मोक्षोपाय · अध्याय 3.73
कर्कटीकटुवृत्तान्तं सर्वम् आकर्ण्य वासवः ।
नारदं परिपप्रच्छ पुनर्जातकुतूहलः ॥
सूचीवृत्तपिशाचीत्वं तपसोपार्ज्य तत् तया ।
कर्कट्या हिमवत्कुक्ष्यां के भुक्ता विभवा मुने ॥
जीवसूची पिशाचीत्वं गता या शूकपेलवम् ।
असीत् कार्ष्णायसी सूचिस् तस्यास् स्वम् अवलम्बनम् ॥
तत् स्वम् आलम्बनं त्यक्त्वा व्योमवातरथस्थया ।
प्राणमारुतमार्गेण तया देहप्रविष्टया ॥
सर्वासाम् अन्त्रतन्त्रीणां स्नायुमेदोवसासृजाम् ।
रन्ध्रेषु पक्षिण्येवान्तर् निलीनं मलिनाङ्गया ॥
यस्यां नाड्यां न यो वायुर् माति तत् ताम् उपेतया ।
तत्र शूलं कृतं मूलं न्यग्रोधाग्र इवोत्कटम् ॥
तच् छरीरेन्द्रियैस् तानि तथान्यानि बहूनि च ।
भुक्तानि नरमांसानि भोजनान्य् उचितानि च ॥
सुप्तं विवलितानल्पमालया मुग्धबालया ।
कान्तवक्षस्स्थलस्यूतम्लिष्टपत्त्रकपोलया ॥
विहृतं वीतशोकासु विहङ्ग्या वनवीथिषु ।
कल्पद्रुमोत्थपुष्पाभ्रद्विगुणाम्भोदपङ्क्तिषु ॥
पीत आमोदिमन्दारमकरन्दकणासवः ।
वनेष्व् अमरशैलानाम् अलिन्यालिनिलीनया ॥
चर्वितानि शवाङ्गानि गृध्रगर्वातिवृद्धया ।
खड्गयष्ट्येव सङ्ग्रामे वीराङ्गानि जवेद्धया ॥
सर्वाङ्गकोशनाडीषु दिक्ष्व् इवानिललेखया ।
उड्डीनम् अवडीनं च काक्येव व्योमवीथिषु ॥
विराडात्महृदि प्राणा वातस्कन्धास् स्फुरन्ति खे ।
यथा तथा प्रस्फुरितं प्रति देहगृहं तया ॥
सर्वप्राणिशरीरेषु भ्रान्तं चिच्छक्तिदुष्टया ।
दीपप्रभाभासितया गृहिण्येव स्वसद्मसु ॥
विहृतं रुधिरेष्व् अन्तर् द्रवशक्त्येव वारिषु ।
अब्धिष्व् आवर्तवृत्त्येव जठरेषु विवल्गितम् ॥
सुप्तं मेदस्सु शुभ्रेषु शेषाङ्गेष्व् इव शौरिणा ।
स्वादितस् स्वामगन्धो ऽन्तर् वातशक्त्यामृतं यथा ॥
तरुगुल्मौषधादीनां हृत्स्थारण्यानिलश्रिया ।
परिभुक्तान्य् अशक्तानि हिंसया वीक्षितानि च ॥
अहं जीवमयी सूची स्याम् इतीच्छावरेण सा ।
सम्पन्ना मानसी सूचिश् चेतनी पावनी शिता ॥
अदृश्यया तया तेन मारुतोग्रतुरङ्गया ।
अयस्सूचीनिलयया विहृतं दिक्षु रुद्धया ॥
पीतं भुक्तं विलसितं हसितं दत्तम् आहृतम् ।
नर्तितं गीतम् उषितम् अनन्तैः प्राणिदेहकैः ॥
अदृश्यया शरीरिण्या मनः पवनदेहया ।
कृतम् आकाशरूपिण्या न तद् अस्ति न यत् तया ॥
मत्तयाशक्तया स्वादुरसांश् चर्वितुम् एतया ।
बालयालानम् आश्रित्य करिण्येव विवल्गितम् ॥
कल्लोलबहलाद्यूनदेहदुष्टनदीष्व् अलम् ।
वेगैर् वैधुर्यकारिण्या मत्तया मकरायितम् ॥
अशक्तया निगिरितुं मेदोमांसं तया हृदि ।
दूनं सुचिरम् अर्थाढ्यवृद्धातुरधिया यथा ॥
गजोष्ट्रमृगहस्त्यश्वसिंहादिहृदि नर्तितम् ।
नर्तक्येव चिरं रङ्गे वेल्लयन्त्याङ्गम् अङ्गके ॥
बहिर् अन्तश् च वायूनाम् एकत्वम् अनुयातया ।
गन्धलेखिकयेवान्तस्स्थितं दुर्लक्ष्ययानया ॥
मन्त्रौषधतपोदानदेवपूजादिभिर् हिता ।
वल्गद्गिरिनदीतुङ्गतरङ्गवद् अपद्रुता ॥
दीपप्रभेवाविज्ञातगतिर् गत्वाशु लीयते ।
अयस्सूच्यां मातरीव तत्र निवृतिम् एति सा ॥
स्ववासनानुसारेण सर्व आस्पदम् ईहते ।
सूचित्वम् एव राक्षस्या सूचित्वेनास्पदीकृतम् ॥
सर्वो विहृत्यापि दिशस् स्वम् एवास्पदम् आपदि ।
जीवसूची लोहसूचीम् इवायाति जडो जनः ॥
एवं प्रयतमाना सा विहरन्ती दिशो दश ।
मानसीं तृप्तिम् आयाति न शारीरीं कदाचन ॥
सति धर्मिणि धर्मा हि सम्भवन्तीह नासति ।
शरीरं दृश्यते यस्य तस्य तत् किल तृप्यति ॥
अथ तृप्तस्य देहस्य स्मरणात् प्राक्तनस्य सा ।
बभूव दुःखिता स्वादुपूर्णोदरसुखार्थिनी ॥
ततः प्राक्तनदेहार्थं करोमि विपुलं तपः ।
इति सञ्चिन्त्य तपसे देशं निर्णीय चात्मना ॥
विवेशाकाशगृध्रस्य हृदयं तरुणस्य सा ।
प्राणमारुतमार्गेण खं मृगेव खखेलगा ॥
स गृध्रस् ताम् अयस्सूचीं काञ्चिद् एवंसमाश्रिताम् ।
चिता तयेरितश् चञ्च्वा वृत्तिं मन इवादधे ॥
सूचीम् आदाय गृध्रो ऽसौ ययौ तच्चिन्तितं गिरिम् ।
अन्तस् सूचीपिशाच्याशु नुन्नो ऽब्द इव वायुना ॥
तत्राजने महारण्ये स्थापयाम् आस ताम् असौ ।
सर्वसङ्कल्परहिते पदे योगीव चेतनाम् ॥
एकेनैवाणुना तेन पादप्रान्तेन मूर्छिता ।
सा प्रतिष्ठापितेवाद्रेर् मूर्ध्नि गृध्रेण देवता ॥
रजःकणबृहच्छृङ्गशिरस्य् एकेन साणुना ।
पादेनातिष्ठद् उद्ग्रीवं शिखेव गिरिमूर्धनि ॥
उत्थितां स्थापितां सूचीं गृध्रान्तर् जीवसूचिका ।
दृष्ट्वा बहिर् विनिर्गन्तुं खगदेहात् प्रचक्रमे ॥
गृध्रप्राणान् निर्जगाम सूची प्रोन्मुखचेतना ।
पवनाद् गन्धलेखेव घ्राणवातलवोन्मुखी ॥
जगाम गृध्रस् स्वं देशं भारं त्यक्त्वेव भारिकः ।
निवृत्तव्याधिर् इव स बभूवान्तरनाकुलः ॥
अयस्सूचितयाधारस् तपसे परिकल्पितः ।
दृढस्य सदृशो ऽर्थानां विनियोगो हि राजते ॥
न ह्य् अमूर्तस्य सिध्यन्ति विनाधारं किल क्रियाः ।
इत्य् आधारैकनिष्ठत्वम् आश्रित्यासौ तपस्स्थिता ॥
जीवसूची लोहसूचीं पिशाची शिंशपाम् इव ।
सर्वतो वलयाम् आस वात्येवामोदलेखिकाम् ॥
ततस् ततःप्रभृत्य् एषा सूची दीर्घतपस्विनी ।
अरण्यान्यां स्थिता शक्र तत्र वर्षगणान् बहून् ॥
तस्या वरार्थं यत्नं त्वं कुरु कर्तव्यकोविद ।
चिरेण सम्भृतं लोकम् अलं दग्धुं हि तत्तपः ॥
इति नारदतश् श्रुत्वा शक्रस् सूचिनिरीक्षणे ।
मारुतं प्रेषयाम् आस दशदिङ्मण्डलान्य् अथ ॥
जगामाथ मरुत्संविद् आत्मना तां निरीक्षितुम् ।
अवमुच्य नभोमार्गं विचचार त्वरान्वितः ॥
सा वातसंवित् क्षिप्रा वै नैव सर्वगता सती ।
परमा चिद् इवाविघ्नं सहसैव ददर्श ह ॥
भूमेस् सप्तसमुद्रान्ते निबद्धां विपुलस्थले ।
लोकालोकाद्रिरशनां नानामणिमयोपलाम् ॥
स्वादूदकाब्धिवलयं सकोटरककुब्गणम् ।
पुष्करद्वीपवलयं तदन्तर्गिरिमण्डलम् ॥
मदिराम्भोधिवलयं तज्जलेचरसंस्थितम् ।
गोमेधद्वीपकटकं तन्मध्यविषयव्रजम् ॥
इक्षूदकाब्धिपरिखां सान्तर्गिरिगणान्तराम् ।
क्रौञ्चद्वीपोर्वरापीठं सान्तर्गतगिरिक्रमम् ॥
क्षीराब्धिमुक्तावलयं समध्यगतनायकम् ।
श्वेताख्यद्वीपवलयं सभूतप्रतिभागकम् ॥
भूमेर् घृतोदवलनं सान्तस्थामरमन्दिरम् ।
कुशद्वीपवृतिव्यासं सुमहाशैलकोटरम् ॥
दध्यम्भोराशिरशनां सान्तश् चरपुरोदराम् ।
शाकद्वीपोर्वराकारं सान्तस्स्थविषयान्तरम् ॥
क्षाराम्भोराशिपरिखां सान्तस्स्थपुरपर्वताम् ।
जम्बुद्वीपमहामेरुं कुलपर्वतसङ्कुलम् ॥
वातस्कन्धेभ्य एवादौ पतत्य् अनिलवेल्लना ।
क्रमेणानेन पर्यन्ते तेनैव प्रसृतेह सा ॥
वायुर् आलोकयन्न् इत्थं जम्बुद्वीपं निरीक्ष्य च ।
तत् प्राप हिमवच्छृङ्गं यत्र सूचिस् तपस्विनी ॥
शृङ्गमूर्ध्नि महत्य् उग्रे सो ऽरण्यानीम् अवाप ताम् ।
द्वितीयाकाशविततां वर्जितां प्राणिकर्मभिः ॥
असञ्जाततृणव्यूहां निकटत्वाद् विवस्वतः ।
रजोमयीम् एव ततां संसाररचनाम् इव ॥
मृगतृष्णानदीसार्थपूरणीयाब्धितां गताम् ।
शक्रकोदण्डसङ्काशमृगतृष्णासरिच्छताम् ॥
अमितोपान्तपर्यन्तां लोकपालेक्षितैर् अपि ।
केवलं पवनस्पन्दप्रचलद्धूलिकुण्डलाम् ॥
सूर्यांशुकुङ्कुमैर् लिप्तां लग्नचन्द्रांशुचन्दनाम् ।
विलासिनीम् इव व्योम्नो वातशीत्कारगायनाम् ॥
सप्तद्वीपसमुद्रमुद्रणसमुच्छूनैकदेशाश्रयं भूपीठं परितो विहृत्य पवनो दीर्घाध्वना जर्जरः ।
तां प्राप्याग्रगिरिस्थलीम् अलिवपुर्व्योमाङ्गलग्नाम् इव व्यात्तानन्तदिगन्तपूरकबृहद्देहो विशश्राम सः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0