भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.69

3.69.1

अथ वर्षसहस्रेण तां पितामह आययौ ।
दारुणं हि तपस् सिद्ध्यै विष्ठाग्निर् अपि शीतहा ॥

3.69.2

मनसैव प्रणम्यैनं सा तथेति स्थिता सती ।
को वरः क्षुत्क्षयायालम् इति चिन्तान्विताभवत् ॥

3.69.3

अनायसी चायसी च स्याम् अहं जीवसूचिका ।
अस्योक्त्या द्विविधा सूचीभूत्वालक्ष्या विशाम्य् अहम् ॥

3.69.4

प्राणेन सह सर्वेषां हृदयं सुरभिर् यथा ।
यथाभिमतम् एतेन ग्रसेयं सकलं जनम् ॥

3.69.5

क्रमेण क्षुद्विनाशाय क्षुद्विनाशः परं सुखम् ।
इति सञ्चिन्तयन्तीं ताम् उवाच कमलोद्भवः ॥

3.69.6

अन्यादृष्टस् तया दृष्टस् त्व् अमृताभ्ररवोपमम् ।
पुत्रि कर्कटिके रक्षःकुलशैलाभ्रमालिके ॥

3.69.7

उत्तिष्ठ त्वयि तुष्टो ऽस्मि गृहाणाभिमतं वरम् ।
भगवन् भूतभव्येश स्याम् अहं जीवसूचिका ॥

3.69.8

अनायसी चायसी च विकल्पय च मे वरम् ।
एवम् अस्त्व् इति ताम् उक्त्वा पुनर् एव पितामहः ॥

3.69.9

सूचिकाम् आह सर्गे त्वं भविष्यसि विषूचिका ।
सूक्ष्मया मायया सर्वलोकहिंसां करिष्यसि ॥

3.69.10

दुर्भोजना दुरारम्भा मूर्खा दुस्स्थितयश् च ये ।
दुर्देशवासिनो धृष्टास् तेषां हिंसां करिष्यसि ॥

3.69.11

प्रविश्य हृदयं प्राणैः पद्मप्लीहादिवेधनात् ।
वातलेखात्मिका व्याधिर् भविष्यसि विषूचिका ॥

3.69.12

सगुणं विगुणं वापि जनम् आसादयिष्यसि ।
गुणिनि त्वच्चिकित्सार्थं मन्त्रो ऽयं तु मयोच्यते ॥

3.69.13

हिमाद्रेर् उत्तरे पार्श्वे कर्कटी नाम राक्षसी ।
विषूचिकाभिधाना या कन्या सा न्यायबाधिका ॥

3.69.15

इति मन्त्रं महामन्त्रं न्यस्य वामकरोदरे ।
मार्जयेद् आतुराकारं तेन हस्तेन संयतः ॥

3.69.16

हिमशैलाभिमुख्येन विद्रुतां तां विचिन्तयेत् ।
कर्कटीं कर्कशाक्रन्दां मन्त्रमुद्गरचूर्णिताम् ॥

3.69.17

आतुरं चिन्तयेच् चन्द्रे रसायनह्रदे स्थितम् ।
अजरामरणं मुक्तं सर्वाधिव्याधिविभ्रमैः ॥

3.69.18

साधको हि शुचिर् भूत्वा स्वाचान्तस् सुसमाहितः ।
क्रमेणानेन सकलाः प्रोच्छिनत्ति विषूचिकाः ॥

3.69.19

इति गगनगतस् त्रिलोकनाथो गगनगसिद्धगृहीतसिद्धमन्त्रः ।
गत इभगतशक्रवन्द्यमानो निजपुरम् अक्षयम् अग्र्यम् उज्ज्वलश्रि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc