भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.55

3.55.1

यथैष जन्तुर् म्रियते जायते च यथा पुनः ।
तन् मे कथय देवेशि पुनर् बोधविवृद्धये ॥

3.55.2

नाडीप्रवाहे विधुरे यदा वातविसंस्थताम् ।
जन्तुः प्राप्नोति हि तदा शाम्यतीवास्य चेतनम् ॥

3.55.3

शुद्धं हि चेतनं नित्यं नोदेति न च शाम्यति ।
स्थावरे जङ्गमे व्योम्नि शैले ऽग्नौ पवने स्थितम् ॥

3.55.4

केवलं वातसंरोधाद् यदा स्पन्दः प्रशाम्यति ।
मृत इत्य् उच्यते देहस् तदा स जडनामकः ॥

3.55.5

तस्मिन् देहे शवीभूते वाते खानिलतां गते ।
चेतनं वासनायुक्तं खात्म तत्रैव तिष्ठति ॥

3.55.6

जीव इत्य् उच्यते तस्य नामाणोर् वासनावतः ।
तत्रैवास्ते स च शवागारे गगनके तथा ॥

3.55.7

ततो ऽसौ प्रेतशब्देन प्रोच्यते व्यवहारिभिः ।
चेतनो वासनामिश्रस् सामोदानिलवत् स्थितः ॥

3.55.8

इदं सर्वं परित्यज्य यदास्ते दर्शनान्तरे ।
स स्वप्न इव सङ्कल्प इव नानाकृतिस् तदा ॥

3.55.9

तस्मिन्न् एव प्रदेशे ऽन्तः पूर्ववत् स्मृतिभाग् भवेत् ।
तदैव मृतिमूर्छान्ते पश्यत्य् अन्यच् छरीरकम् ॥

3.55.10

आत्मन्य् अस्थिघटापुष्टम् अन्यस्य व्योम केवलम् ।
आधारे भूतले सार्कम् आकाशजनवासनम् ॥

3.55.11

भवन्ति यद्विधाः प्रेतास् तेषां भेदम् इमं शृणु ।
सामान्यपापिनो मध्यपापिनस् स्थूलपापिनः ॥

3.55.12

सामान्यधर्मा मध्यस्थधर्मा चोत्तमधर्मवान् ।
एतेषां कस्यचिद् भेदो द्वौ त्रयो ऽप्य् अथ कस्यचित् ॥

3.55.13

कश्चिन् महापातकवान् वत्सरान् मृतिमूर्छनाम् ।
विमूढो ऽनुभवत्य् अन्तः पाषाणहृदयोपमाम् ॥

3.55.14

ततः कालेन सम्बुद्धो वासनाजठरोदितम् ।
अनुभूय चिरं कालं वासनादुःखम् अक्षतम् ॥

3.55.15

भुक्त्वा योनिशतान्य् उच्चैर् दुःखाद् दुःखान्तरं गतः ।
कदाचिद् इमम् आयाति संसारस्वप्नविभ्रमम् ॥

3.55.16

अथ वा मृतिमोहान्ते जडां दुःखशताकुलां ।
क्षणाद् वृक्षादिताम् एव हृत्स्थाम् अनुभवन्ति ते ॥

3.55.17

स्ववासनानुरूपाणि दुःखानि नरके पुनः ।
अनुभूयाथ योनीषु जायन्ते भूतले चिरात् ॥

3.55.18

अथ मध्यमपापो यो मृतिमोहाद् अनन्तरम् ।
स शिलाजठरं जाड्यं कञ्चित् कालं प्रपश्यति ॥

3.55.19

ततः प्रबुध्य कालेन केनचिद् वा तथैव वा ।
तिर्यगादिक्रमैर् भुक्त्वा योनीस् संसारम् एष्यति ॥

3.55.20

मृत एवानुभवति कश्चित् सामान्यपातकी ।
स्ववासनानुसारेण देहं सम्पन्नम् अक्षतम् ॥

3.55.21

सङ्कल्प इव सङ्कल्प इव वेत्ति स तादृशम् ।
तस्मिन्न् एव क्षणे तस्य स्मृतिर् इत्थम् उदेत्य् अपि ॥

3.55.22

ये तूत्तममहापुण्यमृतिमोहाद् अनन्तरम् ।
स्वर्गं विद्याधरपुरं स्मृत्यास्व् अनुभवन्ति ते ॥

3.55.23

ततो ऽन्यकर्मसदृशं भुक्त्वान्यत्र निजं फलम् ।
जायन्ते मानुषे लोके सश्रीके सज्जनास्पदे ॥

3.55.24

ये ऽथ मध्यमधर्माणो मृतिमोहाद् अनन्तरम् ।
त इहोत्तारं कुर्वन्तस् स्थितं पश्यन्ति देहकम् ॥

3.55.25

ये ऽथ सामान्यधर्माणो मृतिमोहाद् अनन्तरम् ।
ते व्योमवायुवलिताः प्रयान्त्य् ओषधिपल्लवान् ॥

3.55.26

तत्र चारुफलं भूत्वा प्रविश्य हृदयं नृणाम् ।
ततस् ताम् अधितिष्ठन्ति गर्भे जातिक्रमोदिते ॥

3.55.27

स्ववासनानुसारेण प्रेता एतां व्यवस्थितिं ।
मूर्छान्ते ऽनुभवन्त्य् अन्तः क्रमेणैवाक्रमेण च ॥

3.55.28

आदौ मृता वयम् इति बुध्यन्ते तदनुक्रमात् ।
बन्धुपिण्डादिदानेन प्रोत्पन्ना इति वेदिनः ॥

3.55.29

ततो यमभटा एते कालपाशान्वितास् तथा ।
नीयमानो व्रजाम्य् एभिः क्षणाद् यमपुरं त्व् इति ॥

3.55.30

उद्यानानि विमानानि शोभनानि पुनः पुनः ।
स्वकर्मभिर् उपात्तानि पुण्यानीत्य् एव पुण्यवान् ॥

3.55.31

इमानि कण्टकश्वभ्रशस्त्रपत्त्रवनानि च ।
स्वकर्मदुष्कृतोत्थानि संप्राप्तानीति पापवान् ॥

3.55.32

इयं मे सौम्यसंपाता धरणिश् शीतशाद्वला ।
स्निग्धच्छायासवापीका पुरस्संस्थेति मध्यमः ॥

3.55.33

अयं प्राप्तो यमपुरम् अयम् एष स भूतपः ।
अयं कर्मविचारो मे कृत इत्य् अनुभूतिमान् ॥

3.55.34

इति प्रत्येकम् अभ्येति पृथुस् संसारषण्डकः ।
यथासंस्थितनिश्शेषपदार्थाचारभासुरः ॥

3.55.35

आकाश एव निश्शून्ये शून्यात्मैवं विभोधवान् ।
देशकालक्रियादैर्घ्यभासुरो ऽपि न किञ्चन ॥

3.55.36

इतो ऽयम् अहम् आदिष्टस् स्वकर्मफलभोजने ।
गच्छाम्य् आशु शुभं स्वर्गम् इतो नरकम् एव वा ॥

3.55.37

अयं स्वर्गो मया भुक्तो भुक्तो ऽयं नरको ऽथवा ।
इमास् ता योनयो त्यक्ता जाये ऽहं संसृतौ पुनः ॥

3.55.38

अयं शालिर् अहं जातः क्रमात् फलम् इह स्थितम् ।
इत्य् उदर्कप्रबोधेन बुद्ध्यमानो भविष्यति ॥

3.55.39

संसुप्तवासनस् त्व् एवं बीजतां यात्य् असौ नरे ।
तद्बीजं योनिगलितं गर्भो भवति मातरि ॥

3.55.40

स गर्भो जायते लोके पूर्वकर्मानुसारतः ।
भव्यो भवत्य् अभव्यो वा बालको ललिताकृतिः ॥

3.55.41

ततो ऽनुभवतीदं हि यौवनं मदनोन्मुखम् ।
ततो जरां पद्ममुखे हिमाशनिम् इव च्युताम् ॥

3.55.42

ततो ऽपि व्याधिमरणं पुनर् मरणमूर्छनम् ।
पुनस् स्वप्नवद् आयातं पिण्डैर् देहपरिग्रहम् ॥

3.55.43

याम्यं याति पुनर् लोकं पुनर् एनं भ्रमक्रमम् ।
भूयो भूयो ऽनुभवति व्योम्न्य् एव व्योमरूपवान् ॥

3.55.44

आदिसर्गे यथा देवि भ्रम एव प्रवर्तते ।
तथा कथय मे भूयः प्रसादाद् बोधवृद्धये ॥

3.55.45

परमार्थघनं शैलाः परमार्थघनं द्रुमाः ।
परमार्थघनं पृथ्वी परमार्थघनं नभः ॥

3.55.46

सर्वात्मकत्वात् स यतो यथोदेति चिदीश्वरः ।
परमाकाशशुद्धात्मा तथा तत्र भवत्य् अलम् ॥

3.55.47

सर्गादौ स्वप्नपुरुषन्यायेनादिप्रजापतिः ।
यथा स्फुरत्प्रकचितस् तथाद्यापि स्थिता स्थितिः ॥

3.55.48

प्रथमो ऽसौ प्रतिच्छन्दः पदार्थानां हि बिम्बकम् ।
प्रतिबिम्बितम् एतस्माद् यत् तद् अद्यापि संस्थितम् ॥

3.55.49

यन् नाम सुशिरं स्थानं देहानां तद्गतो ऽनिलः ।
करोत्य् अङ्गपरिस्पन्दं जीवतीत्य् उच्यते ततः ॥

3.55.50

सर्गादाव् एव मे वैषा जङ्गमे ऽधिष्ठिता स्थितिः ।
चेतना अपि निस्स्पन्दास् तेन ते पादपादयः ॥

3.55.51

चिदाकाशो ऽयम् एवांशं कुरुते चेतनोदितम् ।
स एव संविद् भवति शेषं तद् अपि नैव तत् ॥

3.55.52

नरो यदि खुरप्रान्तं चेतत्य् अक्षिपटं न तु ।
तत् तस्य नाक्षिणिर्जीवं नाजीवत्य् एव सर्वतः ॥

3.55.53

तथा खं खतया भूमिर् भूमित्वेनाप्तया जलम् ।
यद् यथा चेतति स्वैरं तद् वेत्त्य् एव तथावपुः ॥

3.55.54

इति सर्वशरीरेण जङ्गमत्वेन जङ्गमम् ।
स्थावरं स्थावरत्वेन सर्वात्मा भावयन् स्थितः ॥

3.55.55

तस्माद् यज् जङ्गमं नाम तत् सचोपनरूपधृत् ।
तेन बुद्धं ततस् तद्वत् तद् एवाद्यापि संस्थितम् ॥

3.55.56

यज् जडाभिधम् आबुद्धं स्थावरं तेन वै पुनः ।
जडम् अद्यापि संविद्धि शिलातरुतृणादि तत् ॥

3.55.57

न तु जाड्यं पृथक् किञ्चिद् अस्ति नापि च चेतनम् ।
नास्ति भेदो ऽत्र सर्गादौ सत्तासामान्यकेन तु ॥

3.55.58

वृक्षाणाम् उपलानां या नामान्तस्स्थास् स्वसंविदः ।
बुद्ध्यादीनीहितान्य् एव तानि तेषाम् इह स्थितिः ॥

3.55.59

विदो ऽन्तस् स्थावरादेर् यास् तस्या बुद्ध्यादयो हि ते ।
अन्याभिधानास् त्व् अन्यार्थास् सङ्केतैर् अपरैस् स्थिताः ॥

3.55.60

क्रिमिकीटपतङ्गानां येषाम् अन्तस् स्वसंविदः ।
तान्य् एव तेषां बुद्ध्यादीन्य् अन्याभिख्यार्थकानि तु ॥

3.55.61

यथोत्तराब्धिजनता दक्षिणाब्धिजनस्थितिम् ।
न किञ्चिद् अपि जानाति निजसंवेदनाद् ऋते ॥

3.55.62

स्वसंज्ञानुभवे लीनास् तथा स्थावरजङ्गमाः ।
परस्परजडास् सर्वे स्वसङ्केतपरायणाः ॥

3.55.63

यथा शिलान्तस्संस्थानां बहिस्स्थानां च वेदनम् ।
असज् जडं च भेकानां मिथोऽन्तस् तस्थुषां तथा ॥

3.55.64

तत्र सर्वगतं चित्त्वाच् चिद्व्योम्ना यत् प्रचेतितम् ।
सर्गादौ चोपनं वायुस् स इहाद्यापि संस्थितः ॥

3.55.65

विदितं यत् तु सौशिर्यं तन् नभस् तत्र मारुतः ।
स्पन्दात्मेत्यादि स महान् पदार्थेष्व् इति चोपनम् ॥

3.55.66

चित्त्वं तु परमार्थेन स्थावरे जङ्गमे स्थितम् ।
चोपनान्य् अनिलैर् एव भवन्ति न भवन्ति च ॥

3.55.67

एवं भ्रान्तिमयं विश्वं पदार्थास् संविदंशवः ।
सर्गादिषु यथैवासंस् तथैवाद्यापि संस्थिताः ॥

3.55.68

यथा विश्वपदार्थानां स्वभावस्य विजृम्भणम् ।
असत्यम् एव सत्याभं तद् एतत् कथितं तव ॥

3.55.69

अयम् अस्तङ्गतप्रायः पश्य राजा विदूरथः ।
मालाशवस्य पद्मस्य पत्युस् ते याति हृद्गुहाम् ॥

3.55.70

केन मार्गेण देवेशि यान्त्यौ वै शवमण्डपम् ।
एनम् एवाशु पशन्त्याव् आवां गच्छाव उत्तमे ॥

3.55.71

मनुष्यवासनान्तस्स्थं मार्गम् आश्रित्य गच्छति ।
एषो ऽहम् अपरं लोकं दूरं यामीति चिन्मयम् ॥

3.55.72

मार्गेणावासनेनैव या वस् तेनैव सम्मतम् ।
परस्परेच्छा संवित्तिर् न हि सौहार्दबन्धिनी ॥

3.55.73

इति विहितकथाशमक्रमायां परमदृशि प्रसृते प्रबोधभानौ ।
नृपतिवरसुतामनस्य् उदारे विगलितविज् जरढो विदूरथो ऽभूत् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc