मोक्षोपाय · अध्याय 3.57
ततो ददृशतुस् तत्र शवशय्यैकपार्श्वगाम् ।
लीलां विदूरथस्याग्रे मृतां तां प्रथमागताम् ॥
प्राग्वेषां प्राक्समाचारां प्राग्देहां प्राक्स्ववासनाम् ।
प्राक्तनाकारसदृशसर्वरूपाङ्गसुन्दरीम् ॥
प्राक्स्मृत्यवयवस्पन्दां प्रागम्बरपरावृताम् ।
प्राग्भूषणभरच्छन्नां केवलं तत्र संस्थिताम् ॥
गृहीतचामरां चारु वीजयन्तीं महीपतिम् ।
मौनस्थां वामहस्तस्थवदनेन्दुतयानताम् ॥
भूषणांशुलतापुष्पैः फुल्लाम् इव वनस्थलीम् ।
कुर्वाणां वीक्षणैर् दिक्षु मालत्युत्पलवर्षणम् ॥
सृजन्तीम् आत्मलावण्याद् बिन्दून् इन्दून् इवोदितान् ।
नराधिपात्मनो विष्णोर् लक्ष्मीम् इव समागताम् ॥
उदितां पुष्पसम्भाराद् इव पुष्पाकरश्रियम् ।
भर्तुर् वदनविन्यस्तदृष्टिम् इव विचेष्टिताम् ॥
किञ्चित्प्रम्लानवदनां म्लानचन्द्रां निशाम् इव ।
ताभ्यां सा ललना दृष्टा तया ते तु न लक्षिते ।
यस्मात् ते सत्यसङ्कल्पे सा न तावत् तथोदिता ॥
तस्मिन् प्रदेशे सा पूर्वलीला संस्थाप्य देहकम् ।
ध्यानेन ज्ञप्तिसहिता गताभूद् इति वर्णितम् ॥
किम् इदानीं च लीला या देहस् तत्र न वर्णितः ।
किं सम्पन्नः क्व वायात इति मे कथय प्रभो ॥
क्वासील् लीलाशरीरं तत् कुतस् तस्य हि सत्यता ।
सा किल भ्रान्तिर् एवाभूज् जलबुद्धिर् मराव् इव ॥
यथैव बोधे लीलासौ परिणामम् इता क्रमात् ।
परे तथैव तस्यास् तद् धिमवद्गलितं वपुः ॥
आतिवाहिकदेहस्य कालेनाभ्युदितो भ्रमः ।
आधिभौतिकदेहो ऽहम् इति रज्जुभुजङ्गवत् ॥
आतिवाहिकदेहेन दृश्यं यद् अवकल्पितम् ।
भूम्यादि नाम तस्यैव कृतं तत् त्व् आधिभौतिकम् ॥
वास्तवेन तु रूपेण भूम्याद्यात्माधिभौतिकः ।
न शब्देन न चार्थेन शब्दार्थौ शशशृङ्गवत् ॥
पुंसो हरिणको ऽस्मीति स्वप्ने यस्योदिता मतिः ।
स किम् अन्विष्यति मृगं स्वमृगत्वपरिक्षये ॥
उदेत्य् असत्यम् एवाशु तथासत्यम् प्रलीयते ।
भ्रान्तिर् हि भ्रमतो रज्ज्वाम् इव सर्पत्वसङ्ग्रहे ॥
समस्तस्याप्रबुद्धस्य मनोजातस्य कस्यचित् ।
विडम्बेन दृग् एवेयं मिथ्यारूढिम् उपागता ॥
स्वप्नोपलम्भं सर्गाख्यं स्वं सर्वो ऽनुभवन् स्थितः ।
चिरम् आवृत्तदेहात्मा भूचक्रस्फुरणं यथा ॥
ब्रह्मंल् लोकैः पुरस्स्थस्य गच्छतो योगिनो निजाम् ।
आतिवाहिकतां देहः कीदृशो ऽयं विलोक्यते ॥
देहाद् देहान्तरप्राप्तिः पूर्वदेहविनाशदा ।
आतिवाहिकदेहे हि स्वप्नेष्व् इव विकस्वरा ॥
यथातापे हिमकणश् शरद्व्योम्नि सितो ऽम्बुदः ।
दृश्यमानो ऽप्य् अदृश्यत्वम् एत्य् एवं योगिदेहकः ॥
झगित्य् एवाथवा कश्चिद् योगिदेहो न लक्ष्यते ।
सयोगिभिः पुरो वेगात् प्रोड्डीन इव खे खगः ॥
स्ववासनाक्रमेणैव क्वचित् केचित् कदाचन ।
मृतो ऽयम् इति पश्यन्ति कंचिद् योगिनम् अग्रगाः ॥
भ्रान्तिमात्रं तु देहात्म तेषां तद् उपशाम्यति ।
सत्यबोधेन रज्जूनां सर्पबुद्धिर् इवात्मनि ॥
को देहः कस्य वा सत्ता कस्य नाशः कथं कुतः ।
स्थिरं तद् एवं यद् अभूद् अबोधः केवलं गतः ॥
आतिवाहिकतां याति आधिभौतिक एव किम् ।
उतान्य इति मे ब्रूहि येनोह्य इव न प्रभो ॥
बहुशो ऽप्य् उक्तम् एतन् मे न गृह्णासि किम् उत्तरम् ।
आतिवाहिक एवास्ति नास्त्य् एवेहाधिभौतिकः ॥
तस्यैवाभ्यासतो ऽभ्येति साधिभौतिकतामतिः ।
यदा शाम्यति सैवास्य तदा पूर्वा प्रवर्तते ॥
तदा गुरुत्वं काठिन्यं भित्तिमत्त्वं मुधाग्रहः ।
शाम्येत् स्वप्ने नरस्येव बोद्धुर् बोधान् निरामयात् ॥
लघुतूलसमापत्तिस् ततस् समुपजायते ।
स्वप्ने स्वप्नपरिज्ञानाद् यथा देहो लघूभवेत् ॥
तथा बोधाद् अयं देहस् स्थूलवत् प्लुतिमान् भवेत् ।
अनेकदिनसङ्कल्पदेहे परिणतात्मनाम् ॥
अस्मिन् देहे शवे दग्धे तत्रैव स्थितिम् ईयुषाम् ।
लघुदेहानुभवनम् अवश्यंभावि वै तथा ॥
प्रबोधातिशयाद् एति जीवताम् अपि योगिनाम् ।
उदितायां स्मृतौ तत्र सङ्कल्पात्माहम् इत्य् अलम् ॥
यादृशस् स भवेद् देहस् तादृशो ऽयं प्रबोधिनः ।
भ्रान्तिर् एवम् इयं भाति रज्ज्वाम् इव भुजङ्गता ।
किं नष्टम् अस्यां नष्टायां जातायां किं प्रजायते ॥
अनन्तरं ते वास्तव्या लीले पश्यन्ति ते यदि ।
तत् सत्यसङ्कल्पतया बुध्यन्ते किं ततः प्रभो ॥
एवं ज्ञास्यन्ति ते राज्ञी दुःखितेयम् इह स्थिता ।
वयस्या काचिद् अन्येयं कुतो ऽप्य् अस्या उपागता ॥
सन्देहः क इवात्रैषां पशवो ह्य् अविवेकिनः ।
यथादृष्टं विचेष्टन्ते कुत एषां विचारणा ॥
यथा लोष्टो लुठन् वृक्षं वञ्चयित्वाशु गच्छति ।
अज्ञात्वैवाज्ञजनता तथाद्र्यग्निसुरादिकम् ॥
यथा स्वप्नवपुर् बोधेन जाने क्वेव गच्छति ।
असत्यम् एव तद् यस्मात् तथैवेहाधिभौतिकम् ॥
भगवन् स्वप्नशिखरी प्रबोधे क्वेव गच्छति ।
इति मे संशयं छिन्धि शरदभ्रम् इवानिलः ॥
स्वप्ने भ्रमे ऽथ सङ्कल्पे पदार्थाः पर्वतादयः ।
संविदो ऽन्तर् मिलन्त्य् एते स्पन्दनान्य् अनिलं यथा ॥
अस्पन्दस्य यथा वायोस् स्वस्पन्दो ऽन्तर् विशत्य् अलम् ।
अस्फुरन्ती तु तेनैव यात्य् एकत्वं तदात्मिका ॥
संवित्स्वप्नार्थयोर् द्वित्वं न कदाचन लभ्यते ।
यथा द्रवत्वपयसोर् यथा वा स्पन्दवातयोः ॥
यस् त्व् अत्र स्याद् द्विताबोधस् तद् अज्ञानम् अनुत्तमम् ।
सैषा संसृतिर् इत्य् उक्ता मिथ्याज्ञानात्मिकोदिता ॥
सहकारिकारणानाम् अभावे किल कीदृशी ।
संवित् स्वप्नपदार्थानां द्वित्वं स्वप्ने निरर्थकम् ॥
यथा स्वप्नस् तथा जाग्रद् इदं नात्रास्ति संशयः ।
स्वप्ने पुरम् असद् भाति सर्गादौ भाति असज् जगत् ॥
न चार्थो भवितुं शक्तस् सत्यत्वे स्वप्नचोदितः ।
संविदो नित्यसत्यत्वं स्वप्नार्थानाम् असत्यता ॥
झगित्य् एव यथाकाशं भवति स्वप्नपर्वतः ।
क्रमेण वा तथा बोधे खं भवत्य् आधिभौतिकः ॥
उड्डीनो ऽयं मृतो वेति पश्यन्ति निकटे स्थिताः ।
ज्ञानातिवाहिकीभूतस्वस्वभावहता यतः ॥
मिथ्यादृष्टय एवेमास् सृष्टयो मोहदृष्टयः ।
मायामात्रदृशो भान्ति शून्यास् स्वप्नानुभूतयः ॥
स्वप्नानुभूतय इमा मरणान्तर्बोधभातेतरभ्रमदृशस् स्फुटसर्गभासः ।
भान्त्य् आतिवाहिकशरीरगतास् समस्ता मिथ्योदिता मृगनदीमरणक्रमेण ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0