भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.71

3.71.1

अथ सा बहुकालेन कर्कटी नाम राक्षसी ।
सर्वेषां नरमांसानां नूनं तृप्तिम् उपाययौ ॥

3.71.2

पूर्वेणैव किलाह्ना सा तृप्ता रुधिरबिन्दुना ।
सूच्यां किम् इव मात्य् अन्तस् तृष्णासूचिस् तु दुर्भरा ॥

3.71.3

चिन्तयाम् आस हा कष्टं किम् इदं सूचितां गता ।
सूक्ष्मास्मि हतशक्तिश् च मयि ग्रासो न माति च ॥

3.71.4

क्व मे तानि विशालानि गतान्य् अङ्गानि दुर्धियः ।
कालमेघविलासानि वने शीर्णानि पर्णवत् ॥

3.71.5

मय्य् अस्यां मन्दभाग्यायां मनाग् अपि न माति च ।
स्वादुमांसरसग्रासो वसावासित आसवः ॥

3.71.6

पङ्के ऽन्तर् विनिमज्जामि पतामि धरणीतले ।
हतास्मि जनपदौघैस् तस्करैर् दलितास्मि च ॥

3.71.7

हा हताहम् अनाथाहम् अनाश्वासा निरास्पदा ।
दुःखाद् दुःखे निमज्जामि सङ्कटात् सङ्कटे ऽपि च ॥

3.71.8

न मे सखी न मे दासी न मे माता न मे पिता ।
न मे बन्धुर् न मे भृत्यो न मे भ्राता न मे सुतः ॥

3.71.9

न मे देहो न मे स्थानं न मे कश्चित् समाश्रयः ।
नैकस्थानसमाश्वासो भ्रमामि वनपर्णवत् ॥

3.71.10

आपदां धुरि तिष्ठामि निविष्टास्मि सुदारुणे ।
अभावम् अभिवाञ्छामि सो ऽपि सम्पद्यते न मे ॥

3.71.11

स्वको देहः परित्यक्तो मूढचेतनया मया ।
काचबुद्ध्या विमूढेन हस्ताच् चिन्तामणिर् यथा ॥

3.71.12

आपतन्ती मनोमोहं पूर्वम् आपत् प्रयच्छति ।
पश्चाद् अनर्थविस्ताररूपेण प्रविजृम्भते ॥

3.71.13

बुसेषु परिसुप्तास्मि मार्गेषु लुलितास्मि च ।
व्रणेषु प्रेषितास्म्य् अन्तर् हा मे दुःखपरम्परा ॥

3.71.14

परप्रेष्यकरी नित्यं परसञ्चारचारिणी ।
परं कार्पण्यम् आयाता जाता परवशास्म्य् अहम् ॥

3.71.15

भृतिं करोमि तुच्छैव सापि वेधनरूपिणी ।
अहो ममाल्पभाग्याया दौर्भाग्यम् अपि दुर्लभम् ॥

3.71.16

उत्थितस् स्फारवेतालः कुर्वन्त्याश् शान्तिम् एव मे ।
सर्वनाशो धनादाने प्रवृत्ताया ममोदितः ॥

3.71.17

किम् अन्धया मया तादृक् सन्त्यक्तं तन् महावपुः ।
यथा नाशेन वा भाव्यं तथोदेत्य् अशुभा मतिः ॥

3.71.18

माम् अवान्तरनिर्दग्धां न्यूनां कीटकणाद् अपि ।
उद्धरिष्यति को नाम पांसुराशिषु हारिताम् ॥

3.71.19

विविक्तमनसां बुद्धौ क्व स्फुरन्ति हताशयाः ।
ग्राममार्गतृणानीव गिरेर् उपरि वासिनाम् ॥

3.71.20

स्थितानाम् अज्ञसम्बोधे कथम् अभ्युदयो भवेत् ।
अण्व् अप्य् उदेति प्राकाश्यं न खद्योतानुसेविनः ॥

3.71.21

अतः कियन्तं नो जाने कालम् आवलितापदम् ।
मयापच्छ्वभ्रगर्तेषु लुठितव्यं हतेहया ॥

3.71.22

कदा स्याम् अञ्जनमहाशैलपुत्रकरूपिणी ।
द्यावापृथिव्योर् वैडूर्यस्तम्भताम् अनुतिष्ठती ॥

3.71.23

मेघमालासमभुजा स्थिरविद्युच्छटेक्षणा ।
नीहारजालवसना प्रोच्चकेशासिताम्बरा ॥

3.71.24

लम्बोदराभ्रसन्दर्शप्रनर्तितशिखण्डिनी ।
लम्बलोलस्तनी श्यामदेहपातद्रवत्सुरा ॥

3.71.25

हासभस्मच्छटाच्छन्नसूर्यमण्डलरोधिनी ।
कृतान्तग्रसनोद्युक्तकृत्यैकाकृतिधारिणी ॥

3.71.26

कुणालोलूखलबृसीशूर्पस्रग्दामभारिणी ।
पर्वतात् पर्वते शृङ्गे न्यस्य पादं विहारिणी ॥

3.71.27

कदा मे स्याद् उरुश्वभ्रभासुरं तन् महोदरम् ।
कदा मे स्याच् छरन्मेघमेदुरा नखरावली ॥

3.71.28

कदा मे स्यान् महारक्षोविद्रावणकरं स्मितम् ।
स्वस्फिग्वाद्यैर् अरण्यान्यां कदा नृत्येयम् उन्मदा ॥

3.71.29

वसासवमहाकुम्भैर् मृतमांसास्थिसञ्चयैः ।
कदा करिष्ये विरतं मधुरोदरपूरणम् ॥

3.71.30

कदा पीतमहालोकरुधिरा क्षीवतां गता ।
भवेयम् उदितोन्नृत्ता मुद्रिता निद्रया ततः ॥

3.71.31

मयैव कुतपोवह्नौ तद् दग्ध्वा भासुरं वपुः ।
भस्मत्वं कनकेनेव सूचित्वम् उररीकृतम् ॥

3.71.32

क्व किलाञ्जनशैलाभं वपुर् भरितदिक्तटम् ।
क्व मूषिकाखुरसमं सूचित्वं तृणपेलवम् ॥

3.71.33

त्यजत्य् आशु मृद् इत्य् अज्ञः प्राप्यापि कनकाङ्गदम् ।
मया सूचित्वलोभेन सन्त्यक्तं भासुरं वपुः ॥

3.71.34

हा महोदर विन्ध्याद्रिसनीहारगुहोपमम् ।
अद्य नान्तं करोषि त्वं कथं सिंहैणहस्तिनाम् ॥

3.71.35

हा भुजौ भरनिर्भुग्नशिखरौ शशभृन्नखौ ।
पुरोळाशधिया चन्द्रं कथम् अद्य न धावथः ॥

3.71.36

हा वक्षः काचवैडूर्यगिरीन्द्रतटसुन्दर ।
नाद्य सिंहादियौकं तद् धृतं रोमवनं त्वया ॥

3.71.37

हा नेत्रे कृष्णरजनीज्वलच्छुष्कवनोज्ज्वले ।
कस्मान् न मे भूषयथो दृग्ज्वालामालया दिशः ॥

3.71.38

हा स्कन्धबन्धो नष्टो ऽसि विभ्रष्टो ऽसि महीतले ।
कालेन विनिविष्टो ऽसि निघृष्टो ऽसि शिलोदरे ॥

3.71.39

हा मुखेन्दो तपसि किं नाद्य त्वद्दन्तरश्मिभिः ।
कल्पाग्निदग्धसंशान्तचन्द्रबिम्बमनोहर ॥

3.71.40

हा हा हस्तौ महाकारौ ताव् अद्य क्व गतौ मम ।
सम्पन्ना किम् अहं सूची मक्षिकाखुरदोलिता ॥

3.71.41

हा भगोग्रकरञ्जाढ्यसुखदश्वभ्रशोभन ।
विन्ध्याद्र्यरण्यविपुलनितम्बामलबिम्बक ॥

3.71.42

क्वाकारो ऽम्बरपूरकः क्व च नवं तुच्छात्मसूचीवपू रोदोरन्ध्रसमः क्व चास्यकुहरः क्वेदं च सूचीमुखम् ।
क्व ग्रासो बहुमांसभारबहलः क्वाब्बिन्दुना रोधनं सूक्ष्मास्य् एतद् अहो मयैव रचितं स्वात्मक्षये नाटकम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc