25

त्वया न गुणिनो हिंस्या इति मे ब्रह्मणा कृतः ।
नियमार्थं महामन्त्रस् तदायत्तास्मि संस्थिता ॥

3.82.26

सो ऽयं प्रगृह्यतां तेन सर्वं हृदयशूलनम् ।
शमम् एष्यति लोके ऽस्मिन् का कथा मत्कृते भ्रमे ॥

3.82.27

विरतैवास्मि हिंसातो यत् पुरा हिंसितं मया ।
जनस्य हृदयं तेन नाड्यो वैधुर्यम् आगताः ॥

3.82.28

हिंसित्वा रक्तमांसानि सन्त्यक्ता ये मया जनाः ।
तेभ्यो विधुरनाडिभ्यो ये जातास् ते ऽपि तादृशाः ॥

3.82.29

राजन् विषूचिकामन्त्रस् सो ऽयं सम्पन्न एव ते ।
न हि सत्त्ववताम् अस्ति दुस्साध्यम् इह किञ्चन ॥

3.82.30

अतो दुर्नाडिकोशेषु शूलानां परिशान्तये ।
मन्त्रो यो ब्राह्मणा प्रोक्तो राजञ् शीघ्रं गृहाण तम् ॥

3.82.31

आगच्छ निकटं नद्या गच्छामस् तत्र भूपते ।
स्वाचान्ताभ्यां संयताभ्यां भवद्भ्यां सुव्रता ददे ॥

3.82.32

इति तस्यां तदा रात्र्यां राक्षसीमन्त्रिभूभृतः ।
जग्मुस् ते सरितस् तीरं मिथस्सञ्जातसौहृदाः ॥

3.82.33

अन्वयव्यतिरेकाभ्यां राक्षस्यास् सौहृदं तथा ।
ज्ञात्वा स्थितौ तौ स्वाचान्ताव् उभाव् अन्ते निवासिनौ ॥

3.82.34

तया ब्रह्मोपदिष्टो ऽसौ ततस् ताभ्यां यथाक्रमम् ।
स्नेहाद् विषूचिकामन्त्रः प्रदत्तो जपसिद्धिदः ॥

3.82.35

ततस् सञ्जातसौहार्दौ तौ विसृज्य निशाचरी ।
यदा गन्तुं प्रवृत्तासौ तदा राजाब्रवीद् वचः ॥

3.82.36

गुरुस् त्वं नौ महादेवि वयस्या च सुनिर्वृता ।
निमन्त्रयावहे यत्नात् त्वाम् अम्भोरुहसुन्दरि ॥

3.82.37

न प्रार्थनां तथास्माकं वितथीकर्तुम् अर्हसि ।
सौहार्दं सुजनानां हि दर्शनाद् एव वर्धते ॥

3.82.38

लघुसौभाग्यसंयुक्तं कृत्वाकारं मनोहरम् ।
आगच्छास्मद्गृहं भव्या तत्र तिष्ठ यथासुखम् ॥

3.82.39

मुग्धस्त्रीरूपधारिण्यै दातुं शक्नोषि भोजनम् ।
सन्तर्पयसि मां केन राक्षसीरूपधारिणीम् ॥

3.82.40

रक्षोऽन्नम् एव मे तुष्ट्यै न सामान्यजनाशनम् ।
पूर्वसिद्धस् स्वभावो ऽयम् आ सर्गान्ताद् विवर्धते ॥

3.82.41

हेमस्रग्दामवलिता दिनानि कतिचिद् गृहे ।
मम स्त्रीरूपिणी तिष्ठ यावदिच्छम् अनिन्दिते ॥

3.82.42

ततो दुष्कृतिनश् चौरान् वध्याञ् शतसहस्रशः ।
मण्डलेभ्यस् समानीय ददे तुभ्यं सुभोजने ॥

3.82.43

कान्तारूपं परित्यज्य गृहीत्वा राक्षसं वपुः ।
आदाय वध्याञ् शतशः पुरुषांस् तान् स्वसञ्चितान् ॥

3.82.44

नयस्व हिमवच्छृङ्गं तत्र भुङ्क्ष्व यथासुखम् ।
महाशनानाम् एकान्ते भोजनं हि सुखायते ॥

3.82.45

सुप्ता निद्रां परित्यज्य भव भूयस् समाधिभाक् ।
समाधिविरता भूयो ऽप्य् आगत्य पुनर् अन्यदा ॥

3.82.46

नेष्यस्य् अन्यान् वध्यनरान् हिंसा नैषा च धर्मतः ।
स्वधर्मेण च हिंसैव महाकरुणया समा ॥

3.82.47

त्वं समेष्यसि चावश्यं मां समाधिविरामिणी ।
असताम् अपि संरूढं सौहार्दं न निवर्तते ॥

3.82.48

युक्तम् उक्तं त्वया राजन् करोम्य् एवम् अहं सखे ।
सौहार्देन प्रवृत्तस्य को वाक्यं नाभिनन्दति ॥

3.82.49

इत्य् उक्त्वा राक्षसी तत्र सम्पन्ना सा विलासिनी ।
हारकेयूरकटकपट्टस्रग्दामधारिणी ॥

3.82.50

राजन्न् आगच्छ गच्छाम इत्य् उक्त्वा नृपमन्त्रिणौ ।
अग्रे गन्तुं प्रवृत्तौ तौ रात्राव् अनुससार सा ॥

3.82.51

अथ ते पार्थिवगृहं प्राप्य तां रजनीं मिथः ।
कथयैकगृहे रम्ये क्षपयाम् आसुर् आदृताः ॥

3.82.52

प्रभाते ऽन्तःपुरे तस्थौ पुरन्ध्रिजनलीलया ।
राक्षसी मन्त्रिराजानौ स्वव्यापारौ बभूवतुः ॥

3.82.53

ततो दिवसषट्केन सञ्चितानि महीभृता ।
नृपान्तरपुरेभ्यो ऽपि स्वमण्डलगणात् तथा ॥

3.82.54

त्रीणि वध्यसहस्राणि तानि तस्यै तदाददौ ।
सा बभूव निशाकाले सैवोग्रा कृष्णा राक्षसी ॥

3.82.55

तानि वध्यसहस्राणि जग्राह भुजमण्डले ।
धारानिकरजालानि मेघमालेव कोटरे ॥

3.82.56

ययौ राजानम् आपृच्छ्य तद् एव हिमवच्छिरः ।
दरिद्रा लब्धहेमेव गृहम् उग्रशरीरिणी ॥

3.82.57

तत्रा तृप्तेर् भृशं भुक्त्वा सुखं सुप्त्वा दिनद्वयम् ।
आसीत् प्रबुद्धा सुस्वच्छा सा समाधिवती पुनः ॥

3.82.58

पञ्चभिर् वा त्रिभिर् वापि वर्षैस् सा सम्प्रबुध्यति ।
तत् ततो मण्डलं याति तेन राज्ञा च पूज्यते ॥

3.82.59

तत्र विश्रम्भगर्भाभिः कथाभिः कञ्चिद् एव सा ।
स्थित्वा कालं गृहीत्वा तान् वध्यान् स्वास्पदम् एत्य् अथ ॥

3.82.60

जीवन्मुक्ततयैवम् एव विपिने साद्यापि रक्षोऽङ्गना ।
तस्मिन्न् एव गिरौ स्थिता विगलितध्यानैकतानाशया ॥

3.82.61

तस्मिन् राजनि शान्तिम् आगतवति त्यक्तैषणेनात्मना ।
तद्राष्ट्राधिपसौहृदैस् स्वकवलान् आस्वादयन्ती चिरम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc