मोक्षोपाय · अध्याय 3.72
सूची सासम्भवद्वाणी चिन्तयित्वेत्य् अकल्पयत् ।
पुनस् तद्देहलाभाय भवाम्य् आशु तपस्विनी ॥
इति सञ्चिन्त्य सत्त्वस्थं संहृत्य जनमारणम् ।
तद् एव हिमवच्छृङ्गं जगाम तपसे स्थिरम् ॥
अपश्यद् एवं सूचीत्वं सा तन् मानसम् आत्मनि ।
प्राणवातात्मका प्राणैः प्रविश्य हतमानवा ॥
अथात्मन्य् एव सूचीत्वं पश्यन्त्य् एव मनोमयी ।
प्राणवातशरीरासौ जगाम हिमवच्छिरः ॥
दृढदावानले तत्र सर्वभूतविवर्जिते ।
महाशिलातलक्षोभरूक्षे पांसुविधूसरे ॥
तस्थाव् अभ्युत्थितैकासौ निस्तृणे विपुलस्थले ।
मराव् अकस्मात् सञ्जाता शुष्का तृणशिखा यथा ॥
सूक्ष्मस्यैकस्य पादस्य सार्धेनैवाश्रितोर्वरा ।
स्वसंविदेकपादात्मतपः कर्तुं प्रचक्रमे ॥
सूक्ष्मपादतलेनैषा वसुधारेणुसङ्कटम् ।
निवार्यात्तपदा कृच्छ्राद् यत्नेनोर्ध्वमुखी स्थिता ॥
कृष्णत्वहिंस्रतातैक्ष्ण्या वृत्तास्या पवनाशनैः ।
यत्नात् पदं निबध्नन्ती रेण्वणूपलसङ्कटे ॥
अरण्ये क्षुभितां सर्पीं दूरालोकार्थम् उत्थिताम् ।
पुच्छकोटिस्थितां पातलोलाम् अनुचकार सा ॥
मुखरन्ध्रविनिष्क्रान्ता तस्या भास्करदीधितिः ।
सखी बभूव सूच्याभा पश्चाद्भागैकरक्षिणी ॥
क्षुद्रे ऽपि स्वजनीभूते याति वत्सलतां जनः ।
दीधित्यापि सखीवृत्तं सूच्यास् सूचितयाश्रितम् ॥
बभूव तस्यास् स्वच्छा या द्वितीया तापसी सखी ।
एनस्सूचीव मलिना तया पश्चात् कृतैव सा ॥
सूच्यास्यनिर्गतार्कांशुपाताक्षस्मयकूणितम् ।
पश्चात् स्मयतता दृष्टा सा धूल्यैवात्र केवलम् ॥
धूल्यापि प्रेक्ष्यते या ताम् अपि द्रुमलतादयः ।
महातपस्विनीं सूचीं द्रष्टुं नोत्कण्ठयन्ति के ॥
स्थिरबद्धपदाम् एनां सुमनोवृत्तिम् उत्थिताम् ।
अनिलाः क्षोभयां चक्रुर् मुखनिर्गतभाङ्कृतैः ॥
प्रसूतानि भविष्यामो निगीर्णान्य् अनयाचिरम् ।
कौसुमानि रजांस्य् अस्या इत्य् आस्यं पर्यपूपुरन् ॥
तपोहरेन्द्रप्रहितवातनुन्नामिषं रजः ।
तया त्व् अहृत्त्वव्याजेन न निगीर्णं मुखे ऽपि सत् ॥
न निगीर्णवती तानि रजांसि दृढनिश्चया ।
अन्तस्सारतया कार्यं लघवो ऽप्य् आप्नुवन्ति हि ॥
न पिबन्त्य् आस्यसंस्थानितया पुष्परजांस्य् अपि ।
विस्मयं पवनः प्राप सुमेरून्मूलनाधिकम् ।
आशिरःपिहिता पङ्कैः पूरितापि महाजलैः ॥
विधुतापि बृहद्वातैस् त्रासितापि तडिद्भ्रमैः ।
उद्धूलितापि जलदैः क्षोभिताप्य् अभ्रगर्जितैः ॥
अपि वर्षसहस्रैस् सा चित्तस्थदृढनिश्चया ।
पट्टगण्डकसुप्तेव नाकम्पत तपस्विनी ॥
निवृत्ताया बहिस्स्पन्दाद् अथ काले ऽसहागते ।
विचारयन्त्यास् तस्यास् स्वम् आत्मतत्त्वं स्वचेतनम् ॥
ज्ञानालोकस् समुदभूत् सा परावरदर्शिनी ।
बभूव निर्मला सूची चित्सूची पावनी परम् ॥
जाता विदितवेद्या सा स्वयम् एव तया धिया ।
तपसा दुष्कृते क्षीणे सूची स्वमुखसूचनी ॥
इति वर्षसहस्राणि साकरोद् दारुणं तपः ।
सप्त सप्तमहालोकसन्तापकरम् उन्मुखी ॥
तस्याः कल्पाग्निभीमेन तपसा हिमवान् गिरिः ।
बभूव तेन ज्वलितो जज्वालेव ततो जगत् ॥
कस्येदं तपसाक्रान्तं जगद् इत्य् अथ वासवः ।
नारदं परिपप्रच्छ स तस्याकथयच् च तत् ॥
सप्त वर्षसहस्राणि सूची दीर्घतपस्विनी ।
मया विज्ञातदेहासौ तेनेदं ज्वलितं जगत् ॥
नागाश् श्वसन्ति विदलन्ति नगाः पतन्ति वैमानिका जलदवारिधयः प्रयान्ति ।
शोषं दिशो ऽर्कसहिता मलिनीभवन्ति सूच्येन्द्र पश्य तपसा क्षयमाययैव ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0