भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.54

3.54.1

तस्माद् ये वेद्यवेत्तारो ये वा धर्मं परं श्रिताः ।
आतिवाहिकदेहत्वं प्राप्नुवन्त्य् एव नेतरे ॥

3.54.2

आधिभौतिकदेहत्वं मिथ्या भ्रममयात्मकम् ।
कथम् अन्ये स्थितिं यातु च्छायास् ते कथम् आतपे ॥

3.54.3

लीला विदितवेद्या नो परमं धर्मम् आश्रिता ।
केवलं तेन सा भर्तृकल्पितं नगरं गता ॥

3.54.4

एवम् एषा प्रयाता तु भर्ता पश्य ममाम्बिके ।
प्रवृत्तः प्राणसन्त्यागे कर्तव्यम् किम् इहाधुना ॥

3.54.5

भावाभावेषु भावानां कथं नियतिर् आगता ।
कथं भूयो ऽप्य् अनियतिर् मृतिजन्मादिषूचिता ॥

3.54.6

कथं स्वभावसंसिद्धिः कथं सत्ता पदार्थगा ।
कथम् अग्न्यादिषूष्णत्वं पृथ्व्यादौ स्थिरता कथम् ॥

3.54.7

हिमादिषु कथं शैत्यं का सत्ता कालखादिषु ।
भावाभावग्रहोत्सर्गस् स्थूलसूक्ष्मदृशः कथम् ॥

3.54.8

कथम् अत्यन्तम् उच्छ्रायं तृणगुल्माङ्कुरादिकम् ।
वस्तुनायात्य् अनष्टे ऽपि स्थिते स्वोच्छ्रायकारणे ॥

3.54.9

महाप्रलयसंपत्तौ सर्गास्थास्तमये सति ।
अनन्ताकाशम् आशान्तं सद् ब्रह्मैवावतिष्ठते ॥

3.54.10

तच्चिद्रूपतया तेजःकणो ऽहम् इति चेतति ।
स्वप्ने संविद् यथा हि त्वम् आकाशगमनादि वा ॥

3.54.11

तेजःकणो सौस्थूलत्वम् आत्मनात्मनि विन्दति ।
असत्यम् एव सत्याभं ब्रह्माण्डं तद् इदं स्मृतम् ॥

3.54.12

तत्रान्तर् ब्रह्म तद् वेत्ति ब्रह्माहम् अयम् इत्य् अथ ।
मनोराज्यं स कुरुते खात्मैव तद् इदं जगत् ॥

3.54.13

तस्मिन् प्रथमतस् सर्गे या यथा यत्र संविदः ।
कथितास् तास् तथा तत्र स्थिता अद्यापि निश्चलाः ॥

3.54.14

यद् यथा स्फुरितं चित्त्वं तत् तथान्यत्म चिद् भवेत् ।
स्वयम् एवानियमितस् ततस् स्यान् नेह किञ्चन ॥

3.54.15

न च नाम नकिञ्चित्त्वं युज्यते चित्स्वरूपिणः ।
त्यक्त्वा समस्तसंस्थानं हि संतिष्ठतु वै कथम् ॥

3.54.16

सर्गादौ स्वयम् एवान्तश् चिद् यथा कचितात्मनि ।
हिमाग्न्यादितयाद्यापि सा तथास्ते स्वसत्तया ॥

3.54.17

तस्मात् स्वसत्तासन्त्यागस् सतः कर्तुं न युज्यते ।
यदा चिदादेस् तेनेयं नियतिर् न विनश्यति ॥

3.54.18

यद् यथा कचितं यत्र व्योमरूप्य् अपि पार्थिवम् ।
सर्गादौ तस्य चलितुम् अद्य यावन् न युज्यते ॥

3.54.19

या यथा चित् प्रकचिता प्रतिपक्षविदं विना ।
न सा ततः प्रचलति वेदनाभ्यासतस् स्वयम् ॥

3.54.20

जगदादाव् अनुत्पन्नं यच् चेदम् अनुभूयते ।
तत् संविद्व्योमकचनं स्वप्नस्त्रीसुरतं यथा ॥

3.54.21

असत्यम् एव सत्याभं प्रतिभानम् इति स्थितम् ।
इति स्वभावसंवित्तिर् इत्थं भूतानुभूतयः ॥

3.54.22

सर्गादौ या यथा रूढा संवित्कचनसन्ततिः ।
साद्यापि चालितान्येन स्थिता नियतिर् दृश्यते ॥

3.54.23

गृहीतव्योमतासंविच् चिद्व्योम व्योमतां गतम् ।
गृहीतकालतासंविच् चिन्नभः कालतां गतम् ॥

3.54.24

गृहीतजलसंविद् चिद्व्योम वारि व्यवस्थितम् ।
स्वप्ने तथा हि पुरुषः पश्यत्य् आत्मनि वारिताम् ॥

3.54.25

स्वमरुत्संविदा भाति भवत्य् एषा यथास्थिता ।
चिच्चमत्कारचातुर्यम् असद् एतत् समूहते ॥

3.54.26

खत्वं मरुत्त्वम् उर्वीत्वम् अप्त्वम् अग्नित्वम् अप्य् असत् ।
वेत्त्य् अन्तस् स्वप्नसङ्कल्पध्यानेष्व् इव चितिस् स्वयम् ॥

3.54.27

मरणानन्तरं कर्मफलानुभवनक्रमम् ।
सर्वकर्मेहशान्त्यर्थं श्रुतं श्रेयस्करं शृणु ॥

3.54.28

रूढादिसर्गे नियतिर् यैकद्वित्रिचतुर्मिता ।
पुष्ट्यादिष्व् आयुषः पुंसां तस्याथ नियतिं शृणु ॥

3.54.29

देशकालक्रियाद्रव्यशुद्ध्यशुद्धी स्वकर्मणाम् ।
ऊनत्वे चाधिकत्वे च नृणां कारणम् आयुषः ॥

3.54.30

स्वकर्मधर्मे ह्रसति ह्रसत्य् आयुर् नृणाम् इह ।
वृद्धे वृद्धिम् उपायाति समम् एव भवेत् समे ॥

3.54.31

बालमृत्युप्रदैर् बालो युवा यौवनमृत्युदैः ।
वृद्धमृत्युप्रदैर् वृद्धः कर्मभिर् मृतिम् ऋच्छति ॥

3.54.32

यो यथा शास्त्रम् आरब्धं स्वधर्मम् अनुतिष्ठति ।
भाजनं भवति श्रीमान् स यथाशास्त्रम् आयुषः ॥

3.54.33

एवं कर्मानुसारेण जन्तुर् अन्त्यां दशाम् इतः ।
भवत्य् अस्तङ्गतवचो दृङ्मर्मच्छेदिवेदनः ॥

3.54.34

मरणं मे समासेन कथयेन्दुसमानने ।
किं सुखं मरणं किं वा दुःखं मृत्वा च किं भवेत् ॥

3.54.35

त्रिविधाः पुरुषास् सन्ति देहस्यान्ते मुमूर्षवः ।
मूर्खो ऽथ धारणाभ्यासी युक्तिमान् पुरुषस् तथा ॥

3.54.36

अभ्यस्य धारणाश् चेष्टा देहं त्यक्त्वा यथासुखम् ।
प्रयाति धारणाभ्यासी युक्तियुक्तस् तथैव च ॥

3.54.37

धारणा यस्य नाभ्यासं प्राप्ता नैव स मुक्तिभाक् ।
मूर्खस् स्वमृतिकाले ऽसौ दुःखम् एत्य् अवशाशयः ॥

3.54.38

वासनावेशवैवश्यं भावयन् विषयाशयः ।
दीनतां परमाम् एति परिलूनम् इवाम्बुजम् ॥

3.54.39

अशास्त्रसंस्कृतमतिर् असज्जनपरायणः ।
मृताव् अनुभवत्य् अन्तर् दाहम् अग्नाव् इव च्युतः ॥

3.54.40

यदा घर्घरकण्ठत्वं वैरूप्यं दृष्टिवर्णजम् ।
गच्छत्य् एष विनाशात्मा तदा भवति दीनधीः ॥

3.54.41

परमश्यामलालोको दिवाभ्युदितरात्रिकः ।
भ्रमद्दिङ्मण्डलाभोगो घनमेचकिताम्बरः ॥

3.54.42

मर्मव्यथाविधुरितः प्रभ्रमद्वृक्षमण्डलः ।
आकाशीभूतवसुधो वसुधीभूतखान्तरः ॥

3.54.43

परिवृत्तककुप्चक्र उह्यमान इवार्णवे ।
नीयमान इवाकाशे घननिद्रोन्मुखाशयः ॥

3.54.44

अन्धकूपम् इवापन्नश् शिलान्तर् इव योजितः ।
स्वयं जडीभवज्जिह्वो विकर्तित इवाशये ॥

3.54.45

पततीव नभोमार्गाद् घुणावर्त इवार्पितः ।
रथद्रुत इवारूढो हिमवद्गलनोन्मुखः ॥

3.54.46

ज्योत्कुर्वन्न् इव संसारं वह्निमध्यं स्पृशन्न् इव ।
भ्रमितः क्षेपणेणेव वातयन्त्र इव स्थितः ॥

3.54.47

भ्रमितो वा भ्रम इव कृष्टो रशनयेव वा ।
भ्रमन्न् इव जलावर्ते शस्त्रयन्त्र इवार्पितः ॥

3.54.48

प्रोह्यमानस् तृणम् इव महत्य् अर्णवमारुते ।
दूरोढो वारिपूरेण निपतन्न् इव वाडवे ॥

3.54.49

अनन्तगगने श्वभ्रे चक्रावर्ते पतन्न् इव ।
अद्रिद्यूर्वीविपर्यासदशाम् अनुभवन् स्थितः ॥

3.54.50

पतन्न् इवानवरतं प्रोत्पतन्न् इव वाभितः ।
घूत्काराकर्णनोद्भ्रान्तः पूर्णसर्वेन्द्रियव्रजः ॥

3.54.51

क्रमाच् छ्यामलतां यान्ति तस्य सर्वार्थसंविदः ।
यथास्तङ्गच्छन्ति रवौ मन्दालोकतया दिशः ॥

3.54.52

पूर्वापरं न जानाति स्मृतिस् तानवम् आगता ।
यथा पाश्चात्यसन्ध्यान्ते नष्टा दृष्टिर् दिगष्टके ॥

3.54.53

मनःकल्पनसामर्थ्यं जहात्य् अस्य विमोहितः ।
अविवेकेन तेनासौ महामोहे निमज्जति ॥

3.54.54

यदेषन्मोहम् आदत्ते नादत्ते पवनस् तदा ।
न त्व् आदत्ते यथा प्राणान् मोहम् आयात्य् अलं तदा ॥

3.54.55

अन्योऽन्यं पुष्टतां यातैर् मोहात् संवेदनभ्रमैः ।
जन्तुः पाषाणताम् एति स्थितम् इत्य् आदिसर्गतः ॥

3.54.56

व्यथां विमोहं मूर्छां च भ्रमं व्याधिम् अचेतनम् ।
किम् अर्थम् अयम् आयाति देहो खण्डाङ्गवान् अपि ॥

3.54.57

एवं संविदितं कर्म सर्गादौ स्पन्दनं विदः ।
यद्य् अस्मिन् समये दुःखं कालेनैतावतेदृशम् ॥

3.54.58

स्यात् कचत्य् एव विटपगुच्छवत् तत् स्वभावजम् ।
वेत्ति चित्त्वविजृम्भोत्थं नान्यद् अत्रास्ति कारणम् ॥

3.54.59

यदा व्यथावशान् नाड्यस् स्वसङ्कोचविकासने ।
त्यजन्ति मरुतो देहात् परियान्ति निजां स्थितिम् ॥

3.54.60

प्रविष्टा न विनिर्यान्ति निर्याताः प्रविशन्ति नो ।
यदा वाता विनाडित्वात् तदास्पन्दान् मृतिर् भवेत् ॥

3.54.61

न विशत्य् एव वा नैव निर्याति पवनो यदा ।
शरीरान् नाडिवैधुर्ये मृत इत्य् उच्यते तदा ॥

3.54.62

आगन्तव्यं मया नाशं कालेनैतावतेति या ।
पूर्वं संविदिता संविद् याति तच्चोदिता मृतिम् ॥

3.54.63

ईदृशेन मयेहेत्थं भाव्यम् इत्य् आदिसर्गजा ।
संविद् बीजकलानाशं न कदाचन गच्छति ॥

3.54.64

संविदो वेदनं नाम स्वभावो ऽव्यतिरेकवान् ।
तस्मात् स्वभावसंवित्तेर् नान्यन् मरणजन्मनी ॥

3.54.65

क्वचिद् आवर्तवद् दौस्स्थ्यं क्वचिन् नद्यां जलं यथा ।
क्वचित् सौम्यं क्वचिज् जीवधर्मीदं चेतनं तथा ॥

3.54.66

यथा लतायाः पर्वाणि दीर्घाया मध्यमध्यतः ।
तथा चेतनसत्ताया जन्मानि मरणानि च ॥

3.54.67

न जायते न म्रियते चेतनं पुरुषः क्वचित् ।
स्वप्नसम्भ्रमवद् भ्रान्तम् एतत् पश्यति केवलम् ॥

3.54.68

पुरुषश् चेतनामात्रं स कदा क्वेव नश्यति ।
चेतनव्यतिरिक्तं च वदान्यत् किं पुमान् भवेत् ॥

3.54.69

क्वाद्य यावन् मृतं ब्रूहि चेतनं कस्य किं कथम् ।
म्रियन्ते देहलक्षाणि चेतनं स्थितम् अक्षयम् ॥

3.54.70

अमरिष्यत् तु चेच् चित्त्वम् एकस्मिन्न् एव तन्मृते ।
अभविष्यन् सर्व एव मृता एकमृताव् इह ॥

3.54.71

वासनामात्रवैचित्र्यं यज् जीवो ऽनुभवेत् स्वयम् ।
तस्यैव जन्ममरणे नामनी परिकल्पिते ॥

3.54.72

एवं न किञ्चिन् म्रियते जायते न च कश्चन ।
वासनावर्तगर्तेषु जीवो लुठति केवलम् ॥

3.54.73

अत्यन्तासम्भवाद् एव दृश्यस्यासौ च वासना ।
नास्त्य् एवेति विचारेण दृढज्ञाने विनश्यति ॥

3.54.74

अनुदितम् उदितं जगत्प्रबन्धं भवभयतो व्यसनैर् विलोक्य सम्यक् ।
अलम् अनुदितवासनो हि जीवो भवति विमुक्त इतीह सत्यम् अस्तु ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc