मोक्षोपाय · अध्याय 3.67
मनस्त्वयोग्यो जीवो ऽयं को भवेत् परमात्मनः ।
कथं वास्मिन् समुत्पन्नः को वायं वद मे पुनः ॥
समस्तशक्तिकचितं ब्रह्म सर्वेश्वरं सदा ।
ययैव शक्त्या स्फुरति प्राप्तां ताम् एव पश्यति ॥
स्वयं यां वेत्ति सर्वात्मा चितिं चेतनरूपिणीम् ।
सा प्रोक्ता जीवशब्देन सैव सङ्कल्पकारिणी ॥
स्वभावकारणं द्वित्वे पूर्वं सङ्कल्प्य चित् स्वयम् ।
नानाकारणतां पश्चाद् याति जन्ममृतिस्थितौ ॥
एवं स्थिते मुनिश्रेष्ठ दैवं नाम किम् उच्यते ।
किम् उच्यते तथा कर्म कारणं च किम् उच्यते ॥
स्पन्दास्पन्दस्वभावं हि चिन्मात्रम् इह विद्यते ।
खे वात इव तत्स्पन्दात् सोल्लासं शान्तम् अन्यथा ॥
चितश् चित्त्वं भावितं सत् स्पन्द इत्य् उच्यते बुधैः ।
दृश्यत्वाभावितं चैतद् अस्पन्दनम् इति स्मृतम् ॥
स्पन्दात् स्फुरन्ती चित् सर्गो निस्स्पन्दा ब्रह्म शाश्वतम् ।
जीवकारणकर्माद्याश् चित्स्पन्दस्याभिधास् स्मृताः ॥
य एवानुभवात्मायं चित्स्पन्दो ऽस्ति स एव हि ।
जीवकारणकर्माख्यो बीजम् एतद् धि संसृतेः ॥
कृतद्वित्वचिदाभासवशाद् देह उपस्थिते ।
सङ्कल्पविविधार्थत्वं चित्स्पन्दो ऽनुभवंश् चिरात् ॥
नानाकारणतां यातश् चित्स्पन्दो मुच्यते चिरात् ।
कश्चिज् जन्मसहस्रेण कश्चिद् एकेन जन्मना ॥
स्वभावकारणाद् द्वित्वं चित् समेत्याथ गच्छति ।
स्वर्गापवर्गनरकबन्धकारणतां शनैः ॥
हेम्नीव कटकादित्वं काष्ठलोष्टसमस्थितौ ।
देहे तिष्ठति नानात्वं जडे भावविकारजम् ॥
अजातम् अप्य् असद्रूपं पश्यतीमं भ्रमं मनः ।
जातस् स्थितो मृतो ऽस्मीति भ्रमान्तःपतनं यथा ॥
अहं ममेत्य् असद्रूपम् एव चेतः प्रपश्यति ।
अदृष्टपरमार्थत्वाद् आशाविवशसंस्थिति ॥
मथुराधिपते राज्ञो यथा श्वपचसम्भ्रमः ।
आसीद् एवं हि चित्तस्य स्फुरतीयं जगत्स्थितिः ॥
सर्वम् एव मनोमात्रभ्रान्त्युल्लासविजृम्भणम् ।
इदं जीवतया नाम प्रस्फुरत्य् अम्बुभङ्गवत् ॥
शिवात् प्राक् कारणात् पूर्वं चिच् चेत्यकलनोन्मुखी ।
उदेति सौम्याज् जलधेः पयस्स्पन्दो मनाग् इव ॥
स्फुरणाज् जीवचक्रत्वम् एत्य चित्तोर्मितां गतम् ।
चिद्वारि ब्रह्मजलधौ कुरुते सर्गबुद्बुदम् ॥
स्वच्छसौम्यसमस्येषद् यत् सिंहस्येव जृम्भणम् ।
ब्रह्मणस् स चिदाभासस् तत् सचेत्यम् इव स्वयम् ॥
चित् सचेत्योच्यते जीवस् स सङ्कल्पान् मनो भवेत् ।
बुद्धिश् चेत्यम् अहङ्कारो मायेत्याद्यभिधं ततः ॥
तन्मात्रकल्पना पूर्वं तनोतीदं जगन् मनः ।
असत्यं सत्यसङ्काशं गन्धर्वनगरं यथा ॥
यथा शून्यदृशस् तारामुक्तावल्यादिदर्शनम् ।
यथा स्वप्ने भ्रमश् चैव तथा चित्तस्य संसृतिः ॥
शुद्ध आत्मा नित्यतृप्त इव शान्तस् समस्थितिः ।
अपश्यन् पश्यतीवेमं चित्ताख्यं स्वप्नविभ्रमम् ॥
संसृतिर् जाग्रद् इत्य् उक्तं स्वप्नं विदुर् अहङ्कृतिम् ।
चित्तं सुषुप्तभावस् स्याच् चिन्मात्रं तुर्यम् उच्यते ॥
अत्यन्तशुद्धचिन्मात्रे परिणामश् चिराय यः ।
तुर्यातीतं पदं यत् स्यात् तत्स्थो भूयो न शोचति ॥
तस्मिन् सर्वम् उदेतीदं तस्मिन्न् एव प्रलीयते ।
तत्रैव तनुते चेदं दृष्टौ मुक्तावली यथा ॥
अरोधकत्वात् खं हेतुर् यथा वृक्षसमुन्नतेः ।
अकर्त्र्य् अपि तथा कर्त्री चेतनाच् चिज् जगत्स्थितेः ॥
सन्निधानाद् यथा लोहः प्रतिबिम्बस्य हेतुताम् ।
यात्य् आदर्शस् तथैवायं चिन्मयो ऽप्य् अर्थवेदने ॥
बीजम् अङ्कुरपत्त्रादियुक्त्या यद्वत् फलं भवेत् ।
चिन्मात्रं चेत्यजीवादियुक्त्या तद्वन् मनो भवेत् ॥
स्वतो बीजं फलाद्य् उज्झद् यथा बीजं पुनर् भवेत् ।
तथा चिच् चेत्यचित्तादि त्यक्त्वा स्वास्थ्येन तिष्ठति ॥
यद्य् अप्य् अबोधे बोधे च बीजान्तस् तरुबीजयोः ।
इव भेदो ऽस्ति न जगद्ब्रह्मणोर् अपि चित्तयोः ॥
तथापि व्यज्यते बोधे सत्य् आत्मत्वम् अखण्डितम् ।
रूपश्रीर् इव दीपेन चिन्मात्रालोकम् एति यत् ॥
यद् यन् निखन्यते भूमेर् यथा तत् तन् नभो भवेत् ।
या या विचार्यते ऽविद्या तथा सा सा परं भवेत् ॥
स्फटिकान्तस् सन्निवेशस् स्वाणूनां वेदनाद् यथा ।
शुद्धो ऽपि भाति नानेव तथा ब्रह्मोदरं जगत् ॥
ब्रह्म सर्वं जगद् वस्तु पिण्ड एकम् अखण्डितम् ।
फलपत्त्रलतागुल्मपीठं बीजम् इव स्थितम् ॥
अहो चित्रं जगद् इदम् असत् सद् इव भासते ।
अहो बृहद् अहो स्वच्छम् अहो स्फुटम् अहो तनु ॥
ब्रह्मणि प्रतिभासात्मा तन्मात्रगणगोलकः ।
अवश्यायकणाभो ऽसौ यथा स्फुरति तच् छ्रुतम् ॥
यथासौ याति वैमुख्यं यथा भवति चात्मभूः ।
यथा स्वभावसिद्धिर् वा तथा कथय मे प्रभो ॥
अत्यन्तासम्भवद् रूपम् अनन्यत् स्वस्वभावतः ।
अत्यन्ताननुभूतं सत् स्वनुभूतम् इवाग्रतः ॥
हुल्लस् सभुल्लो घुल्लाङ्घ इति बालहृदि स्फुटम् ।
यथोदेति तथोदेति परे ब्रह्मणि जीवता ॥
मानमेयात्मिकाशुद्धासत्यैव सत्यवत् स्थिता ।
भिन्नेव च न भिन्नास्माद् ब्रह्मणो बृंहणात्मिका ॥
यथा ब्रह्म भवत्य् आशु जीवः कलनजीवितः ।
तथा जीवो भवत्य् आशु मनो मननवेदनम् ॥
चित्तं तन्मात्रमननं पश्यत्य् आशु स्वरूपवत् ।
एष सङ्घो ऽनिललवप्रख्यस् स्फुरति खान्तरे ॥
औच्छून्यम् एषो ऽनुभवत्य् अवश्यायकणोपमम् ।
संवेदनात्मकं कालकलितैकान्तम् आत्मनि ॥
अहं किम् इति शब्दार्थवेदनाम् सो ऽङ्गसंविदम् ।
संविदन् वस्तुशब्दार्थं जीवः पश्यति सार्थकम् ॥
तादृक्संवेदनस् सो ऽथ रसशब्दार्थवेदनम् ।
भाविजिह्वार्थनाम्नैकदेशे ऽनुभवति क्षणात् ॥
तादृक्संवेदनाज् जीवश् शब्दार्थोन्मुखतां गतः ।
भविष्यन्नेत्रनाम्नैकदेशे भवति भासनम् ॥
तादृक्संवेदनस् सो ऽथ घ्राणं तद्वृत्तिवेदनात् ।
स्थितो यस्मिन् भविष्यन्ती तावद् दृष्ट्यादितत्स्थितिः ॥
एवम्प्रायस् स जीवात्मा काकतालीयवच् छनैः ।
विशिष्टसन्निवेशत्वं भावितं पश्यति स्वतः ॥
स तस्य सन्निवेशस्य त्व् असतो ऽपि सतस् सतः ।
शब्दभावैकदेशत्वं श्रवणार्थेन विन्दति ॥
स्पर्शभावैकदेशत्वं त्वक्छब्दार्थेन विन्दति ।
रसभावैकदेशत्वं जिह्वार्थाकृति पश्यति ॥
रूपभावैकदेशत्वं नेत्रार्थाकृति पश्यति ।
गन्धभावैकदेशत्वं नासिकात्वेन पश्यति ॥
एवम्भावमयैतत्ता प्रकटीकरणक्षमम् ।
भविष्यद् इन्द्रियाख्यं सा रन्ध्रं पश्यति देहके ॥
इत्य् एवम् आदिजीवस्य राघवाद्यतनस्य च ।
उदेति प्रतिभासात्मा देह एवातिवाहिकः ॥
अनाख्यैव परा सत्ता स्वातिवाहिकताम् इव ।
सा गच्छत्य् अप्य् अगच्छन्ती तादृक्शक्त्यात्मभावनात् ॥
मातृमेयप्रमाणादि यदा ब्रह्मैव वेदनात् ।
तदातिवाहिकोक्तीनां कः प्रसङ्गस् तद् एव तत् ॥
अन्यत्ववेदनाद् अन्यः परस्माद् आतिवाहिकः ।
ब्रह्मत्ववेदनाद् ब्रह्म नासंवित्तिर् हि सान्यथा ॥
असम्भवाद् असंवित्तेर् ब्रह्मात्मकतयाथवा ।
को मोक्षः को विचारस् स्याद् अलं भेदविकल्पनैः ॥
सिद्धान्तकाल एवैष प्रश्नस् ते राम राजते ।
अकालपुष्पमाला हि शोभनापि न शोभते ॥
सार्थैवानर्थिकाकालमाला विवलिता यथा ।
तथैवाकालगीर् जन्तोस् सर्वं काले हि शोभते ॥
प्रतिबन्धाभ्यनुज्ञानां कालो दातेति दृश्यते ।
ननु सर्वपदार्थानां कालेन फलयोगिता ॥
एवम् एष स जीवात्मा सुप्तात्मा समुपस्थितः ।
पितामहत्वम् उच्छूनः पश्यन्न् आत्मनि कालतः ॥
ओमुच्चारणसंवित्तिपूर्वं वेदान् प्रपश्यति ।
यः करोति मनोराज्यं भवत्य् आशु स तन्मतिः ॥
इदम् एवम् असत् सद्वद् विदन् व्योम्नि सुतात्मनि ।
पर्वतौघाकृति व्योमजगद् व्योम्नि विजृम्भते ॥
नेह प्रजायते किञ्चिन् नेह किञ्चन नश्यति ।
जगद् गन्धर्वनगररूपेण ब्रह्मबृंहितम् ॥
यथैव ब्रह्मजादीनां जीवानां सदसन्मयी ।
सत्ता तथैव सर्वेषाम् आसरीसृपम् आसुरम् ॥
संविद्विभ्रम एवायम् एवम् अभ्युत्थितो ऽप्य् असत् ।
आब्रह्म कीटसंवित्तेस् सम्यक्संवेदनक्षयः ॥
यथा सम्पद्यते ब्रह्मा कीटस् सम्पद्यते तथा ।
कीटस् तु रूढभूतौघवलनात् तुच्छकर्मतः ॥
यद् एव जीवनं जीवे चेत्योन्मुखमयात्मकम् ।
तद् एव पौरुषं तस्मिन् सारं कर्म तद् एव च ॥
ब्रह्मणस् सर्गताहन्ते कीटस्याप्य् असदुत्थिते ।
चित्तमात्रात्मके भ्रान्ते प्रेक्षामात्रभवत्क्षये ॥
मातृमानप्रमेयार्थो न चिन्मात्रेतरो यदा ।
तदा द्वैतैक्यवादार्थश् शशशृङ्गाब्जिनीसमः ॥
भावदार्ढ्यात्मकं मिथ्या ब्रह्मणो ऽण्डं विभाव्यते ।
आत्मैव कोशकारेण लालारूपात्मकं यथा ॥
सत्तया ब्रह्मणा यद् यद् यथा दृष्टं विभाति तत् ।
तत् तथा दृश्यते तज्ज्ञैस् स्वभावस्यैष निश्चयः ॥
यथा यद् उदितं वस्तु तन् न तत्तां विना भवेत् ।
निमेषम् अपि कल्पो वा स्वभावस्यैष निश्चयः ॥
अलीकम् इदम् उत्पन्नम् अलीकं च विवर्धते ।
अलीकम् एव स्वदते तथालीकं विलीयते ॥
चिन्मात्रस्यान्तरे सर्गश् चिन्मात्रं सकलान्तरे ।
तत्त्वात् समस्तसत्तानां चिन्मात्रं सर्वम् एव वा ॥
चिन्मात्रम् एव बहिर् अन्तर् उपर्य् अधस्तान् मानप्रमेयम् इति मातृपदं च धत्ते ।
नित्योपशान्तम् इति तेन समस्तसत्ता नित्यं स्थितं सुसमम् एकम् अपेततुर्यम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0