मोक्षोपाय · अध्याय 3.53
अथ लब्धवरा देहेनानेनैव महीपतिम् ।
पतिं प्राप्तुं प्रयाम्य् एषा नभोमार्गेण विष्टपम् ॥
इति सञ्चिन्त्य सानन्दम् उद्दाममकरध्वजा ।
पुप्लुवे पेशलाकारा पक्षिणीव नभस्तले ॥
कुमारी तत्र सा प्राप ज्ञप्त्यैव प्रहितां हिताम् ।
स्वसङ्कल्पमहादर्शात् पुरतो निर्गताम् इव ॥
दुहितास्मि सखि ज्ञप्ते स्वागतं ते ऽस्तु सुन्दरि ।
प्रतीक्षमाणा त्वाम् एव स्थितास्मीह नभःपथे ॥
देवि भर्तृसमीपं मां नय नीरजलोचने ।
महतां दर्शनं यस्मान् न कदाचन निष्फलम् ॥
एहि तत्रैव गच्छाव इत्य् उक्त्वा सा कुमारिका ।
पुरस् तस्यास् स्थिता व्योम्नि मार्गदर्शनतत्परा ॥
ततस् तदनुयाता सा प्राप कोटरम् अम्बरम् ।
निर्मलं करवालाङ्गं यथा लक्षणलेखिका ॥
मेघमार्गम् अथोल्लङ्घ्य वातस्कन्धान्तरोत्थिता ।
सूर्यमार्गाद् अतिगता तारामार्गमहीम् इता ॥
वाय्विन्द्रसुरसिद्धानां लोकान् उल्लङ्घ्य लाघवात् ।
ब्रह्मविष्णुमहेशानां प्राप ब्रह्माण्डकर्परम् ॥
हिमशैत्यं यथान्तस्स्थं कुम्भभित्तेर् बहिर् भवेत् ।
तथा सङ्कल्पसिद्धा सा ब्रह्माण्डान् निर्गता बहिः ॥
स्वचित्तमात्रदेहैषा स्वसङ्कल्पप्रभावजम् ।
अन्तरे वानुभवति किलैवं नाम विभ्रमम् ॥
ततो ब्रह्माण्डपारस्थाञ् जलाद्यावरणान् नव ।
समुल्लङ्घ्य पुरः प्राप महाचिद्गगनान्तरम् ॥
अदृष्टपारपर्यन्तम् अतिवेगेन धावता ।
सर्वतो गरुडेनापि कल्पकोटिशतैर् अपि ॥
तत्र ब्रह्माण्डलक्षाणि सन्त्य् असङ्ख्यानि भूरिशः ।
अन्योऽन्यं तान्य् अदृष्टानि फलानीव महावने ॥
तत्रैकस्मिन् पुरस्संस्थे विततावरणान्विते ।
वेधयित्वा विवेशान्तर् वदनं क्रिमिको यथा ॥
पुनर् ब्रह्मेन्द्रविष्ण्वादि लोकान् उल्लङ्घ्य भासुरान् ।
सा महीमण्डलं श्रीमत् प्राप तारापथाद् अधः ॥
तत्र तन् मण्डलं प्राप्य तत्पुरं तं च मण्डपम् ।
प्रविश्य पुष्पगुप्तस्य शवस्य निकटे स्थिता ॥
एतस्मिन्न् अन्तरे सात्र न ददर्श कुमारिकाम् ।
मायाम् इव परिज्ञातां क्वापि यातां वरानना ॥
मुखम् आलोक्य सा तस्य स्वभर्तुश् शवरूपिनः ।
इदं बुद्धवती सत्यं प्रतिभावशतस् स्वतः ॥
अयं स भर्ता संग्रामे निहतो मम सिन्धुना ।
वीरलोकान् इमान् प्राप्य क्षणं शेते यथासुखम् ॥
अहं देव्याः प्रसादेन सशरीरैनम् ईदृशम् ।
इह प्राप्तवती धन्या मदन्या नास्ति काचन ॥
इति सञ्चिन्त्य सा हस्ते गृहीत्वा चारुचामरम् ।
वीजयाम् आस चान्द्रेण तं द्यौर् वावनिमण्डलम् ॥
ते भृत्यास् ताश् च वा दास्यस् स राजा वा प्रबुद्धवान् ।
वक्ष्यन्ति वदतां देवि किं कयेव कथं धिया ॥
स राजा सा च ते भृत्यास् सर्व एव परस्परम् ।
चिदाकाशैकतायोगाद् आवयोश् च प्रभावतः ॥
महाचित्प्रतिभासाश् च महानियतिनिश्चयात् ।
अन्योऽन्यम् एवं वेत्स्यन्ति मिथस् सम्प्रतिबिम्बितम् ॥
इयं मे सहजा भार्या ममेयं सहजा सखी ।
ममेयं सहजा राज्ञी भृत्यो ऽयं सहजो मम ॥
केवलं त्वम् अहं सा च यथावृत्तम् अखण्डितम् ।
ज्ञास्याम महदाश्चर्यं न तु कश्चिद् अपीतरः ॥
अमुनैव शरीरेण किमर्थं नागता पतिम् ।
एषा वरे ऽपि संप्राप्ते लीला ललितवादिनि ॥
अप्रबुद्धधियस् सिद्धलोकान् पुण्यवशोदितान् ।
न समर्थास् स्वदेहेन प्राप्तुं छाया इवातपान् ॥
आदिसर्गे हि नियतिस् स्थापितेति प्रबोधिभिः ।
यथा सत्यम् अलीकेन न मिलत्य् एव किञ्चन ॥
यावद् वेतालसङ्कल्पो बालस्य किल विद्यते ।
निर्वेतालधियस् तावद् उदयस् तस्य कः कथम् ॥
अविवेकज्वरोष्णत्वं विद्यते यावद् आत्मनि ।
तावद् विवेकशीतांशुशैत्यं कुत उदेत्य् अलम् ॥
अहं पृथ्व्यादिदेहः खेगतिर् नास्ति ममोत्तमा ।
इति निश्चयवान् यो ऽन्तः कथं स्यात् सो ऽन्यनिश्चयः ॥
अतो ज्ञानविवेकेन पुण्येनाथ वरेण वा ।
पुण्यदेहे न गच्छन्ति परं लोकम् अनेन नो ॥
शुष्कपर्णं किलाङ्गारे पतद् एवाशु दह्यते ।
अयं देवमयीं देहः प्राप्त एव विशीर्यते ॥
एतावद् एव भवति वरलाभविजृम्भितैः ।
यथा संवित् स एवाहं तथा स्मृत इति स्थितिः ॥
यस् सर्पप्रत्ययो रज्ज्वां स कथं सर्पकार्यकृत् ।
आत्मन्य् एव हि यो नास्ति तस्य का कार्यकारिता ॥
यत् त्व् एतन् मृत इत्य् एव मिथ्या समनुभूयते ।
प्रागभ्यासस्य पुष्टस्य नामैतत् प्रविजृम्भितम् ॥
स्वानुभूते जगज्जाले सुगमे संसृतिभ्रमः ।
नान्यसङ्कल्पिते नाम सर्गाद्यभ्यास ईदृशः ॥
अन्तर् अनुभूयमानास् संसृतयो बाह्यभूतजालानाम् ।
अविदितवेद्यदृशाम् अतिदूरे पुंसाम् इवैन्दवं बिम्बम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0