भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.66

3.66.1

एवम् एकं परं वस्तु रामानानात्वम् अप्य् अलम् ।
नानात्वम् इव संयातं दीपाद् दीपशतं यथा ॥

3.66.2

यथाभूतम् असद्रूपम् आत्मानं यदि पश्यति ।
विचार्य चेतस् तद् अहम्भावहीनं न शोचति ॥

3.66.3

चित्तमात्रं नरस् तस्मिन् शान्ते शान्तम् इदं जगत् ।
उपानद्रूढपादस्य ननु चर्मावृतैव भूः ॥

3.66.4

पत्त्रमात्राद् ऋते नान्यत् कदल्या विद्यते यथा ।
भ्रममात्राद् ऋते नान्यज् जगतां विद्यते तथा ॥

3.66.5

जायते बालताम् एति यौवनं वार्धकं तथा ।
मृतिं स्वर्गं च नरकं भ्रमाच् चेतो हि नृत्यति ॥

3.66.6

विचित्रबुद्बुदोल्लासे स्वात्मनो ऽव्यतिरेकिणि ।
यथा सुरायास् सामर्थ्यं तथा चित्तस्य संसृतौ ॥

3.66.7

यथा द्वित्वं शशाङ्कादौ पश्यत्य् अक्षि मलाबिलम् ।
चिच् चेतनकलाक्रान्ता तथैव परमात्मनि ॥

3.66.8

यथा मदवशाद् भ्रान्तान् क्षीवः पश्यति पादपान् ।
तथा चेतनविक्षुब्धा संसारांश् चित् प्रपश्यति ॥

3.66.9

यथा लीलाभ्रमाद् बालः कुम्भकृच्चक्रवज् जगत् ।
भ्रान्तं पश्यति चित्त्वात् तु चिद् वै दृश्यं तथैव हि ॥

3.66.10

यदा चिच् चेतति द्वित्वं तदा द्वैतैक्यविभ्रमः ।
यदा न चेतति द्वित्वं तदा द्वैतैक्ययोः क्षयः ॥

3.66.11

यच् चेत्यते तद् इतरद् व्यतिरिक्तं चितो ऽस्ति नो ।
किञ्चिन् नास्तीति संशान्त्या चितश् शाम्यति चेतनम् ॥

3.66.12

चिद्घनेनैकताम् एत्य यदा तिष्ठसि निश्चलः ।
शाम्यन् व्यवहरन् वापि तदा संशान्त उच्यसे ॥

3.66.13

तन्वी चेतयते चेत्यं घना चिन् नाङ्ग चेतति ।
अल्पक्षीवः क्षोभम् एति घनक्षीवो हि शाम्यति ॥

3.66.14

चिद्घनैक्यं प्रयातस्य रूढस्य परमे पदे ।
नैरात्म्यशून्यवादाद्यैः पर्यायैः कथनं भवेत् ॥

3.66.15

चिच् चेतनेन चेत्यत्वम् इत्य् एवं पश्यति भ्रमम् ।
जाये जीवामि नश्यामि संसरामीत्य् असन्मयम् ॥

3.66.16

स्वभावाद् व्यतिरिक्तं तु न चितश् चास्ति चेतनम् ।
स्पन्दाद् ऋते यथा वायाव् अतः किं केन चेत्यते ॥

3.66.17

चेत्ये त्व् असम्भवत्य् एव किञ्चिद् यच् चेत्यते चिता ।
रज्जोस् सर्पभ्रमाभासं तद् अविद्याभ्रमं विदुः ॥

3.66.18

संविन्मात्रचिकित्स्ये ऽस्मिन् व्याधौ संसारनामनि ।
चित्तमात्रपरिस्पन्दे संरम्भो ऽनघ किं तव ॥

3.66.19

यदि सर्वं परित्यज्य तिष्ठस्य् उत्क्रान्तवासनम् ।
अमुनैव निमेषेण तन् मुक्तो ऽसि न संशयः ॥

3.66.20

यथा रज्ज्वां भुजङ्गाशा विनाङ्गचलनं क्षणात् ।
संविन्मात्रविवर्तेन नश्यत्य् एवं हि संसृतिः ॥

3.66.21

यत्राभिलाषस् तन् नूनं सन्त्यज्य स्थीयते यदि ।
प्राप्त एवाङ्ग तन् मोक्षः किम् एतावति दुष्करम् ॥

3.66.22

अपि प्राणांस् तृणम् इव त्यजन्तीह महाशयाः ।
यत्राभिलाषस् तन्मात्रत्यागे कृपणता कथम् ॥

3.66.23

यत्राभिलाषस् तत् त्यक्त्वा चेतसा निरवग्रहम् ।
प्राप्तं कर्मेन्द्रियैर् गृह्णंस् त्यजन्न् इष्टं च तिष्ठ भोः ॥

3.66.24

यथा करतले बिल्वं यथा वा पर्वतः पुरः ।
प्रत्यक्षम् एवम् अस्यालम् अजत्वं परमात्मनः ॥

3.66.25

आत्मैव भाति जगद् इत्य् उदितस् तरङ्गैः कल्पान्त एक इव वारिधिर् अप्रमेयः ।
ज्ञातस् स एव हि ददाति विमोक्षसिद्धिम् अज्ञात एव मनसा चिरबन्धनाय ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc