मोक्षोपाय · अध्याय 3.78
अथ सा राक्षसी रक्षःकुलकाननमञ्जरी ।
तमस्य् एवाभ्रलेखेव गम्भीरं निननाद सा ॥
नादान्ते समुवाचेदं प्रीङ्कारपरुषं वचः ।
गर्जितानन्तरं जातकरकाशनिशब्दवत् ॥
भो भो घोराटवीव्योमपदवीशशिभास्करौ ।
महामायातमःपीठशिलाकोटरकीटकौ ॥
कौ भवन्तौ महाबुद्धी दुर्बुद्धी वा समागतौ ।
मद्ग्रासपथम् आपन्नौ क्षणान् मरणकोविदौ ॥
भो भो भूतक किं स्यास् त्वं क्व तिष्ठसि च देहकम् ।
दर्शयास्यास् तव गिरः को बिभेत्य् अलिनीध्वनेः ॥
सिंहवत् सर्ववेगेन पतन्त्य् अर्थं किलार्थिनः ।
समम् आकारशब्दाभ्यां भावयास्मान् बिभेषि किम् ।
न किञ्चिद् दीर्घसूत्राणां सिध्यत्य् आत्मक्षयाद् ऋते ॥
राज्ञेत्य् उक्ते रम्यम् उक्तम् इति सञ्चिन्त्य सा तयोः ।
प्रकाशायाप्य् अधैर्याय ननाद च जहास च ॥
ततो ददृशतुस् तौ तां शब्दपूरितदिग्गणाम् ।
स्वाट्टहासप्रभापिण्डपूरप्रकटिताकृतिम् ॥
कल्पाभ्रांशनिकाशेन घृष्टाम् अद्रितटीम् इव ।
स्वनेत्रविद्युद्वलयावलनाज्वलिताम्बराम् ॥
तिमिरैकार्णवौर्वाग्निज्वालाविवलनाम् इव ।
गर्जद्घनघटाटोपपीवरासितकन्धराम् ॥
रणद्वदनसंरम्भहाहाहतनिशाचराम् ।
रोदसीकज्जलस्तम्भलीलयोल्लासितां पुरः ॥
ऊर्ध्वकेशीं सिरालाङ्गीं कपिलाक्षीं तमोमयीम् ।
यक्षरक्षःपिशाचानाम् अप्य् अनल्पभयप्रदाम् ॥
दरीरन्ध्रलसत्स्वास्यां वातझाङ्कारभीषणाम् ।
मुसुलोलूखलालातां हलशूर्पकशेखराम् ॥
स्फुरन्तीम् इव कल्पान्ते वैडूर्यशिखरिस्थलीम् ।
हासघट्टितविश्वेशां कालरात्रीम् इवोदिताम् ॥
घनव्योमाटवीं साभ्रां कृतदेहाम् इवागताम् ।
शरीरिणीं महाभ्राढ्यां यामिनीम् इव मांसलाम् ॥
शरीरसन्निवेशेन पङ्कपीठीम् इवोत्थिताम् ।
तनुं चन्द्रार्कयुद्धाय तमसेव समाश्रिताम् ॥
इन्द्रनीलतटश्वभ्रलम्बाभ्रयुगलोपमौ ।
उलूखलादिहालाढ्यौ दधानाम् असितौ स्तनौ ॥
नग्नाम् अङ्गारकाशेन समालब्धमहातनुम् ।
द्रुमाभास्पदसमिरललद्भुजलतातनुम् ॥
ताम् अवेक्ष्य महावीरौ तथैवाक्षुभितौ स्थितौ ।
न तद् अस्ति विमोहाय यद् विविक्तस्य चेतसः ॥
महाराक्षसि संरम्भो हासात्मा किम् अयं तव ।
लघवो ह्य् अथ वा नार्यो लाघवे ऽप्य् अतिसम्भ्रमाः ॥
त्यज संरम्भम् आरम्भो नायं तव विराजते ।
विषये हि प्रवर्तन्ते धीमन्तस् स्वार्थसाधकाः ॥
त्वादृशीनां सहस्राणि मषिकानाम् इवाबले ।
अस्माकं वासनावात्याव्यूढानि तृणपर्णवत् ॥
संरम्भज्वरम् उत्सृज्य समया स्वस्थया धिया ।
युक्त्या च व्यवहारिण्या सो ऽर्थः प्राज्ञेन साध्यते ॥
स्वेनैव व्यवहारेण कार्यं सिध्यतु माथवा ।
महानियतिनीत्यैव भ्रमस्यावसरो हि कः ॥
कथयाभिमतं किं ते किम् अर्थयसि वार्थिनी ।
अर्थी स्वप्ने ऽपि नास्माकम् अप्राप्तार्थः पुरोगतः ॥
इत्य् उक्ता सा तदा तेन चिन्तयाम् आस राक्षसी ।
अहो नु विमलाचारं सत्त्वं पुरुषसिंहयोः ॥
न सामान्याव् इमौ मन्ये चित्रैवेयं चमत्कृतिः ।
वचोवक्त्रेक्षणान्य् एव वदन्त्य् अन्तर्विनिश्चयम् ॥
वचोवक्त्रेक्षितद्वारैर् धीमताम् आशया मिथः ।
एकीभवन्ति सरितां पयांसि वलनैर् इव ॥
आभ्यां प्रायः परिज्ञातो मम भावो ऽनयोर् मया ।
न विनाश्यौ मयेमौ वा स्वयम् एवाविनाशिनौ ॥
मन्ये भवत आत्मज्ञौ नात्मज्ञानाद् ऋते मतिः ।
प्रमृष्टसदसद्भावा भवत्य् अस्तभया मृतेः ॥
तद् एतौ परिपृच्छामि कञ्चित् सन्देहम् उत्थितम् ।
प्राप्यं प्राप्य न पृच्छन्ति ये किञ्चित् ते नराधमाः ॥
इति सञ्चिन्त्य पृच्छायै तन् नानावसरं ततम् ।
अकालकल्पाभ्ररवं हासं संयम्य साब्रवीत् ॥
कौ भवन्तौ नरौ वीरौ कथ्यताम् इति मे ऽनघौ ।
जायते दर्शनाद् एव मैत्री विषदचेतसाम् ॥
अयं राजा किरातानाम् अस्याहं मन्त्रितां गतः ।
उद्यतौ रात्रिचारेण त्वादृग्जनविनिग्रहे ॥
राज्ञो रात्रिन्दिनं धर्मो दुष्टभूतविनिग्रहः ।
स्वधर्मत्यागिनो ये तु ते विनाशानलेन्धनम् ॥
राज्ञस् त्वम् असि दुर्मन्त्री दुर्मन्त्रित्वाद् अराड् अयम् ।
सद्भूपस्य भवेन् मन्त्री राजा सन्मन्त्रिणा भवेत् ॥
राजैवादौ विवेकेन योजनीयस् सुमन्त्रिणा ।
तेनार्यताम् उपायाति यथा राजा तथा प्रजाः ॥
समग्रगुणजालानाम् अध्यात्मज्ञानम् उत्तमम् ।
तद्वद् राजा भवेद् राजा तद्वन् मन्त्री च मन्त्रवित् ॥
प्रभुत्वं समदृष्टित्वं तच् च स्याद् राजविद्यया ।
ताम् एव यो न जानाति नासौ मन्त्री न सो ऽधिपः ॥
भवन्तौ तद्विदौ साधू यदि तच् छ्रेय आप्स्यथः ।
नो चेद् अनर्थदौ स्वस्याः प्रकृतेर् नाद्म्य् अहं युवाम् ॥
एकोपायेन मत्पार्श्वाद् बालकाव् उत्तरिष्यथः ।
मत्प्रश्नपञ्जरं सारं चेद् विचारयथो धिया ॥
प्रश्नानि मां कथय पार्थिव नाथ मन्त्रिन्न् अत्रार्थिनी भृशम् अहं परिपूरयार्थम् ।
अङ्गीकृतार्थम् अददत् क इवास्ति लोके दोषेण सङ्क्षयकरेण न युज्यते यः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0