मोक्षोपाय · अध्याय 3.74
तत्र तस्योर्ध्वशृङ्गस्य तस्यां मूर्धमहावनौ ।
ददर्श मध्ये तां सूचीं प्रोत्थितां सशिखाम् इव ॥
एकपादं तपस्यन्तीं शुष्यन्तीं चिरम् ऊष्मपाम् ।
सततानशनाच् छुष्कां पिण्डीभूतोदरत्वचम् ॥
सकृद्विकासिनास्येन गृहीत्वैव तम् आनिलम् ।
पश्चात् त्यजन्तीं हृदये ऽप्य् एव मान्तीम् अनारतम् ॥
शुष्कां चण्डांशुकिरणैर् जर्जरां वनवायुभिः ।
अचलन्तीं निजात् स्थानात् स्नपिताम् इन्दुरश्मिभिः ॥
पूर्वं रजोऽणुनैकेन समधिष्ठितमस्तकाम् ।
कृतार्थत्वं कलयता ददतान्यस्य नास्पदम् ॥
अरण्येनेव दत्तार्घां चिराज् जातशिखाम् इव ।
मूर्ध्नीव स्थापितप्राणां जटाकूटवतीम् इव ॥
तां वीक्ष्य पवनस् सूचीं विस्मयाकुलचेतनः ।
प्रणम्यालोक्य चरितं भीतभीत इवाग्रतः ॥
महातपस्विनी सूचि किमर्थं तप्यसे तपः ।
नेति वक्तुं शशाकासौ तत्तेजोराशिनिर्जितः ॥
भगवत्या महासूच्या अहो चित्रं महत् तपः ।
इत्य् एव केवलं ध्यायन् मारुतो गगनं ययौ ॥
समुल्लङ्घ्याभ्रमार्गं तु वातस्कन्धान् अतीत्य च ।
सिद्धवृन्दान्य् अधः कृत्वा सूर्यमार्गम् उपेत्य च ॥
ऊर्ध्वम् एत्य विचारेभ्यः प्राप शक्रपुरान्तरम् ।
सूचिदर्शनपुण्यं तम् आलिलिङ्ग पुरन्दरः ॥
पृष्टश् च कथयाम् आस दृष्टं सर्वं मयेत्य् असौ ।
सहदेवनिकायाय शक्रायास्थानवासिने ॥
जम्बुद्वीपे ऽस्ति शैलेन्द्रो हिमवान् नाम सून्नतः ।
जामाता यस्य भगवान् साक्षाच् छशिकलाधरः ॥
तस्योत्तरे महाशृङ्गपृष्ठे परमरूपिणी ।
स्थिता तपस्विनी सूची तपश् चरति दारुणम् ॥
बहुनात्र किम् उक्तेन वाताद्यशनशान्तये ।
तया स्वोदरसौषिर्यं पिण्डीकृत्य निवारितम् ॥
शान्तसङ्कोचम् ऊष्मार्थं विकास्यास्यं रजोऽणुना ।
तयाद्य स्थगितं शीतवाताशननिवृत्तये ॥
तस्यास् तीव्रेण तपसा तुहिनाकारम् उत्सृजन् ।
अग्न्याकारम् अगो गृह्णन् देवदुस्सेव्यतां गतः ॥
तद् उत्तिष्ठाशु गच्छामस् सर्व एव पितामहम् ।
तद्वरार्थम् अनर्थाय विद्धि तद्दुस्सहं तपः ॥
इति वातेरितश् शक्रस् सह देवगणेन सः ।
जगाम ब्रह्मणो लोकं प्रार्थयाम् आस तं प्रभुम् ॥
सूच्या अहं वरं दातुं गच्छामि हिमवच्छिरः ।
ब्रह्मणेति प्रतिज्ञाते शक्रस् स्वर्गम् उपाययौ ॥
एतावताथ कालेन सा बभूव च पावनी ।
सूची निजतपस्तापतापितामरमन्दिरा ॥
मुखरन्ध्रस्थितार्कांशुदृशा स्वच्छाययैव सा ।
विस्मयिन्या विवर्तिन्या आदिनान्तम् उपेक्षिता ॥
कौशेयसूच्या तृणवन् मेरुस् स्थैर्येण निर्जितः ।
मज्जनित्र्येति वृद्ध्येव युक्तयाद्यन्तयोर् दिने ॥
मध्याह्ने तापभीत्येव विशन्त्या मातुर् अन्तरम् ।
अन्यदा गौरवाद् दृष्ट्या दूरतः प्रेक्ष्यमाणया ॥
सा ताम् अवेक्षिते ऽक्ष्णारात् तापाद् अङ्गे निमज्जति ।
सङ्कटे विस्मरत्य् एव जनो गौरवसत्क्रियाम् ॥
छायासूचिस् तापसूचिस् तयेत्य् आत्मतृतीयया ।
त्रिकोणं तपसा पूतं वाराणस्यास् समं कृतम् ॥
गतास् तेन त्रिकोणेन त्रिवर्णपरिखावता ।
वायवः पांसवो ये ऽपि ते परां मुक्तिम् आगताः ॥
विदितपरमकारणाथ जाता स्वयम् अनु चेतनसंविदं विचार्य ।
स्वमननकलनानुसार एकस् त्व् इह हि गुरुः परमो न राघवान्यः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0