मोक्षोपाय · अध्याय 3.59
सरस्वती तदेत्युक्त्वा तत्रैवान्तर्धिम् आययौ ।
प्रभाते पङ्कजैस् सार्धं बुबुधे सकलो जनः ॥
आलिलिङ्ग घनं लीलां लीला च दयितं क्रमात् ।
पुनः पुनर् महानन्दो मृतप्रोज्जीवितो नृपः ॥
तदासीद् राजसदनं मदमन्मथमन्थरं ।
आनन्दमत्तजनतं वाद्यगेयरवाकुलम् ॥
जयमङ्गलपुण्याहघोषघुङ्घुमघर्घरम् ।
हृष्टपुष्टजनाकीर्णराजलोकवृताङ्गनम् ॥
सिद्धविद्याधरोन्मुक्तपुष्पवर्षसशीत्कृतम् ।
ध्वनन्मृदङ्गमुरजकाहलाशङ्खदुन्दुभि ॥
ऊर्ध्वीकृतबृहद्धस्तहास्तिकस्तनितोत्कटम् ।
उत्तालताण्डवस्त्रैणपूर्णाङ्गनलसद्ध्वनि ॥
मिथस्सङ्घट्टनिपतन्नानोपायनदन्तुरम् ।
पुष्पशेखरसम्भारमयस्रग्दामसुन्दरम् ॥
विकीर्णपाटितक्षौमं मन्त्रिसामन्तनागरैः ।
स्थलपद्ममयं व्योम रक्तैस् ताण्डविनीकरैः ॥
मत्तस्त्रीकन्धरावृत्तलीलान्दोलितकुण्डलम् ।
प्रनृत्तपादसम्पातप्रोन्नमत्पुष्पकर्दमम् ॥
पटवासशरन्मेघवितानकवितानितम् ।
वराङ्गनामुखैर् नृत्यच्चन्द्रलक्ष्यगृहाजिरम् ॥
परलोकाद् उपानीतो राज्ञात्मा पतिर् एव च ।
इत्य् एवं वृत्तगाथाभिर् जगुर् देशान्तरे जनाः ॥
पद्मो भूमिपतिश् श्रुत्वा वृत्तान्तकथनं मनाक् ।
चक्रे स्नानं समानीतैश् चतुस्सागरवारिभिः ॥
ततो ऽभिषिषिचुर् विप्रा मन्त्रिणो भूभुजश् शतम् ।
लब्धोदयम् अनन्तेहम् अमरेन्द्रम् इवामराः ॥
लीला लीला च राजाथ जीवन्मुक्ता महाधियः ।
रेमिरे पूर्ववृत्तान्तकथनैस् सुरतैर् इव ॥
सरस्वत्याः प्रसादेन स्वपौरुषकृतेन तत् ।
प्राप्तं लोकद्वयं श्रेयः पद्मेनेति महीभुजा ॥
प्रज्ञप्तिज्ञानसंबुद्धो राजा लीलाद्वयान्वितः ।
चक्रे वर्षायुतान्य् अष्टौ तत्र राज्यम् अनिन्दितम् ॥
जीवन्मुक्तो जितमना जितपञ्चेन्द्रियभ्रमः ।
असंसक्तमना मौनी यथाप्राप्तानुवृत्तिमान् ॥
तस्य लावण्यजलधेर् बिन्दुर् इन्दुर् इवोद्धृतः ।
तस्य प्रतापकल्पाग्नेर् भानुः कण इवोत्थितः ॥
जीवन्मुक्तास् त इत्य् एवं राज्यं वर्षायुताष्टकम् ।
कृत्वा विदेहमुक्तत्वम् आसेदुस् सिद्धसंविदः ॥
यद् उदयि विशदं विदग्धमुग्धं समुदितम् आत्महितं च पेशलं च ।
तद् अखिलजनतोषदं स्वराज्यं चिरम् अनुपाल्य सुदम्पती विमुक्तौ ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0