भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.61

3.61.1

अहं जगद् इति भ्रान्तिः परस्मात् कारणं विना ।
यथोदेति तथा ब्रह्मन् भूयः काथय साधु मे ॥

3.61.2

समस्तास् समम् एवान्तस् संविदो विन्दते यतः ।
सर्वथा सर्वदा सर्वं सर्वात्मैकम् अजस् ततः ॥

3.61.3

सर्वादिशब्दार्थकला ब्रह्मैवैताः पृथङ् न तु ।
सर्वार्थशब्दादिकलारूपम् आसां न विद्यते ॥

3.61.4

कटकत्वं पृथग् घेम्नस् तरङ्गत्वं पृथग् जलात् ।
यथा न सम्भवत्य् एवं न जगत् पृथग् ईश्वरात् ॥

3.61.5

ईश एव जगद्रूपं जगद्रूपं तु नेश्वरः ।
हेमैव कटकादित्वं कटकत्वं तु हेम नो ॥

3.61.6

यथावयविनो रूपम् अनेकावयवात्मकम् ।
तथानवयवायास् तु चित्त्वं सर्वात्मकं चितः ॥

3.61.7

यत् तुल्यकालम् अखिलं तन्मात्रावेदनं परे ।
अन्तस्स्थं तद् इदं भाति जगद् इत्य् अहम् इत्य् अपि ॥

3.61.8

लेखौघानां यथा भेदी सन्निवेशश् शिलोदरे ।
तथानन्यज् जगद् अहं चेत्य् अन्तश् चिद्घने घनम् ॥

3.61.9

स्थितास् तरङ्गास् सलिले यथान्तरतरङ्गिते ।
सृष्टिशब्दार्थरहितास् तथान्तस् सृष्टयः परे ॥

3.61.10

नासर्गं तिष्ठति परं सर्गस् तिष्ठति नापरः ।
अवयवावयविवत् सत्तानवयवैतयोः ॥

3.61.11

चिद्रूपेण खसंवित्त्या खतन्मात्रं विभाव्यते ।
स्वम् एव रूपं हृदयं वातेन स्पन्दनं यथा ॥

3.61.12

तत्कालम् एष शब्दाणुश् चिच्चमत्काररूपधृत् ।
चेत्यते शमिनैवान्तस् सङ्कल्प इव चेतसा ॥

3.61.13

तदैवानिलतां वेत्ति निजसत्तात्मिकां स्वयम् ।
अन्तर्गतस्पन्दरसां पवनस् स्पन्दताम् इव ॥

3.61.14

तदैवाभासताम् एति निजसत्तात्मिकां स्वयम् ।
कोशस्थितालोकलवां तेजः प्रकटताम् इव ॥

3.61.15

तदैवाप्तां चेतयते निजसत्तात्मिकाम् अजः ।
हृत्संस्थरसतन्मात्रां सलिलं द्रवताम् इव ॥

3.61.16

तदैवावनितां वेत्ति स्वचित्तैकात्मिकाम् अजः ।
अन्तस्स्थगन्धतन्मात्राम् उर्वी स्थैर्यकलाम् इव ॥

3.61.17

तुल्यकालनिमेषांशलक्षभागं प्रतीतयः ।
नित्यं चितः प्रकचनं तत् सर्गौघपरम्पराः ॥

3.61.18

एवं सकृत् स्वभावान्तर् दृश्यमध्यम् अनामयम् ।
उदयास्तमयोन्मुक्तं ब्रह्म तिष्ठत्य् अनिष्ठितम् ॥

3.61.19

बुद्धं सद् अपसर्गं तत् ससर्गम् अपि तत् समम् ।
अबुद्धं सर्गरूपात्म विसर्गम् अपि तत् सदा ॥

3.61.20

चिद्ब्रह्म यद् यथा येन विन्दते स्वत्वम् आत्मनि ।
तत् तत् तथानुभवति सर्वं तत् सर्वशक्तिमत् ॥

3.61.21

तत् सत्यं विद्विलासत्वान् नित्यानुभवरूपतः ।
तद् असत्यं मनष्षष्ठं सर्वाख्यातिगतं यतः ॥

3.61.22

यथा तत् सरणं वायौ तथा सर्गस् स्थितः परे ।
असत्कल्पे त्व् असत्कल्पस् सत्ये ऽसत्य इवापि च ॥

3.61.23

अन्यरूपा यथानन्या तेजस्य् आलोकतोदरे ।
तथा ब्रह्मणि विश्वश्रीस् सत्यासत्यात्मिकात्मनि ॥

3.61.24

अनुत्कीर्णा यथा पङ्के पुत्रिका वाथ दारुणि ।
वर्णा यथा मषीकल्के तथा सर्गास् स्थिताः परे ॥

3.61.25

अनन्यान्येव कचति ब्रह्मतत्त्वमरुस्थले ।
असत्यानित्यसत्तेयं त्रिजगन्मृगतृष्णिका ॥

3.61.26

ब्रह्मणा चिन्मयेनात्मासर्गात्मैव विभाव्यते ।
न भाव्यते चानन्यत्वाद् बीजेनान्तर् इव द्रुमः ॥

3.61.27

यथा क्षीरस्य माधुर्यं तीक्ष्णत्वं मरिचस्य च ।
द्रवत्वं पयसश् चैव स्पन्दो ऽन्तः पवनस्य च ॥

3.61.28

स्थितो ऽनन्यो ऽप्य् अथान्यस् सन् न स्थितश् च तथात्मनि ।
सर्गो ऽनर्गलचिद्रूपः परमात्मात्मरूपधृत् ॥

3.61.29

कचनं ब्रह्मरत्नस्य जगद् इत्य् एव यत् स्थितम् ।
तद् अकारणकं तस्मात् तेन न व्यतिरिच्यते ॥

3.61.30

वासनाचित्तजीवादिवेदनं वेदनोदितम् ।
नोदेत्य् अवेदनाद् एव यन् नानात्मैव पौरुषम् ॥

3.61.31

नास्तम् एति न चोदेति क्वचित् किञ्चित् कदाचन ।
सर्वं शान्तम् अजं ब्रह्म चिद्घनं सुशिलाघणम् ॥

3.61.32

पराणुं प्रति सर्गौघाश् चित्त्वाद् भान्ति सहस्रशः ।
तेष्व् अन्ये ऽणाव् अणाव् अन्तः कैवात्र गणना कथम् ॥

3.61.33

यथा जलान्तर् ऊर्म्याद्या गुप्तागुप्तास् स्वशक्तयः ।
जाग्रत्स्वप्नसुषुप्ताद्यास् तथा जीवे ऽन्तर् आस्थिताः ॥

3.61.34

जाता चेद् अरतिर् भोगान् प्रति मनाग् अपि ।
तदासौ तावतैवोच्चैः पदं प्राप्त इति श्रुतिः ॥

3.61.35

यतो यतो वियुज्यते ततस् ततो विमुच्यते ।
अतो ऽहम् इत्य् असंविदः क एति जन्मसंविदम् ॥

3.61.36

चितं परापराम् अजाम् अरूपिकाम् अनामिकाम् ।
चराचराधरामयीं विदन्ति ये जयन्ति ते ॥

3.61.37

परे चिद् अस्त्य् अप्रकटाद्वितीया स्वावर्तलेखेव जलद्रवे ऽन्तः ।
सा हन्त येन त्रिजगन्ति धत्ते न सन्ति नासन्ति परात्मकानि ॥

3.61.38

अहम्मयी पद्मजभावना चित् सङ्कल्पभेदात् प्रतनोति विश्वम् ।
अन्तर् मुधैवानुभवत्य् अनन्तं निमेषकोट्यंशविधौ युगान्तम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc