मोक्षोपाय · अध्याय 3.70
अथ वैडूर्यशृङ्गाभा सा महाकृष्णा राक्षसी ।
कज्जलाम्बुदलेखेव तानवं गन्तुम् उद्यता ॥
बभूवाभ्रोपमाकारत्यागे विटपिरूपिणी ।
पुम्प्रमाणा ततो ऽप्य् आसीत् ततो ऽभूद् धस्तमात्रकम् ॥
ततः प्रादेशमात्राभा ततो ऽप्य् अङ्गुलरूपिणी ।
ततो माषशिमीतुल्या ततस् सूची बभूव ह ॥
ततः कौशेयसूचीत्वं पद्मकेसरसुन्दरम् ।
प्राप्ता सा शिखराकारा सङ्कल्पाद्रिर् इवातता ॥
रराज सूचिका कृष्णा श्लक्ष्णायसकलामयी ।
पुर्यष्टकेन वलिता व्योमगा वातवाहिनी ॥
सूचिर् दृश्यत एवासौ न त्व् अयो नाम विद्यते ।
संविद्भ्रमकलैवैषा स्वप्नसूचीव लक्ष्यते ॥
रत्नसूचीव मसृणा मनोमननसंयुता ।
वैडूर्यरश्मिलेखेव दण्डसन्तानसुन्दरी ॥
कज्जलाम्भोजकिञ्जल्कलतेव पवनाहृता ।
सूक्ष्मरन्ध्रेक्षणस्वच्छदृष्टव्योमकनीनिका ॥
स्वमुखग्राह्यसूत्रेण श्लक्ष्णपुच्छशिखाणुना ।
दृश्या वैपुल्यशान्त्यर्थं परं मौनव्रतं गता ॥
सुदूराद् दीपवद् दृष्टं सुतन्मात्रत्वम् आगतम् ।
दूराद् एव मनोज्ञेन प्रोद्गिरन्ती मुखेन खम् ॥
कुञ्चितेक्षणसन्दृश्यदीर्घदीपांशुकोमला ।
सद्यस्स्नानसमुच्छूनभालबालविलासिनी ॥
तन्तुर् बिसाद् इवोड्डीना बाह्यसञ्चारकौतुकात् ।
ब्रह्मनाडिर् इवोद्युक्ता बहिर् इन्द्वंशसुन्दरी ॥
नियतेन्द्रियशक्तिस् स्वा जीवेनेव बहिष्कृता ।
बौद्धतीर्थिकविज्ञानसन्तानवद् अलक्षिता ॥
शून्यसिद्धान्तशिसिका रन्ध्रानिललवाभया ।
क्षीणदीपांशुसूच्येव तीक्ष्णयानुपलभ्यया ॥
ग्रासार्थं सूचितां याता स चास्या नोपयुज्यते ।
विचारितं तया नैतद् अहो मौर्ख्यविजृम्भितम् ॥
साग्रा सञ्चिन्तयाम् आस न सूची तुच्छरूपताम् ।
चैत्तम् ईहितम् एवैकं पश्यन्त्य् आस्ते यथासुखम् ॥
अविचार्यैव सूचित्वं तया मूढधियार्थितम् ।
नानार्थबुद्धेस् स्फुरति पूर्वापरविचारणा ॥
सार्थक्रियो ऽग्र्यसामर्थ्यो याति भावनयान्यताम् ।
पदार्थो ऽभिमतार्थाढ्यां निश्श्वासेनेव दर्पणः ॥
सूचीभावं प्रपन्नायास् त्यजन्त्याः पीवरं वपुः ।
महामरणम् अप्य् अस्या राक्षस्यास् सुसुखं स्थितम् ॥
एकवस्त्वनुरागाणाम् अहो नु विषमा गतिः ।
देहो ऽपि तृणवत् त्यक्तो राक्षस्या निजयेच्छया ॥
एकवस्त्वतिगर्वेण नश्यन्त्य् अन्या हि संविदः ।
राक्सस्या ग्रासगर्वेण देहनाशो ऽपि नेक्षितः ॥
नाशो ऽपि सुखयत्य् अज्ञम् एकवस्त्वतिरागिणम् ।
सूचीभूता विदेहापि परितुष्टैव राक्षसी ॥
अन्या बभूव तल्लग्ना सा तथा जीवसूचिका ।
व्योमात्मिका निराकारा व्योमवृत्तिशरीरका ॥
तेजस्तन्तुप्रवाहाभा प्राणतन्तुमयात्मिका ।
शूलसंवेदनाकारा तद्रन्ध्रार्कांशुसुन्दरी ॥
पृथक्स्थेवासिधारा सा परमाण्वावलीव च ।
कौसुमी गन्धलेखेव कलाकलनरूपिणी ॥
पापात्मिका मनोवृत्तिस् सा हि तस्यास् तथा स्थिता ।
परप्राणदशावेधपरमार्थपरायणा ॥
एवम् अस्यास् तनुर् जाता सूचिद्वयमयी हि सा ।
नीवारशूकवत् तन्वी कर्पासांशुसुपेलवा ॥
तनुद्वयेन तेनासौ प्रविश्य हृदयं नृणाम् ।
वेधयन्ती ततः क्रूरा प्रबभ्राम दिशो दश ॥
सर्वस् स्वसङ्कल्पवशाल् लघुर् भवति वा गुरुः ।
कर्कट्योग्रं वपुस् त्यक्त्वा सूचीत्वम् उररीकृतम् ॥
तुच्छो ऽप्य् अर्थो ऽल्पसत्त्वानां यात्य् अतिप्रार्थनीयताम् ।
सूचीवृत्तपिशाचीत्वं राक्षस्या तपसार्जितम् ॥
अपि पुण्यशरीराणां जातिबन्धो न शाम्यति ।
अनुसूचि पिशाचीत्वं राक्षस्या समुपार्जितम् ॥
तस्यां दिगन्तभ्रमणे प्रवृत्तायां सहानिलैः ।
तत्रैव सा तनुस् स्थूला गलिता शारदाभ्रवत् ॥
कस्यचिद् विवशाङ्गस्य क्षीवस्य विपुलस्य वा ।
प्रविश्यान्तर् वातसूची भवत्य् अति विषूचिका ॥
कस्यचित् तनुदेहस्य स्वच्छस्य सुधियो ऽपि च ।
प्रविश्य जीवसूचित्वे भवत्य् अन्तर् विषूचिका ॥
एवं क्वचित् तृप्यति सा दुर्बुद्धिहृदयस्थिता ।
क्वचिद् उच्छिद्यते पुण्यैर् मन्त्रौषधिकृतक्रमैः ॥
आसीद् बहूनि वर्षाणि भ्रमणैकपरायणा ।
देहद्वयेन गच्छन्ती व्योम्नि भूमितले तथा ॥
रजस्तिरोहिता भूमौ हस्ते ऽङ्गुलितिरोहिता ।
प्रभातिरोहिता व्योम्नि वस्त्रे सूत्रतिरोहिता ॥
अन्तस्स्था स्नायुसरिति दुर्भगे पांसुपाण्डुनि ।
शुष्करेखासरित्खाते सूक्ष्मरेखाजरत्तृणे ॥
अर्थहीने गतच्छाये शून्ये उच्छ्वासकारिणि ।
मक्षिकावातहरणे श्रीवृक्षपरिवर्जिते ॥
स्थूलास्थिग्रन्थिवलिते नित्यकम्पस्फुरत्तले ।
अनात्मीयाच्छनीहारशुद्धांशुककृतभ्रमे ॥
किणस्थाण्वग्रविश्रान्तमक्षिकाविङ्कवायसे ।
रौक्ष्यरूढरसद्वाते विलोलाङ्गुलिशाखिनि ॥
मलाभ्रलेखासंसारे स्वाङ्गुलिव्रणगर्तके ।
स्वेदावश्यायदुष्ष्ठ्यूते पर्ववाल्मीकपर्वते ॥
कचत्पांसुजलभ्रान्तौ नखाजगरकर्कशे ।
क्वचित् क्वचित् सरिद्भीतभीतयूकाकुपान्थके ॥
विरला शुष्कसन्दृष्टपिटकापूतपल्वले ।
मध्यस्थलेखामार्गौघे शीतश्वसनगोचरे ॥
ग्रस्तयूकानरौघासृक्पूर्णसृक्विनखास्यताम् ।
दधताङ्गुष्ठयक्षेण क्रान्ते सर्वत्र पातिना ॥
नानाविरचना चित्रपटपत्तनगामिनी ।
गमागमपरिश्रान्ता तत्रात्यन्तचिराश्वगा ॥
नगरान् नगरे न्यस्तसूत्रभाण्डिकभारिणी ।
प्राप्ते करतलारण्ये बलीवर्दविवर्तिनी ॥
गुप्ते विश्रमणायैव मनाक् करपरिच्युता ।
तन्तुप्रोतमुखाकृष्टिखिन्ना क्वापि विशीर्यते ॥
वेधनं कर्णसंश्लिष्टा कठिनापि न साकरोत् ।
न हि तीक्ष्णो बहिः कार्ये नीचत्वं विजहाति चेत् ॥
सायस्सूची मनस्सूच्या वलिता विजहार ह ।
दिक्ष्व् अप्स्व् इव शिलागुर्वी नावङ्गवलिता सती ॥
विससार दिगन्तेषु सान्तःकरणसत्तया ।
तृणलेखेव पवनशक्त्या संसृतिरूपया ॥
मुखेन सूक्ष्मसूत्रान्तं त्यजन्ती सुशिरोम्भने ।
परापूरोद्यमेनाशु जातेव हृदयान्विता ॥
परापूररसेनेव सूच्या हृत् सुविकासितम् ।
अनारतवमत् सूक्ष्मसूत्रान्तम् इव सूम्भने ॥
तीक्ष्णैर् अपि चिरक्षीणः पूर्यते निर्विचारणम् ।
दृष्टान्तो ऽत्र क्षणात् सूच्या पूरितो जर्जरः पटः ॥
सूत्रांशुनिर्गतैर् योग्यं सूच्या हृदयम् अर्जितम् ।
परपूरणयैवाशु तेजश् च कचितार्करुक् ॥
अकस्मात् तेन रूढेण क्षीणपूरणरूपिणा ।
हृदये राक्षसी सूची कर्मणातप्यतेव सा ॥
वेधं खुररवेणैव करोतीषत्प्रचारिता ।
प्रकृतेन निजेनापि खेदाय व्यवहारिता ॥
सञ्चारयति वस्त्रेषु सूत्रं चतुरवेधना ।
आदीर्घं वासनातन्तुं शरीरेष्व् इव वेदना ॥
सञ्चार्यमाणा वेगेन धावतीवाक्षिपाटने ।
अदर्शितमुखा एव दुर्जना मर्मवेधिनः ॥
स्कन्धवस्त्रजवप्रोता वेधाक्ष्णा सुखम् ईक्षते ।
कथम् एनं भिनद्मीति तीक्ष्णानाम् एतद् ईप्सितम् ॥
समम् एव च कौशेये क्षौमे च वसने शिता ।
जडः क इव वा नाम गुणागुणम् उपेक्षते ॥
सा दधानोज्ज्वलं सूत्रम् अङ्गुष्ठाङ्गुलिपीडिता ।
अन्त्रतन्तुम् इवानन्तम् उद्गिरन्ती निरीक्षते ॥
तीक्ष्णास्यहृदयत्वेन सरसेषु न केषुचित् ।
सूत्रितापि पदार्थेषु विशत्य् अलसगामिनी ॥
अगर्दभीमुखप्रोता सुतीक्ष्णापि न चापि धीः ।
अवेधिताप्य् अहृदया राजपुत्र्य् अपि दुर्भगा ॥
विना परापकारेण तीक्ष्णे सरणम् ईहते ।
वेधनाद् रोधिता सूचिः कर्णपाशे प्रलम्बते ॥
शेते किं चारु मैत्र्येव बुसे करपरिच्युता ।
स्वरूपसदृशं मित्रं कस्मै नाम न रोचते ॥
मिश्रिता मूढचित्तानां वृत्तिभिः प्राकृते जने ।
तिष्ठत्य् आत्मसमां को हि सङ्गतिं त्यक्तुम् इच्छति ॥
भवत्य् अयस्कारचितौ सन्त्यक्तान्तर्धिगामिनी ।
भस्त्रावातैर् विवलिता गगनोड्डयनोन्मुखी ॥
प्राणापानप्रवाहस्था हृत्पद्मान्तरगामिनी ।
दुःखशक्तिर् महाघोरा जीवशक्तिर् इवोद्यता ॥
समानवैपरीत्येन समानसमगामिनी ।
उदानविपरीतत्वाद् उदानसमगामिनी ॥
व्यानस्था व्याधिजननी सर्वाङ्गरसचारिणी ।
हृत्कण्टशूलोत्प्लवनवैवर्ण्योन्मादकारिणी ॥
प्रायस् सौचिकहस्तस्था सुप्तोर्णागण्डकोटरे ।
बालहस्ते ऽङ्गुलीतल्पवेधनैकविलासिनी ॥
पादप्रविष्टा रुधिरपानपाजिरविस्तृता ।
तुष्यत्य् अतितरां तुच्छभोजना तुच्छभोजनैः ॥
शेते कर्दमकोशस्था चिरकालम् अधोमुखी ।
इच्छानुरूपम् आसाद्य क इवास्पदम् उज्झति ॥
क्रौर्येणापहृतात्मानं दर्शयत्य् उपवेधनैः ।
उत्सवाद् अपि नीचानां कलहो हि सुखायते ॥
कपर्दिका वलभ्यान्तरात्मानं बहु मन्यते ।
दुरुच्छेदा हि भूतानाम् अहङ्कारचमत्कृतिः ॥
श्वेतिकायुग्मलभ्येन साहृतेनात्मना नृणाम् ।
मृतिम् आधास्यते चित्रा स्वार्थे नोदेति मूढता ॥
वस्त्रतन्तुविभेदेन परमारणम् आशु मे ।
इदं सम्पद्यत इति भवत्य् अत्यन्तनिर्मला ॥
स्थापिता मलम् आदत्ते सूची यद् घर्षणं विना ।
परापवेधविरहाद् व्याधिस् सो ऽस्याः प्रवर्तते ॥
सूक्ष्मदृश्या वेधदात्री क्षणाद् विस्मृतिम् एति वा ।
तीक्ष्णा भेदकरी क्रूरा सूचिचेष्टेव दैविकी ॥
तन्तुवेधनमात्रेण हतो ऽन्य इति तोषिता ।
दुर्जनो येन तेनैव नाशितो वेत्ति दुष्टताम् ॥
पङ्के मज्जति याति खे विहरति व्योमानिलैर् दिक्तटाञ् शेते पांसुषु भूतले पथि गृहे हट्टे वने ऽन्तःपुरे ।
हस्ते श्रोत्रसरोरुहे ऽथ मृदुनि स्वस्थोर्णिकागण्डके रन्ध्रे काष्ठमृदां च नाडिहृदये द्रव्यात्मसत्तैव सा ॥
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0