मोक्षोपाय · अध्याय 3.62
परमाणुनिमेषाणां लक्षांशकलनास्व् अपि ।
जगत्कल्पसहस्राणि सत्यानीव विभान्त्य् अलम् ॥
तेष्व् अप्य् अन्तस् तथैवान्तः परमाणुकणं प्रति ।
भ्रान्तिर् एवम् अनन्ताहो इयम् इत्य् अवभासते ॥
वहन्तीमाः परा सत्ता शान्तास् सर्गपरम्पराः ।
सलिलद्रवतेवान्तर् अस्फुटावर्तवर्तिकाः ॥
मिथ्यात्मिकैव सर्गश्रीर् वहतीह महामरौ ।
तीरद्रुमलतोन्मुक्तपुष्पाणीव तरङ्गिणी ॥
स्वप्नेन्द्रजालपुरवत् सङ्कथेहापुराद्रिवत् ।
सङ्कल्पवद् असत्यैव भाति सर्गानुभूतिभूः ॥
ऐकात्म्यैकतयैवं हि जाते सम्यग्विचारणात् ।
निर्विकल्पात्मनि ज्ञाने परिज्ञानवतां वर ॥
किमर्थम् इह तिष्ठन्ति देहास् तत्त्वविदाम् अपि ।
दैवेनेव समाक्रान्ता दैवम् अत्र च किं भवेत् ॥
अस्तीह नियतिर् ब्राह्मी चिच्छक्तिस्पर्शरूपिणी ।
अवश्यम्भवितव्यैकसत्ता सकलकल्पगा ॥
आदिसर्गे हि नियतिर् भाववैचित्र्यम् अक्षयम् ।
अनेनेत्थं सदा भाव्यम् इति सम्पद्यते परम् ॥
महासत्तेति कथिता महाचितिर् इति स्मृता ।
महाशक्तिर् इति ख्याता महादृष्टिर् इति स्थिता ॥
महाक्रियेति गदिता महोद्भव इति श्रुता ।
महास्पन्द इति प्रौढा महात्मैकतयोदिता ॥
तृणानीति जगन्तीति दैत्या इति सुरा इति ।
इति नागा इति नगा इत्य् आकल्पम् इति स्थितिः ॥
कदाचिद् ब्रह्मसत्ताया व्यभिचारो ऽनुमीयते ।
चित्रम् आकाशकोशे वा नान्यथा नियतेस् स्थितिः ॥
विरिञ्चाद्यात्मभिर् बुद्धैर् बोधायाविदितात्मनाम् ।
बृंहणात् सैव नियतिस् सर्गो ऽयम् इति कथ्यते ॥
अचलं चलवद् दृष्टं ब्रह्मण्य् आर्यव्यवस्थितम् ।
अनादिमध्यपर्यन्तं शास्त्रो वृक्ष इवाम्बरम् ॥
पाषाणोदरलेखौघन्यायेनात्मनि तिष्ठता ।
ब्रह्मणा नियतिस् सर्गो बुद्धो बोधयतेव खम् ॥
देहे यथाङ्गिनाङ्गादि स्पृश्यते चित्स्वभावतः ।
ब्रह्मणा पद्मजत्वेन नियत्याद्यङ्गकं तथा ॥
एषा दैवम् इति प्रोक्ता सर्वं सकलकालगम् ।
पदार्थम् अलम् आक्रम्य शुद्धा चिद् इति संस्थिता ॥
स्पन्दितव्यं पदार्थेन भाव्यं वा भोक्तृतापदम् ।
अनेनेत्थम् अनेनेत्थम् अवश्यम् इति दैवधीः ॥
एषैव पुरुषस्पन्दतृणगुल्मादि चाखिलम् ।
एषैव सर्वभूतादि जगत्कालक्रियादि च ॥
अनया पौरुषी सत्ता सत्तास्याः पौरुषेण च ।
लक्ष्येते भवनं याते द्वे एकात्मतयेति हि ॥
नरेण पौरुषेणैव कार्ये सत्तात्मिके उभे ।
ईदृश्य् एव हि नियतिर् एवं नियतिपौरुषम् ॥
प्रष्टव्यो ऽहं त्वया राम दैवपौरुषनिर्णयम् ।
मदुक्तं पौरुषं पाल्यं त्वयेति नियतिस् स्थिता ॥
भोजयिष्यति मां दैवम् इति दैवपरायणः ।
यत् तिष्ठत्य् अक्रियो मौनं नियतेर् एष निश्चयः ॥
पौरुषेण समाहृत्य भोगान् भुङ्क्ते नरश् च यत् ।
राज्यादीन् मोक्षपर्यन्तान् नियतेर् एष निश्चयः ॥
मुक्तिर् भवति संसारान् न कल्पनिचयैर् अपि ।
भ्रमतां यच् छरीरौघैर् नियतेर् एष निश्चयः ॥
नास्या बुद्धिर् न कर्माणि न विकारादि नाकृतिः ।
केवलं त्व् इत्थम् आकल्पं स्थित्या भाव्यम् इति स्थितम् ॥
अवश्यं भविता ह्य् एवम् इदम् इत्थम् इति स्थितिः ।
न शक्यते लङ्घयितुम् अपि रुद्रादिबुद्धिभिः ॥
पौरुषम् न परित्याज्यम् एनाम् आश्रित्य धीमता ।
पौरुषेणैव रूपेण नियतिर् हि नियामिका ॥
अपौरुषं हि नियतिः पौरुषं सैव सर्गगा ।
निष्फलापौरुषाकारा सफला पौरुषात्मिका ॥
नियत्या मूकताहेतुनिष्पौरुषतयाक्रियः ।
यस् तिष्ठति प्राणमरुत्स्पन्दस् तस्य क्व गच्छति ॥
अथ प्राणक्रियारोधम् अपि कृत्वा विरामदम् ।
यदि तिष्ठति तत् साधुर् मुक्त एव किम् उच्यते ॥
पौरुषैकात्मता श्रेयो मोक्षो ऽत्यन्तम् अकर्मता ।
आभ्यां तु शबलः पक्षो दुःखायैव महात्मनाम् ॥
नियतिर् ब्रह्मतत्त्वाभा तस्यां चेत् परिणम्यते ।
नूनं परमशुद्धायां तत् प्राप्तैव परा गतिः ॥
एतैर् नियत्यादिमहाविलासैर् ब्रह्मैव विस्फूर्जति सर्वगात्म ।
तृणादिवल्लीतरुगुल्मजालैस् सत्तेव तोयस्य धरान्तरस्था ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0