भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.56

3.56.1

एतस्मिन्न् अन्तरे राजा परिवृत्ताक्षितारकः ।
बभूवैकतनुप्राणस् सद्यश् शुष्कसिताधरः ॥

3.56.2

जीर्णपर्णसवर्णाभः क्षीणपाण्डुमुखच्छविः ।
भृङ्गकूजितसच्छायाश्वासकूटाविकूणितः ॥

3.56.3

महामरणमूर्छान्धकूपे निपतिताशयः ।
अन्तर्निलीननिश्शेषनेत्रादीन्द्रियवृत्तिमान् ॥

3.56.4

चित्रन्यस्त इवाकारमात्रदृश्यो विचेतनः ।
निस्स्पन्दसर्वावयवस् समुत्कीर्ण इवोपले ॥

3.56.5

बहुनात्र किम् उक्तेन तालुदेशेन तं जहौ ।
प्राणः पिपतिषुं वृक्षं सुपक्षीवान्तरिक्षगः ॥

3.56.6

तं ते ददृशतुर् बाले दिव्यदृष्टी नभोगतम् ।
जीवं प्राणमयं संविद्गन्धलेशम् इवानिले ॥

3.56.7

सा जीवसंविद् गगनवातेनावलिता सती ।
खे दूरं गन्तुम् आरेभे वासनानुविधायिनी ॥

3.56.8

ताम् एवानुससाराथ स्त्रीद्वयं जीवसंविदम् ।
भ्रमरीयुगलं वातलग्नां गन्धकलाम् इव ॥

3.56.9

ततो मुहूर्तमात्रेण शान्ते मरणमूर्छने ।
साम्बरे बुबुधे संविद् गन्धलेखेव वयुना ॥

3.56.10

अपश्यत् पुरुषान् याम्यान् नीयमानं च तैर् वपुः ।
बन्धुपिण्डप्रदानेन शरीरं जातम् आत्मनः ॥

3.56.11

मार्गे कर्मफलोल्लासवति दूरतरे स्थितम् ।
वैवस्वतपुरं गन्तुं प्रवृत्तम् अनिवारितम् ॥

3.56.12

प्राप्तं वैवस्वतपुरम् आदिष्टं च ततो यथा ।
अस्य कर्माण्य् अशुभ्राणि नैव सन्ति कदाचन ॥

3.56.13

नित्यम् एवावदातानां कर्तायं शुभकर्मणाम् ।
भगवत्यास् सरस्वत्या वरेणायं विवर्धितः ॥

3.56.14

प्राक्तनो ऽस्य शवीभूतो देहो ऽस्ति कुसुमाम्बरः ।
प्रविशत्व् एष तं गत्वा त्यज्यताम् इत्य् अवेक्ष्य सः ॥

3.56.15

ततस् त्यक्तो नभोमार्गं यन्त्रोपल इव प्लुतः ।
अथ जीवकला लीला ज्ञप्तिश् चेति त्रयं नभः ॥

3.56.16

पुप्लुवे जीवलेखा त्व् अरूपिण्य् एते न पश्यति ।
तम् एवानुसरन्त्यौ ते समुल्लङ्घ्य नभस्तलम् ॥

3.56.17

लोकान्तराण्य् अतीत्याथ विनिर्गत्य जगद्गृहात् ।
द्वितीयं जगद् आसाद्य भूमण्डलम् उपेत्य च ॥

3.56.18

कान्ते सङ्कल्परूपिण्यौ सङ्गते जीवलेखया ।
पद्मराजपुरं प्राप्य लीलान्तःपुरमण्डपम् ॥

3.56.19

क्षणाद् विविशतुस् स्वैरं वायुलेखे यथाम्बुदम् ।
सूर्यातपो यथाम्भोजं सुगन्धः पवनं यथा ॥

3.56.20

ब्रह्मन् प्राप्तः कथम् असौ शवस्य निकटं गृहम् ।
कथं तेन परिज्ञातो मार्गो मृतशरीरिणा ॥

3.56.21

तस्य स्ववासनान्तस्स्थम् अवश्यं किल राघव ।
तत् सर्वं हृद्गतं तस्मान् मासौ प्राप्नोतु तत् कथम् ॥

3.56.22

भ्रान्तिमात्रम् असङ्ख्येयं जगज्जीवकणोदरे ।
बीजे वटतरुम् इव स्थितं को वै न पश्यति ॥

3.56.23

स्वभावभूतं चिदणुस् त्रैलोक्यनिचयं तथा ।
नरो यथैकदेशस्थो दूरदेशान्तरस्थितम् ॥

3.56.24

संपश्यति निधानं स्वं मनसानारतं सदा ।
यथा जीवद्वपुर् जीवमकुरं हृदि पश्यति ॥

3.56.25

तथा स्ववासनान्तस्स्थम् अभीष्ठं परिपश्यति ।
जीवो जातिशताढ्यो ऽपि भ्रमे परिगतो ऽपि वा ॥

3.56.26

भगवन् पिण्डदानादिवासनारहिताकृतिः ।
कीदृक् संपद्यते देहः पिण्डो यस्मै न दीयते ॥

3.56.27

पिण्डो ऽथ दीयतां मात्रे पिण्डो दत्तो ममेति चेत् ।
वासना हृदि संरूढा तत् पिण्डफलभाङ् नरः ॥

3.56.28

यच्चित्तस् तन्मयो जन्तुर् भवतीत्य् अनुभूतयः ।
सदेहेषु विदेहेषु न भवन्त्य् अन्यथा क्वचित् ॥

3.56.29

सपिण्डो ऽस्मीति संवित्त्या निष्पिण्डो ऽपि हि पिण्डवान् ।
निष्पिण्डो ऽस्मीति संवित्त्या सपिण्डो ऽपि न पिण्डवान् ॥

3.56.30

यथाभावनम् एतेषां पदार्थानां हि सत्यता ।
भावना च पदार्थेभ्यः कारणेभ्य उदेति हि ॥

3.56.31

यथा वासनया जन्तोर् विषम् अप्य् अमृतायते ।
असत्यस् सत्यताम् एति पदार्थो भावनात् तथा ॥

3.56.32

कारणेन विनोदेति न कदाचन कस्यचित् ।
कार्यता काचिद् अपि भो इति निश्चयवान् भव ॥

3.56.33

कारणेन विना कार्यम् आ महाप्रलयं क्वचित् ।
न दृष्टं न श्रुतं किञ्चित् स्वयं स्वैकतया ऋते ॥

3.56.34

विद् एव वासना सैव धत्ते स्वप्न इवार्थताम् ।
कार्यकारणताम् एति सैवम् अन्येव तिष्ठति ॥

3.56.35

धर्मो नास्ति ममेत्य् एव यः प्रेतो वासनान्वितः ।
तस्य चेत् सुहृदा भूरिधर्मा कृत्वा समर्पितः ॥

3.56.36

तत्र चात्र स किं धर्मो नष्टस् स्याद् उत भावनम् ।
सत्यार्थाद् वाप्य् असत्यार्थाद् भावनात् किं बलाधिकम् ॥

3.56.37

देशकालक्रियाद्रव्यसम्पद्भ्यश् चेति भावना ।
यत्रैवाभ्युदिता साम्यात् स द्वयोर् अधिको जयी ॥

3.56.38

धर्मदातुः प्रवृद्धा चेद् वासना तत् तया क्षणात् ।
आपूर्यते प्रेतमतिर् नो चेत् प्रेतधियाशु सा ॥

3.56.39

एवं परस्परजयो जयत्य् अत्रातिवीर्यवान् ।
तस्माच् छुभेन यत्नेन शुभाभ्यासम् उपाहरेत् ॥

3.56.40

देशकालाधिका ब्रह्मन् वासना समुदेति चेत् ।
तन् महाकल्पसर्गादौ देशकालोदयः कुतः ॥

3.56.41

कारणैस् समुदेतीदं कैस् तदा सहकारिभिः ।
सहकारिकारणानाम् अभावे वासना कुतः ॥

3.56.42

एवम् एतन् महाभाग सत्यात्मनि कदाचन ।
महाप्रलयसर्गादौ देशकालादि किञ्चन ॥

3.56.43

सहकारिकारणानाम् अभावे सति दृश्यधीः ।
नेयम् अस्ति न चोत्पन्ना न च स्फुरति काचन ॥

3.56.44

दृश्यस्यासम्भवाद् धेतोः किञ्चिद् यद् दृश्यते त्व् इदम् ।
तद् ब्रह्मैव कचद्रूपं स्थितम् इत्थम् अनामयम् ॥

3.56.45

एतच् चाग्रे युक्तिशतैः कथयिष्याम एव ते ।
एतदर्थं प्रयत्नो ऽयं वर्तमानकथां शृणु ॥

3.56.46

तत् ते ददृशतुः प्राप्ते मन्दिरं सुन्दरोदरम् ।
कीर्णं पुष्पोपकारेण वसन्तम् इव शीतलम् ॥

3.56.47

प्रभाताचारसारम्भराजधान्यां समं स्थितम् ।
मन्दारकुन्दस्रग्दामवृन्दाम्बरवलच्छवम् ॥

3.56.48

शवशय्याशिरस्स्थाग्र्यपूर्णकुम्भादिमङ्गलम् ।
अनिवृत्तगृहद्वारगवाक्षकठिनार्गलम् ॥

3.56.49

प्रशाम्यद्दीपिकालोकश्यामलामलभित्तिकम् ।
गृहैकदेशसंसुप्तमुखश्वासससीत्कृतम् ॥

3.56.50

सम्पूर्णचन्द्रशकलोदरकान्तिकान्तसौन्दर्यनिर्जितपुरन्दरमन्दिरर्द्धि ।
वैरिञ्चपद्ममुकुलान्तरचारुशोभा निश्शब्दम् अब्दम् इव निर्मलम् इन्दुकान्तम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc