भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.77

3.77.1

एतस्मिन्न् अन्तरे तत्र किरातजनमण्डले ।
हस्तहार्यतमःपिण्डा बभूवासितयामिनी ॥

3.77.2

नीलमेघपटच्छन्ननिरिन्दुगगनान्तरा ।
तमालवनसम्पिण्डमण्डलोड्डीनकज्जला ॥

3.77.3

लताघनतया ग्रामकोटरैकान्ध्यमन्थरा ।
गृहचत्वरसम्बाधनगरे नवयौवना ॥

3.77.4

चत्वरेषु तमःपिण्डप्रजिह्मीकृतदीपिका ।
कुञ्चिकाच्छिद्रनिष्क्रान्तदीपिकारोमराजिका ॥

3.77.5

स्ववयस्येव कर्कट्याः परिनृत्यत्पिशाचिका ।
मत्तकङ्कालवेताला काष्ठमौनम् इव स्थिता ॥

3.77.6

सुषुप्तमृतभूतौघा घननीहारहारिणी ।
मन्दमन्दमरुत्स्पन्दशरत्प्रालेयशीकरा ॥

3.77.7

सरस्सु विरटद्वारिकोकभेकतरङ्गिका ।
अन्तःपुरेषु रमणरणन्नारीनरानना ॥

3.77.8

जङ्गलेषु ज्वलज्ज्वालजटालज्वलनोज्ज्वला ।
केदारेष्व् अम्बुसंसेकपुष्टपाकमिलत्सिला ॥

3.77.9

नभस्य् अलक्षितस्पन्दपरिवृत्तर्क्षचक्रका ।
वनेषु विसरद्वातपतत्पुष्पफलद्रुमा ॥

3.77.10

श्वभ्रेषु कौशिकास्यात्तवायस्याद्याहृतारवा ।
तस्कराक्रान्तपर्यन्तग्राम्याक्रन्दनकर्कशा ॥

3.77.11

ग्रामेष्व् अचेतनग्राम्या नगरे सुप्तनागरा ।
वनेषु विसरद्वाता नीडेष्व् अस्पन्दपक्षिणी ॥

3.77.12

गुहासु सुप्तसिंहौघा कुञ्जेषूच्छ्वसितैणका ।
खे सावश्यायनिकरा विपिने मौनधारिणी ॥

3.77.13

कज्जलाम्भोदमध्याभा काचशैलोदरोपमा ।
पङ्कपिण्डान्तरघना खड्गच्छेद्यान्ध्यमांसला ॥

3.77.14

प्रलयानिलविक्षुब्धा कज्जलाचलचञ्चला ।
एकार्णवमहापङ्कपर्वतोदरमेदुरा ॥

3.77.15

अङ्गारकोटिनखरा सौषुप्तपदसुन्दरी ।
अज्ञाननिद्रानिविडा भृङ्गपृष्ठच्छविच्छविः ॥

3.77.16

तस्यां रजन्यां भीमायां किरातजनमण्डले ।
मन्त्रिणा सह भूपालस् तस्मिन्न् अवसरे तदा ॥

3.77.17

निर्जगाम सुधीरात्मा नगरात् सुप्तनागरात् ।
अटवीं विक्रमो नाम विषमां वीरचर्यया ॥

3.77.18

अटव्यां कर्कटी सा तौ चरन्तौ राजमन्त्रिणौ ।
अपश्यद् धृतधैर्यांशौ वेतालालोकनोन्मुखौ ॥

3.77.19

अथ सा चिन्तयाम् आस लब्धो भक्षो ऽद्य हो मया ।
मूढाव् एताव् अनात्मज्ञौ भारो देहः किलानयोः ॥

3.77.20

इहामुत्र च नाशाय मूढो दुःखाय जीवति ।
यत्नाद् विनाशनीयो ऽसौ नानर्थः परिपाल्यते ॥

3.77.21

अपश्यतस् स्वम् आत्मानं मृतिर् मूढस्य जीवितम् ।
मरणेनोदयो ऽस्यास्ति पापसम्पत्तिहेतुतः ॥

3.77.22

आदिसर्गे च नियमः कृतः पङ्कजजन्मना ।
हिंस्राभिभोजनायास्तु मूढात्मा नात्मवान् इति ॥

3.77.23

तस्माद् इमौ मयैवाद्य भोक्तव्यौ भोज्यतां गतौ ।
अभव्य एव निर्दोषं प्राप्तम् अर्थम् उपेक्षते ॥

3.77.24

मा कदाचिद् इमौ स्यातां गुणयुक्तौ महाशयौ ।
तादृङ्नरविनाशो हि स्वभावान् मे न रोचते ॥

3.77.25

तद् एतौ सम्परीक्षे ऽहं यदि तावद् गुणान्वितौ ।
तद् भक्ष्यं न करोम्य् एतौ न हिंस्या गुणिनः क्वचित् ॥

3.77.26

अकृत्रिमं सुखं कीर्तिम् आयुश् चैवाभिवाञ्छता ।
सर्वाभिमतदानेन पूजनीया गुणान्विताः ॥

3.77.27

यदि नश्यामि देहेन तन् न भोक्ष्ये गुणान्वितम् ।
सुखयन्ति हि चेतांसि जीविताद् अपि साधवः ॥

3.77.28

अपि जीवितदानेन गुणिनं परिपालयेत् ।
गुणवत्सङ्गमौषध्या मृत्युर् अप्य् एति मित्रताम् ॥

3.77.29

यत्राहम् अपि रक्षामि राक्षसी गुणशालिनम् ।
तत्रान्यश् चानुकुर्यात् तं हृद्विचारम् इवामलम् ॥

3.77.30

उदारगुणयुक्ता ये विहरन्तीह देहिनः ।
धरातलेन्दवस् सङ्गाद् भृशं शीतलयन्ति ते ॥

3.77.31

मृतिर् गुणतिरस्कारो जीवितं गुणिसंश्रयः ।
फलं स्वर्गापवर्गादि जीविताद् गुणिसंश्रयात् ॥

3.77.32

तस्माद् इमौ परीक्षे ऽहं कदाचित् प्रश्नलीलया ।
किं मानज्ञानकाव् एताव् इति तामरसेक्षणौ ॥

3.77.33

आदौ विचार्य सुगुणागुणलेशयुक्तिम् आगस् ततो ऽधिकतरं च गुणाद् यादि स्यात् ।
कुर्यात् ततस् समुपपत्तिवशेन दण्डं दण्ड्यस्य लघ्व् अथ दृढं धनसम्भवे वा ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc