भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.76

3.76.1

अथाभवद् असौ सूची कर्कटी राक्षसी पुनः ।
सूक्ष्मैव स्थौल्यम् आयाता मेघलेखेव वार्षिकी ॥

3.76.2

निजम् आकारम् आसाद्य किञ्चित् प्रमुदिता सती ।
बृहद्राक्षसगर्वं तद्बोधात् कञ्चुकवज् जहौ ॥

3.76.3

तत्रैव ध्यायिनी तस्थौ बद्धपद्मासनस्थितिः ।
आलम्ब्य संविदं शुद्धां संस्थिता गिरिकूटवत् ॥

3.76.4

अथ सा मासषट्केन ध्यानाद् बोधम् उपागता ।
महाजलदनादेन प्रावृषीव शिखण्डिनी ॥

3.76.5

प्रबुद्धा सा बहिर्वृत्तिर् बभूव क्षुत्परायणा ।
यावज्जीवं स्वभावो ऽस्य देहस्य न निवर्तते ॥

3.76.6

अथ सा किं ग्रस इति चिन्तयाम् आस चिन्तया ।
भोक्तव्यं परकीयं च न्यायेन न विना मया ॥

3.76.7

यद् आर्यगर्हितं यद् वा न्यायेन न समर्जितम् ।
तस्माद् ग्रासाद् वरं मन्ये मरणं देहिनाम् इह ॥

3.76.8

यदि देहं त्यजामीमं तन् न्यायोपार्जितं विना ।
न किञ्चिद् अद्मि निर्न्यायं भुक्तो ऽर्थो हि गरायते ॥

3.76.9

यन् न लोकक्रमप्राप्तं तेन भुक्तेन किं भवेत् ।
न जीवितेन नो मृत्या किञ्चित् कारणम् अस्ति मे ॥

3.76.10

मनोमात्रम् अहं ह्य् आसं देहादिभ्रममात्रकम् ।
तच् छान्तं स्वावबोधेन देहादेहदृशौ कुतः ॥

3.76.11

एवं स्थिता मौनवती शुश्राव गगनाद् गिरम् ।
रक्षस्स्वभावसन्त्यागतुष्टेनोक्तां नभस्वता ॥

3.76.12

गच्छ कर्कटि मूढांस् त्वं ज्ञानेनाश्व् अवबोधय ।
मूढोत्तारणम् एवेह स्वभावो महताम् इति ॥

3.76.13

बोध्यमानो भवत्यापि यो न बोधम् उपैष्यति ।
स्वनाशायैव जातो ऽसौ न्याय्यो ग्रासो भवेत् तव ॥

3.76.14

श्रुत्वेत्य् अनुगृहीतास्मि त्वयेत्य् उक्तवती शनैः ।
उत्तस्थौ शैलशिखरात् क्रमाद् अवरुरोह च ॥

3.76.15

अधित्यकाम् अतीत्याशु गत्वा चोपत्यकातटात् ।
विवेश शैलपादस्थं किरातजनमण्डलम् ॥

3.76.16

बह्वन्नपशुलोकौघद्रव्यसस्यौषधामिषम् ।
अनन्तमूलपानान्नमृगकीटखगादिकम् ॥

3.76.17

प्रचलितगलिताञ्जनाचलाभा हिमगिरिपादनिषेवितं सुदेशम् ।
तदनु गतवती निशाचरी सा निशि सुघनान्धतमिस्रमार्गभूमौ ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc