मोक्षोपाय · अध्याय 3.68
अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् ।
राक्षस्योक्तं महाप्रश्नजालम् आवलिताखिलम् ॥
अस्ति कज्जलपङ्काद्रेर् इवोग्रा सालभञ्जिका ।
हिमाद्रेर् उत्तरे पार्श्वे कर्कटी नाम राक्षसी ॥
विषूचिकाभिधाना या कन्या सा न्यायबाधिका ।
विन्ध्याटवीव देहेन युक्त्या कार्श्यम् उपागता ॥
महाबलाग्निनयना रोदोरन्ध्रावपूरिणी ।
नीलाम्बराम्बरा कृष्णा देहबद्धेव यामिनी ॥
नीहारवसनाच्छन्ना मेदुराभ्रशिरःपटा ।
लम्बाभ्रबिम्बोरसिजा नित्योर्ध्वतिमिरोर्ध्वजा ॥
स्थिरविद्युल्लतानेत्रा तमालतरुतारका ।
वैडूर्यशूर्पाग्रनखी भस्मनीहारहासिनी ॥
निर्मांसनरदेहौघपुष्पस्रग्दामभूषिता ।
सर्वाङ्गोग्रान्त्रसम्प्रोतशवमालाविराजिता ॥
वेतालावेशविवलत्कालकङ्कालकुण्डला ।
अर्कादानोत्कदीप्ताभ्रभीमोग्रभुजमण्डला ॥
तस्या विपुलकायत्वाद् दुर्लभत्वान् निजान्धसः ।
अतृप्तो ऽर्णवलेखाया इवाभूज् जाठरो ऽनलः ॥
न कदाचन सा तृप्तिम् उपायाति महोदरी ।
वडवानलजिह्वेव चिन्तयाम् आस चैकदा ॥
जम्बुद्वीपगतान् सर्वान् निगिरामि जनान् यदि ।
अनारतम् अनुच्छ्वासं जलराशीन् इवार्णवः ॥
मेघेन मृगतृष्णेव तन् मे क्षुद् उपशाम्यति ।
अविरुद्धैव सा युक्तिर् ययापदि हि जीव्यते ॥
मन्त्रौषधतपोदानदेवपूजादिरक्षितम् ।
समम् एव जनं सर्वं निर्बाधं कः प्रबाधते ॥
तपः करोमि परमम् अखिन्नेनैव चेतसा ।
तपसैव महोग्रेण यद् दुरापं तद् आप्यते ॥
इति सञ्चिन्त्य सा सर्वजन्तुजातजिघत्सया ।
तपोऽर्थम् अथ सस्मार प्रदेशं भूतदुर्गमम् ॥
आरुरोह च तच् छृङ्गं स्थिरविद्युद्विलोचना ।
हस्तपादादिमद्देहा श्यामलेवाभ्रमण्डली ॥
तत्राम्बराम्बरा स्नातुं तपः कर्तुं कृतस्थितिः ।
अतिष्ठद् एकपादेन चन्द्रार्कास्पन्दलोचना ॥
क्रमेण दिवसाः पक्षास् तस्या मासर्तवो ययुः ।
शीतातपेष्व् अलोलायाः कृत्ताया इव शैलतः ॥
सा बभूवाभ्रमालायास् समा संस्तम्भिताकृतिः ।
कृष्णोत्थितोर्ध्वकेशी खम् आहर्तुम् इव चोद्भुजा ॥
आलोक्य तां पवनजर्जरिताङ्गकत्वक्क्लीवां सझाङ्कृतिरणत्पवनावधूतैः ।
ऊर्ध्वस्थमूर्धजतमःपटलैर् दधानां तारौघमौक्तिकम् अजस् समुपाजगाम ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0