भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.60

3.60.1

एतत् ते कथितं राम दृश्यदोषनिवृत्तये ।
लीलोपाख्यानम् अनघ घनतां जगतस् त्यज ॥

3.60.2

शान्तैव दृश्यसत्तास्याश् शमनं नोपयुज्यते ।
सतो हि मार्जनं क्लेशो नासतस् तु कदाचन ॥

3.60.3

ज्ञानेनाकाशरूपेण दृश्यं ज्ञेयं खरूपकम् ।
इत्य् एकीभूतम् आलोक्य ज्ञस् तिष्ठत्य् अम्बरोपमः ॥

3.60.4

पृथ्व्यादिरहितेनेदं चिद्भासैव स्वयम्भुवा ।
साधितं यद् असिद्धेन तन् न द्व्यात्म न साधितम् ॥

3.60.5

संविद् यथा या यतते सा तथा बाह्यलेखिका ।
विसृता सृष्टिचिन्नद्यां यावद् यत्नान् न बोधिता ॥

3.60.6

चिदाकाशावभासो ऽयं जगद् इत्य् एव बुध्यते ।
चिद्व्योम्नैवात्मनि स्वच्छे परमाणुकणं प्रति ॥

3.60.7

एवम् अस्या मुधाभ्रान्तेः का सत्ता केव वासना ।
कास्था का नियतिः केहा कावश्यम्भावितोच्यताम् ॥

3.60.8

सर्वं चैतद् यथादृष्टं स्थितम् इत्थम् अखण्डितम् ।
मायैवैवम् अनन्तेयं न च मायास्ति काचन ॥

3.60.9

अहो नु परमा दृष्टिर् दर्शिता भगवंस् त्वया ।
दावार्चिर्दृश्यकक्ष्याणां दाहशान्तौ कलैन्दवी ॥

3.60.10

अहो नु सुचिरेणैतज् ज्ञातं ज्ञातव्यम् अक्षतम् ।
मया यथेदं यच् चेदं यादृक् चेदं यतो यदा ॥

3.60.11

शाम्यामीव द्विजश्रेष्ठ निर्वामीवाविकल्पनः ।
एतद् आश्चर्यम् आख्यानं व्याख्यानं शास्त्रदृष्टिषु ॥

3.60.12

इदं मे भगवन् ब्रूहि संशयं सर्वकोविद ।
तव पातुं न तृप्तो ऽस्मि श्रोत्रपात्रैर् वचोऽमृतम् ॥

3.60.13

स सर्गत्रितये कालो लीलाभर्तुर् हि योगतः ।
स क्वचित् किम् अहोरात्रः क्वचित् किं मासमात्रकः ॥

3.60.14

क्वचित् किं बहुवर्षाणि कस्यचित् किं सुपेलवः ।
कस्यचित् किं महादीर्घः कस्यचित् किं क्षणस्थितः ॥

3.60.15

इति मे भगवन् ब्रूहि त्वं यथावद् अनुग्रहात् ।
सकृच् छ्रुतं न विश्रान्तिम् एति लोष्टे यथा जलम् ॥

3.60.16

येन येन यदा यद् यद् यथा संवेद्यते ऽनघ ।
तेन तेन तदा तत् तत् तथा समनुभूयते ॥

3.60.17

अमृतत्वं विषं याति सदैवामृतवेदनात् ।
शत्रुर् मित्रत्वम् आयाति मित्रसंवित्तिवेदनात् ॥

3.60.18

यथाभावितम् एतेषां पदार्थानां निजं वपुः ।
तद् एव हि चिराभ्यासान् नियतेर् वशम् आगतम् ॥

3.60.19

कचनैकात्मिकैषा चिद् यथा कचति यादृशम् ।
तथा तत्राशु भवति तत् स्वभावैककारणात् ॥

3.60.20

निमेषे यदि कल्पौघं प्रविदन् परिविन्दते ।
निमेष एव तत् कल्पीभवत्य् अत्र न संशयः ॥

3.60.21

कल्पे यदि निमेषत्वं वेत्ति कल्पो ऽप्य् असौ ततः ।
निमेषीभवति क्षिप्रं तादृग्रूपात्मिका हि चित् ॥

3.60.22

दुःखितस्य निशा कल्पस् सुखिनस् सैव च क्षणः ।
क्षणस् स्वप्ने भवेत् कल्पः कल्पश् च भवति क्षणः ॥

3.60.23

तथा च मृत्वा जातो ऽहं तरुणो ऽहम् अवस्थितः ।
यातो ऽस्मि योजनशतं स्वप्न इत्य् अनुभूयते ॥

3.60.24

रात्रिं द्वादशवर्षाणि हरिश्चन्द्रो ऽनुभूतवान् ।
लवणो भुक्तवान् आयुर् एकरात्र्यां समाश् शतम् ॥

3.60.25

यो निमेषः प्रजेशस्य स मनोर् जीवितं मुनेः ।
जीवितं यद् विरिञ्चस्य तद् दिनं किल चक्रिणः ॥

3.60.26

ध्याने प्रक्षीणचित्तस्य न दिनानि न रात्रयः ।
न पदार्था न च जगत् सत्यं नात्मापि योगिनः ॥

3.60.27

मधुरं कटुताम् एति कटुभावेन चिन्तितम् ।
कट्व् अप्य् आयाति माधुर्यं मधुरत्वेन चेतितम् ॥

3.60.28

मित्रबुद्ध्या द्विषन् मित्रं रिपुबुद्ध्या रिपुस् सुहृत् ।
भवतीति महाबाहो यथासंवेदनं जगत् ॥

3.60.29

अनभ्यस्ताः पदार्था ये शास्त्रपाठजपादयः ।
एषां संवेदनाभ्यासान् नूनम् अभ्येति सात्मता ॥

3.60.30

नौर् यायिनां भ्रमार्तानां वेदनात् तु विवर्तते ।
अवेदनाद् भ्रमार्तानाम् अपि नैषा विवर्तते ॥

3.60.31

शून्यम् आकीर्णताम् एति वेदनात् स्वप्नदृक्ष्व् इव ।
वेदनात् पीतम् आनीलं शुक्लं वाप्य् अनुभूयते ॥

3.60.32

आपद्वद् उत्सवः खेदं करोति परिमोहिनः ।
कुड्ये ऽपि ख इवाचारो दृष्टो धातुविकारिणः ॥

3.60.33

असद्यक्षो विमूढानां प्राणान् अप्य् अपकर्षति ।
वेदनात् स्वप्नवनिता जाग्रतीव रतिप्रदा ॥

3.60.34

यद् यथाभ्यासम् आयातं तत् तथा स्थिरतां गतम् ।
असद् एव नभस्य् एव नभ एव चिदात्मनि ॥

3.60.35

शतहस्तखुरच्छायानटवृत्तम् इवाततम् ।
गगने मानसं स्पन्दं जगद् विद्धि न वस्तु तत् ॥

3.60.36

मिथ्याज्ञानपिशाचस्य सन्दर्शनम् अनाकृति ।
कायामात्रकम् एवेदम् अरोधकम् अभित्तिमत् ॥

3.60.37

इदं भास्वरम् आभासं स्वप्नसन्दर्शनं चितः ।
अपूर्वम् एव सुप्ताया नरस्येवोदितं विदुः ॥

3.60.38

अखाताश् चेतति स्तम्भो यादृशं सालभञ्जिकाः ।
परमार्थमहास्तम्भस् सृष्टीश् चेतति तादृशम् ॥

3.60.39

यादृशो मानवः पार्श्वे स्वप्ने क्षुब्धो महाभटैः ।
तादृशो ब्रह्मणस् सर्गो बुद्ध एव सुषुप्तवत् ॥

3.60.40

तृणगुल्मलतायुक्तश् शिशिरान्ते यथा रसः ।
वासन्तस् संस्थितो भूमौ तथा सर्गः परे पदे ॥

3.60.41

यथा द्रवत्वं कनके स्थितम् अन्तर् अनुन्मिषत् ।
तथा स्थितः परे सर्गः खात्मा वल्गन्न् अणाव् अणौ ॥

3.60.42

सन्निवेशो यथाङ्गानाम् अङ्गिनो ऽनन्यद् आत्मनः ।
जगद् एवम् अनङ्गस्य खात्मनः खात्म ब्रह्मणः ॥

3.60.43

यादृग् एकनरस्वप्नयुद्धम् अन्यनरं प्रति ।
तादृशं सदसद्रूपं खात्मेदं व्योमगं जगत् ॥

3.60.44

महाकल्पान्तसर्गादौ चित्स्वभाव इदं वपुः ।
कारणत्वं मिथः पश्चाद् असद् वेत्ति न वास्तवम् ॥

3.60.45

मुक्ते ऽस्मिन् ब्रह्मणि यदि ब्रह्मान्यस् स्मृतिजो भवेत् ।
तत्स्मृतिर् ज्ञप्तिजे सर्गे स्थितेव ज्ञप्तिमात्रतः ॥

3.60.46

पौराणां मन्त्रिमुख्यानां विदूरथकुलक्रमः ।
समम् एव कथं तत्र सर्वेषां प्रतिभासितः ॥

3.60.47

चितस् समनुवर्तन्ते मुख्यायास् सर्वसंविदः ।
यथा विपुलवात्यायास् सामान्या वातलेखिकाः ॥

3.60.48

परस्परानुभावेन तथारूपेण संविदः ।
कचितास् ताः प्रजापालप्रजावास्तव्यमन्त्रिणाम् ॥

3.60.49

एवंरूपात् कुलाज् जातो राजास्माकम् अयं त्व् असौ ।
कचिता इति वास्तव्यविदो वैदूरथे पुरे ॥

3.60.50

कचने चित्स्वभावस्य न च कारणमार्गणम् ।
युक्तं महामणेर् भासाम् इवान्यत् स्वस्वभावतः ॥

3.60.51

अहम् एव कुलाचारो राजास्या भुव इत्य् अपि ।
विदूरथविदो रत्नाद् उदिता प्रतिभाप्रभा ॥

3.60.52

यावन्तो जन्तवो यस्मिन् ये ये सर्गे यदा यदा ।
ते सर्वगत्वाच् चिद्धातोर् अन्योऽन्यादर्शतां गताः ॥

3.60.53

तीव्रवेगवती या स्यात् तत्र संविद् अकल्पिता ।
सैवायाति परं स्थैर्यं सामोक्षत्वैकरूपिणी ॥

3.60.54

बलवद्विद्विलासानाम् अनुवृत्त्या परस्परम् ।
स्वभावाः प्रतिबिम्बन्ति चिदादर्शस्वभावतः ॥

3.60.55

तत्रातियत्ना जयति सान्यास् संविद आत्मसात् ।
कुर्वती सरिद् अम्भोधिगामिनीस् सरितो यथा ॥

3.60.56

ये समास् त्व् अत्र ते तावद् यतन्ते चित्स्वभावतः ।
यावद् एको जयेत् तत्र द्वितीयस् सन्निमज्जति ॥

3.60.57

जायमानेषु नश्यत्सु वर्तमानेषु भूरिशः ।
एवं सर्गसहस्रेषु परमाणुकणं प्रति ॥

3.60.58

न किञ्चित् केनचिद् व्याप्तं न च किञ्चित् क्वचित् स्थितम् ।
चिदाकाशम् अजं शान्तम् एतत् सर्वम् अभित्तिमत् ॥

3.60.59

अयम् आभासते स्वप्नो निर्निद्रो द्रष्टृवर्जितः ।
अवश्यम्भावबोधश् च सो ऽनुभूतो ऽप्य् असन्मयः ॥

3.60.60

पुष्पपत्त्रफलांशात्मा यथैकस् स्वास्थितो द्रुमः ।
अनन्तसर्वशक्त्यात्मा चैक एव तथा विभुः ॥

3.60.61

मातृमेयप्रमाणादिमयात्मकम् अजं पदम् ।
बुद्धं विस्मृतिम् आयाति न कदाचन कस्यचित् ॥

3.60.62

शून्योदयास्तमयवस्तु तमःप्रकाशदिक्कालरूप्य् अपि सद् एकम् अनादिशुद्धम् ।
आद्यन्तमध्यरहितं स्थितम् अच्छम् अम्बुसोम्यत्ववीचिवलनाढ्यम् इवैकम् एव ॥

3.60.63

अहं त्वम् इत्यादि जगत्स्वरूपा विशुद्धबोधैकविभा विभाति ।
आकाशकोशे निजशून्यतैव द्वैतैक्यसङ्कल्पविकल्पनाः क्व ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc