मोक्षोपाय · अध्याय 3.58
एतस्मिन्न् अन्तरे ज्ञप्तिर् जीवं वैदूरथं पुरः ।
सङ्कल्पेन रुरोधाशु मनसस् स्पन्दनं यथा ॥
वद देवि कियत् कालो गतो ऽयम् इह मन्दिरे ।
समाधौ मयि लीनायां महीपालशवे स्थिते ॥
इह मासस् त्व् अतिक्रान्त इह दास्याव् इमे उभे ।
रक्षार्थं वासकगृहे स्वपतो वहिते स्थिते ॥
शृणु देहस्य किं वृत्तं तवेह वरवर्णिनि ।
शरीरं किल पक्षेण चोत्क्लिन्नस्नायुतां गतम् ॥
निर्जीवं पतितं भूमौ संशुष्कम् इव पल्लवम् ।
काष्ठकुड्योपसंजातं शवं तुहिनशीतलम् ॥
ततो मन्त्रिभिर् आगत्य मृतैवेयम् इति स्वयम् ।
क्लेदलोकाद् विनिर्णीय भीत्या निष्कालितं गृहात् ॥
बहुनात्र किम् उक्तेन नीत्वा चन्दनदारुभिः ।
चितौ प्रक्षिप्य सघृतं सहसा भस्मसात्कृतम् ॥
ततो राज्ञी मृते ऽत्युच्चैः कृत्वा रोदनम् आकुलः ।
परिवारस् तवाशेषः कृतवान् और्ध्वदेहिकम् ॥
इदानीं त्वाम् इहालोक्य सशरीराम् इहागताम् ।
परलोकाद् आगतेति महच् चित्रं भविष्यति ॥
त्वं तु तेनैव देहेन सत्यसङ्कल्पतस् सुते ।
दृश्यसे स्ववदातेन तेन चित्तं तवोपरि ॥
यद्वासना त्वम् अभवो देहं प्रति तद् एव ते ।
रूपम् अभ्युदितं बाले तेन प्राक्सदृशं तव ॥
स्ववासनानुसारेण सर्वस् सर्वं हि पश्यति ।
दृष्टान्तो ऽत्राविसंवादी बालवेतालदर्शनम् ॥
आतिवाहकदेहासि सम्पन्ना सिद्धसुन्दरी ।
विस्मृतस् तव देहो ऽसौ प्राक्तनो नयतस् स्वयम् ॥
दृढातिवाहिकदृशः प्रशाम्यत्य् आधिभौतिकः ।
बुद्धस्य दृश्यमानो ऽपि शरन्मेघ इवाम्बरे ॥
रूढातिवाहिकीभावश् शवो भवति देहकः ।
निर्जलाम्भोदसदृशो निर्गन्धकुसुमोपमः ॥
अद्यारभ्य प्ररूढायाम् आतिवाहिकसंविदि ।
देहो विस्मृतिम् आयाति गर्भसंस्थेव यौवने ॥
एकत्रिंशे ऽद्य दिवसे प्राप्ता वयम् इहाम्बरम् ।
प्रभाते मोहिते दास्यौ मयैते निद्रयाधुना ॥
तद् एहि यावल् लीलायै लीले सङ्कल्पलीलया ।
आत्मानं दर्शयावो ऽस्यै व्यवहारः प्रवर्तताम् ॥
आवां तावद् इमे लीला पश्यत्व् इत्य् एव चिन्तिते ।
ज्ञप्त्या देव्यौ ततस् तत्र दृश्ये दीप्ते बभूवतुः ॥
सा विदूरथलीलाथ समाकुलविलोचना ।
गृहम् आलोकयाम् आस तत् तेजःपुञ्जभासुरम् ॥
चन्द्रबिम्बाद् इवोत्कीर्णं धौतं हेमद्रवैर् इव ।
ज्वालाया इव शीतायास् सुमध्यम् इव भित्तिमत् ॥
गृहम् आलोक्य पुरतो लीलाज्ञप्ती विलोक्यते ।
उत्थाय सम्भ्रमवती तयोः पादेषु सापतत् ॥
मज्जयायागते देव्यौ जयतं जीवितप्रदे ।
इह पूर्वम् अहं प्राप्ता भवत्योर् मार्गशोधिनी ॥
इत्य् उक्तवत्यां तस्यां ता मानिन्यो मत्तयौवनाः ।
उपाविशन् विष्टरेषु लता मेरुशिरस्स्व् इव ॥
सुते वद कथं प्राप्ता त्वम् इमं देशम् आदितः ।
किं वृत्तं ते त्वया दृष्टं किम् इवाध्वनि कुत्र वा ॥
देवि तस्मिन् प्रदेशे सा जातमूर्छा तदाभवम् ।
द्वितीयेन्दुकलेवाहं कल्पान्तज्वालयावृता ॥
न चेतितं मया किञ्चित् समं विषमम् एव वा ।
ततस् तरलपक्ष्मान्ते विनिमील्य विलोचने ॥
ततो मरणमूर्छान्ते पश्यामि परमेश्वरि ।
यावद् अभ्युत्थितास्म्य् आशु प्लुता च गगनोदरम् ॥
भूताकाशे ऽनिलरथं समारूढास्म्य् अहं तथा ।
आनीता गन्धलेखेव तेनाहम् इमम् आलयम् ॥
इह पश्यामि सदनं नायकेनाभ्यलङ्कृतम् ।
दीप्तदीपं विविक्तं च महार्हशयनान्वितम् ॥
पतिम् आलोकयामीमं यावद् एष विदूरथः ।
शेते कुसुमगुप्ताङ्गो मधुः पुष्पवने यथा ॥
अथ सङ्ग्रामसंरम्भश्रमार्तो ऽयं स्वपित्य् अलम् ।
इति निद्रा मयास्यैवं देवेश्वरि न वारिता ॥
अनन्तरम् इमं देशं प्राप्ते देव्याव् इमे त्व् इति ।
यथानुभूतं कथितं मदनुग्रहकारिणि ॥
हे हंसहारिगामिन्यौ लीले ललितलोचने ।
उत्थापयामो नृपतिं शवतल्पतलाद् इमम् ॥
सेत्य् उक्त्वा मुमुचे जीवम् आमोदम् इव पद्मिनी ।
स समीरलवाकारस् तन्नासानिकटं ययौ ॥
घ्राणकोशं विवेशाशु वंशरन्ध्रम् इवानिलः ।
स्ववासनाशतान्य् अन्तर् दधद् अब्धिर् मणीन् इव ॥
अन्तस्स्थजीवं वदनं तस्य तत्कान्तिम् आययौ ।
पद्मस्यावग्रहे पद्मं प्रविष्टम् इव वारिणि ॥
क्रमाद् अङ्गानि सर्वाणि सरसानि चकाशिरे ।
तस्य पुष्पाकर इव लताजालानि बूभृतः ॥
अथाबभौ कलापूर्णस् स राकायाम् इवोडुराट् ।
भासयन् भवनं भूरि वदनेन्दुमरीचिभिः ॥
स्फारयाम् आस सो ऽङ्गानि रसवन्ति मृदूनि च ।
कनकोज्ज्वलकान्तीनि पल्लवानीव माधवः ॥
उन्मीलयम् आस दृशौ विमलालोककारणे ।
हारिण्यौ सुभगाभोगे चन्द्रार्कौ भुवनं यथा ॥
उत्तस्थौ प्रोल्लसत्कायो विन्ध्याद्रिर् इव वृद्धिमान् ।
उवाच कस् स्थित इह प्रभाकपिशितालयः ॥
लीलाद्वयम् अथास्याग्रे प्रोवाचादिश्यताम् इति ।
स ददर्श पुरो नम्रं लीलाद्वयम् अवस्थितम् ॥
समाधारं समाकारं समरूपं समस्थिति ।
समवाक्यं समोद्योगं समानन्दं समोदयम् ॥
का त्वं केयं कुतश् चेयम् इत्य् आह स विलोकयन् ।
तस्मै लीलाह हे देव श्रूयतां यद् वदाम्य् अहम् ॥
महिला तव लीलाहं प्राक्तनी सह वर्धिता ।
वाग् अर्थस्येव संसक्ता स्थिता संश्लेषशालिनी ॥
इयं लीला द्वितीया ते महिला हेलया मया ।
उपार्जिता त्वदर्थेन कथयिष्ये ऽहम् ईदृशम् ॥
शिरोभागोपविष्टेयं येह हेममहासना ।
एषा सरस्वती देवी त्रैलोक्यजननी शिवा ॥
अस्माकं पुण्यसंभारैर् इह साक्षाद् उपागता ।
अनयासि पराल् लोकाद् इहानीतो महीपतिः ॥
इत्य् आकर्ण्य समुत्थाय राजा राजीवलोचनः ।
लम्बमाल्याम्बरधरः पपात ज्ञप्तिपादयोः ॥
सरस्वति नमस् तुभ्यं सर्वलोकहितप्रदे ।
प्रयच्छ वरदे मेधां दीर्घम् आयुर् धनानि च ॥
इत्य् उक्तवन्तं हस्तेन पस्पर्श ज्ञप्तिदेवता ।
त्वं पुत्राभिमतार्थाढ्यो भवेति वचनान्वितः ॥
सर्वापदस् सकलदुष्कृतदृष्टयश् च गच्छन्तु वश् शमम् अनन्तसुखानि सम्यक् ।
आयान्तु नित्यमुदिता जनता भवन्तु राष्ट्रे स्थिराश् च विलसन्तु सदैव लक्ष्म्यः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0