भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.79

3.79.1

इत्य् उक्त्वा राक्षसी प्रश्नान् सा वक्तुम् उपचक्रमे ।
उच्यताम् इति राज्ञोक्ते तान् इमाञ् शृणु राघव ॥

3.79.2

एकस्यानेकसङ्ख्यस्य कस्याणोर् अम्बुधेर् इव ।
अन्तर् ब्रह्माण्डलक्षाणि लीयन्ते बुद्बुदा इव ॥

3.79.3

किम् आकाशम् अनाकाशं नकिञ्चित् किञ्चिद् एव किम् ।
को ऽहम् एवापि सम्पन्नः को भवान् अप्य् अहं स्थितः ॥

3.79.4

गच्छन् न गच्छति च कः को ऽतिष्ठन्न् एव तिष्ठति ।
कश् चेतनो ऽपि पाषाणः कश् चिद्व्योमनि चित्रकृत् ॥

3.79.5

वह्निताम् अजहच् चैव कश् च वह्निर् न दाहकः ।
अवह्नेर् जायते वह्निः कस्माद् राजन् निरन्तरम् ॥

3.79.6

अचन्द्रार्काग्नितारो ऽपि को ऽविनाशः प्रकाशकः ।
अनेत्रलभ्यात् कस्माच् च प्रकाशश् च प्रवर्तते ॥

3.79.7

लतागुल्माङ्कुरादीनां जात्यन्धानां तथैव च ।
अन्येषाम् अप्य् अनक्षाणाम् आलोकः क इवोत्तमः ॥

3.79.8

जनकः को ऽम्बरादीनां सत्तायाः कस् स्वभावदः ।
को जगद्रत्नकोशस् स्यात् कस्य कोशे मणेर् जगत् ॥

3.79.9

को ऽणुस् तमः प्रकाशश् च को ऽणुर् अस्ति च नास्ति च ।
को ऽणुर् दूरे ऽप्य् अदूरे च को ऽणुर् एव महागिरिः ॥

3.79.10

निमेष एव कः कल्पः कः कल्पो ऽपि निमेषकः ।
किं प्रत्यक्षम् असद्रूपं किं चेतनम् अचेतनम् ॥

3.79.11

कश् चावायुश् च वायुश् च कश् शब्दो ऽशब्द एव च ।
कस् सर्वं च नकिञ्चिद् च को ऽहं नाहं च किं भवेत् ॥

3.79.12

किं प्रयत्नशतप्राप्तं लब्ध्वापि बहुजन्मभिः ।
लब्धं नकिञ्चिद् भवति ननु सर्वं च लभ्यते ॥

3.79.13

स्वस्थेन जीवतैवोच्चैः केन स्वात्मापहारितः ।
केनाणुनान्तर् व्रियते मेरुस् त्रिभुवनं तृणम् ॥

3.79.14

केनाणुकणमात्रेण पूरिता शतयोजनी ।
को ऽणुर् एव भवन् माति न योजनशतेष्व् अपि ॥

3.79.15

केनालोकनमात्रेण जगद्बालः प्रनाट्यते ।
कस्याणोर् अन्तरे सन्ति कुलावनिभृतां घटाः ॥

3.79.16

अणुत्वम् अजहत् को ऽणुर् मेरोस् स्थूलतराकृतिः ।
वालाग्रशतभागात्मा को ऽणुर् उच्चैश् शिलोच्चयः ॥

3.79.17

को ऽणुः प्रकाशतमसोर् दीपः प्रकटनप्रदः ।
कस्याणोर् अन्तरे सन्ति समग्रानुभवाणवः ॥

3.79.18

को ऽणुर् अत्यन्तनिस्स्वादुर् अपि संस्वदते भृशम् ।
केन सन्त्यजता सर्वम् अणुना सर्वम् आश्रितम् ॥

3.79.19

केनात्माच्छादनाशक्तेर् अणुनाच्छादितं जगत् ।
जगन् नयेन कस्याणोस् सद्भूतम् अभिजीवति ॥

3.79.20

अजातावयवः को ऽणुस् सहस्रकरलोचनः ।
को निमेषो महाकल्पो महाकल्पशतानि वा ॥

3.79.21

अणौ जगन्ति तिष्ठन्ति कस्मिन् बीज इव द्रुमाः ।
बीजाद्यानि फलान्तानि स्फुटान्य् अनुदितान्य् अपि ॥

3.79.22

कल्पः कस्य निमेषस्य जीवस्येवान्तरे स्थितः ।
कः प्रयोजककर्तृत्वम् अप्य् अनाश्रित्य कारकः ॥

3.79.23

दृश्यसम्पत्तये द्रष्टाप्य् आत्मानं दृश्यतां नयेत् ।
दृश्यं पश्यन् स्वम् आत्मानं को न पश्यति नेत्रवत् ॥

3.79.24

अन्तर्गलितदृश्यं च क आत्मानम् अखण्डितम् ।
दृश्यासम्पत्तये पश्यन् पुरो दृश्यं न पश्यति ॥

3.79.25

आत्मानं दर्शनं दृश्यं को भासयति दृश्यवत् ।
कटकादीनि हेम्नेव निगीर्णं केन च त्रयम् ॥

3.79.26

कस्मान् न किञ्चिच् च पृथग् ऊर्म्यादीव महाम्भसः ।
कस्येच्छया पृथक् चास्ति वीचितेव महाम्भसः ॥

3.79.27

दिक्कालाद्यनवच्छिन्नाद् एकस्माद् असतस् सतः ।
द्वैतम् अप्य् अपृथक् कस्माद् द्रवतेव महाम्भसः ॥

3.79.28

आत्मानं दर्शनं दृश्यं सद् असच् च गतक्रमम् ।
को ऽन्तर्बीजम् इवाङ्गस्थं स्थितः कृत्वा त्रिकालगम् ॥

3.79.29

भूतभव्यभविष्यस्थं जगद्वृन्दं बृहद्भ्रमम् ।
नित्यं समस्य कस्यान्तर् बीजस्यान्तर् इव द्रुमः ॥

3.79.30

बीजं द्रुमतयैवाशु द्रुमो बीजतयैव च ।
स्वयम् एकम् असद्रूपम् उदेत्य् अनुदितो ऽपि कः ॥

3.79.31

बिसतन्तुर् महामेरुर् भो राजन् यदपेक्षया ।
तस्य कस्योदरे सन्ति मेरुमन्दरकोटयः ॥

3.79.32

केनेदम् आततम् अनेकचिद् एव विश्वं किंसार एवम् अभिवल्गसि हंसि पासि ।
किंदर्शनेन न भवस्य् अथ वा सद् एव नूनं भवस्य् असमदृग् वद तत्प्रशान्त्यै ॥

3.79.33

एषो ऽसौ प्रगलतु संशयो ममोच्चैश् चित्तश्रीमुखमिहिकामलानुलेपः ।
यस्याग्रे न गलति संशयस् समूलो नैवासौ क्वचिद् अपि पण्डितोक्तिम् एति ॥

3.79.34

एनं मे यदि न नयिष्यथः क्रमोक्त्या संशान्तिं लघुतरसंशयं सुबुद्धी ।
तद् रक्षोजठरहुताशनेन्धनत्वं निर्विघ्नं झगिति गमिष्यथः क्षणेन ॥

3.79.35

पश्चात् तां जनपदमण्डलीं समन्ताद् भावत्कीम् उरुजठरा क्षणाद् ग्रसे ऽहम् ।
एवं ते भवति सुराजतेव मन्ये मूर्खानाम् अतिरस एव सङ्क्षयाय ॥

3.79.36

इत्य् उक्त्वा विपुलगभीरमेघनाद प्रोल्लासप्रकटगिरा निशाचरी सा ।
तूष्णीम् अप्य् अतिविकटाकृतिस् तदासीच् छुद्धान्तश्शरदमलाभ्रमण्डलीव ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc