मोक्षोपाय · अध्याय 3.65
एतस्मात् कारणाद् एवं मनः प्रथमम् उत्थितम् ।
मननात्मकम् आभोगि तत्स्थम् एव स्थितिं गतम् ॥
भावाभावर्द्धिमद्दोलस् तेनायम् अवलोक्यते ।
सर्गस् सदसदाभासः पूर् गन्धर्वेच्छया यथा ॥
न कश्चिद् विद्यते भेदो द्वैतैक्यकलनात्मकः ।
ब्रह्मजीवमनोमायाकर्तृकर्मजगद्दृशाम् ॥
अपारवानविस्तारसंवित्सलिलवल्गनैः ।
चिदेकार्णव एवायं स्वयम् आत्मा विजृम्भते ॥
असत्यम् अस्थैर्यवशात् सत्यं स्वप्रतिभासतः ।
यथा स्वप्नस् तथा चित्ते जगत् सदसदात्मकम् ॥
न सन् नासन्न् अयं जातश् चेतसो जागतो भ्रमः ।
ओषधीसमवायानाम् इन्द्रजालम् इवोत्थितम् ॥
दीर्घस् स्वप्नस् स्थितिं यातस् संसाराख्यो मनोवशात् ।
असम्यग्दर्शनात् स्थाणाव् इव पुम्प्रत्ययो मुधा ॥
अनात्मालोकनाच् चित्तं चित्तत्वेनानुशोचति ।
वेतालकल्पनाद् बाल इव सङ्कल्पिते भये ॥
अनाख्यस्य स्वरूपस्य सर्वांशातिगतात्मनः ।
चेत्योन्मुखतया चित्त्वं चित्त्वाज् जीवत्वकल्पनम् ॥
जीवत्वाद् अप्य् अहम्भावस् त्व् अहम्भावाच् च चित्तता ।
चित्तत्वाद् इन्द्रियादित्वं ततो देहादिविभ्रमः ॥
देहादिमोहतस् स्वर्गनरकौ मोक्षबन्धने ।
बीजाङ्कुरवद् आरम्भस् संरूढो देहकर्मणोः ॥
द्वैतं यथा नास्ति चिदात्मतत्त्वयोस् तथैव भेदो ऽस्ति न जीवचित्तयोः ।
यथैव भेदो ऽस्ति न जीवचित्तयोस् तथैव भेदो ऽस्ति न देहकर्मणोः ॥
कर्मैव देहो ननु देह एव चित्तं तद् एवाहम् इतीव जीवः ।
स जीव एवेश्वरचित् स आत्मा सर्वं शिवात् त्व् एकपदोत्थम् एतत् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0