मोक्षोपाय · अध्याय 3.52
एतस्मिन्न् अन्तरे लीला समुवाच सरस्वतीम् ।
श्वासावशेषम् आलोक्य पूर्वं भर्तारम् अग्रगम् ॥
प्रवृत्तो देहम् उत्स्रष्टुं मद्भर्तायम् इहाम्बिके ।
स्थिता च मृतकल्पेयं लीला निस्स्पन्दगात्रिका ॥
देहेनानेन गन्तव्यम् अनया वीरभार्यया ।
यत्रावाभ्यां च तत् स्थानं कथं गन्तव्यम् अम्बिके ॥
एवंरूपमहारम्भे सङ्ग्रामे राष्ट्रसम्भ्रमे ।
संपन्ने ऽपि स्थिते ऽप्य् उच्चैर् विचित्रारम्भमन्थरे ॥
न किञ्चिद् अपि संपन्नं राष्ट्रं न च महीतलम् ।
न स्थितं क्वचनाप्य् एवं स्वप्नात्मकम् इदं यतः ॥
तस्य त्वन्मण्डपस्यान्तश् शवस्य निकटाम्बरे ।
इत्थं भूराष्ट्रम् आभाति भर्तृजीवस्य ते ऽनघे ॥
अन्तःपुरगृहं ते तद् इदं राष्ट्रान्वितोदरम् ।
वसिष्ठविप्रगेहे ऽन्तश् शवगेहे जगत् स्थितम् ॥
एवम् एष महारम्भो जगत्त्रयमयो भ्रमः ।
त्वया मयानयानेन संयुक्तस् सार्णवावनिः ॥
गिरिग्रामकगेहे ऽन्तर् मध्ये गगनकोशके ।
खात्मावकचति व्यक्तो न कचत्य् एव वा क्वचित् ॥
एवम् आरम्भघनयोर् अपि मण्डपयोस् तयोः ।
उदरे शून्यम् आकाशम् एवास्ति न जगद्भ्रमः ॥
भ्रमद्रष्टुर् अभावे हि कीदृशी भ्रमता भ्रमे ।
नास्त्य् एव भ्रमसत्ता तु यद् अस्ति तद् अजं पदम् ॥
भ्रमे दृश्यम् असत् तस्य द्रष्टुर् द्रष्टृदशा कुतः ।
द्रष्टृदृश्यक्रमाभावाद् अत्र यत् सहजं हि तत् ॥
तत् पदं परमं विद्धि नाशोत्पादविवर्जितम् ।
स्वकं कचति चाभातं शान्तम् आद्यम् अनामयम् ॥
किल मण्डपगेहान्तस् स्वस्वभावोदितात्मनि ।
विहरन्ति जनास् तत्र स्वगृहे संव्यवस्थया ॥
न जगत् तत्र नो सर्गः कश्चित् तैर् अनुभूयते ।
तेनाहं जगद् आकाशम् अजम् इत्य् एव वच्मि ते ॥
सर्वं शून्यात्मविज्ञानं मेर्वादिगिरिजालकम् ।
नेदं कुड्यमयं किञ्चिद् यथा स्वप्ने महापुरम् ॥
देशे प्रादेशमात्रे ऽपि गिरिजालमयान्य् अपि ।
वज्रसाराणि खान्य् एव सम्भवन्त्य् अणुके ऽणुके ॥
कदलीपल्लवापीडसन्निवेशेन भूरिशः ।
त्रिजगच् चिदणाव् अन्तर् अस्ति स्वप्नपुरं यथा ॥
तस्याप्य् अन्तर् विभागेन क्रमाद् एकैकशो जगत् ।
तेषां यस्मिञ् जगत्य् एव पद्मो राजा शवस् स्थितः ॥
लीला तव सपत्नी तं प्राप्ता पूर्वतरं शुभे ।
यदैव मूर्छाम् आयाता लीलेयं पुरतस् तव ।
तदैव भर्तुः पद्मस्य शवस्य निकटे स्थिता ॥
कथम् एषा गता देवि सम्पन्ना तत्र देहिनी ।
कथं कथं वा तत्पत्नीभावम् आप्तवती स्थिता ॥
ते वास्या वद किं रूपं पश्यन्त्य् अथ वदन्ति किम् ।
तद्गेहवरवास्तव्यास् समासेनेति मे वद ॥
शृणु सर्वं समासेन यथादृष्टं वदामि ते ।
लीले लीलास्ववृत्तान्तम् अन्तदं दृश्यदुर्दृशाम् ॥
पद्म एव स भर्तैष भ्रान्तिं तावत् तताम् इमाम् ।
इत्थं जगन्मयीं स्वस्मिन्न् एव सद्मनि पश्यति ॥
भ्रान्तियुद्धम् इदं युद्धम् इमे भ्रान्तिजना जनाः ।
भ्रान्त्यैवास्तीह मरणम् एष चैव भ्रमात्मकः ॥
भ्रमक्रमेणानेनैव लीलास्य दयिता स्थिता ।
त्वं चैषा च वरारोहे स्वप्नमात्रा वराङ्गने ॥
तथा भवत्योर् भर्तैष तथैवाहम् अपि स्वयम् ।
जगच्छोभैव संसारे दृश्यसे तद् इहोच्यते ॥
एतद् एव परिज्ञातं दृश्यशब्दार्थम् उज्झति ।
एवम् एषा त्वम् एवं च सम्पन्नैवम् असौ नृपः ॥
अहं चात्मनि सत्यत्वगतास् सर्वतयात्मनः ।
इमे वयम् इहान्योऽन्यं सम्पन्नास् स्वोदिता इव ॥
इत्थं सर्वात्मकतया महाचिद्घनसंस्थितेः ।
एवम् एषा स्थिता राज्ञी हारिहासविलासिनी ॥
लीलाविलोलनयना नवयौवनशालिनी ।
पेशलाचारमधुरा मधुरोदारभाषिणी ॥
कोकिलस्वरसङ्काशा मदमन्मथमन्थरा ।
असितोत्पलपत्त्राक्षी वृत्तपीनापयोधरा ॥
कान्तकाञ्चनगौराङ्गी पक्वबिम्बफलाधरा ।
त्वत्सङ्कल्पात्मकस्यैषा यथा भर्तुर् मनःकला ॥
तदा त्वत्सदृशाकारा स्थितैषा चिच्चमत्कृतौ ।
त्वद्भर्तृमरणे क्षिप्रं समनन्तरम् एव हि ॥
त्वद्भर्तैषा पुरो दृष्टा त्वत्सङ्कल्पात्मनाणुना ।
यदाधिभौतिकं भावं चेतो ऽनुभवति स्वयम् ॥
वेत्त्य् असन्मयम् एवात आतिवाहिककल्पनम् ।
यदाधिभौतिकं भावं वेत्त्य् एतं तु न सन्मयम् ॥
आतिवाहिकसङ्कल्पस् तदा सो ऽन्यस्य जायते ।
अतो मरणसंवित्त्या पुनर्जन्ममये भ्रमे ॥
त्वं हि संविदितानेन त्वयावगत एष सः ।
इत्थं त्वां दृष्टवान् एष दृष्टश् चैष त्वयेति च ॥
त्वम् अस्यात्मनि संपन्ना सर्वगत्वाच् चिदात्मनः ।
ब्रह्म सर्वगतं यस्माद् यथा यत्र यदोदितम् ॥
भवत्य् आशु तथा तत्र तत् स्वशक्त्यैव पश्यति ।
सर्वत्र सर्वशक्तित्वाद् यत्र यां शक्तिम् उन्नयन् ॥
आस्ते तत्र तथा भाति तीव्रसंवेगहेतुतः ।
मृतिमोहक्षणेनैव तद् एतौ दम्पती स्थितौ ॥
तदैवाभ्याम् इदं बुद्धं प्रतिभासवशाद् धृदि ।
आवयोः पितराव् एताव् इमे चैवापि मातरौ ॥
देह एष धनं चेदं कर्मेदं पूर्वम् ईदृशम् ।
आवां विवाहिताव् एवम् एवं नामैकतां गतौ ॥
एतयोश् चापि जनता याता तत्रैव सत्यताम् ।
तथैवात्रास्ति दृष्टान्तः प्रत्यक्षस् स्वप्नवेदनम् ॥
इत्य् एवंभावया लीले लीलयाहम् अथार्चिता ।
माहं स्यां विधवेत्य् एवं वरो दत्तो मयाप्य् असौ ॥
इत्य् अर्थीव मृता पूर्वम् एषेह खलु बालिका ।
भवतां चेतनांशानाम् अहं चेतनधर्मिणी ॥
कुलदेवी सदा पूज्याप्य् अत एतत् करोम्य् अहम् ।
अथास्या जीवको देहात् प्राणमारुतरूपधृत् ॥
मनसा वलितः प्राप्तो मुखाग्रं त्यक्तदेहकः ।
ततो मरणमूर्छान्ते गृहे ऽस्मिन्न् एव चैतया ।
बुद्धो भावित आकारो दृष्टो जीवात्मना ततः ॥
सम्पन्नैषा हरिणनयना पूर्णचन्द्राननश्रीर् मानोन्नद्धा दयितवलिता कान्तम् आभोक्तुकामा ।
पूर्वस्मृत्या सरभसमुखी संयतान्तस्स्वभावा स्वप्नस्थेव प्रकृतविभवा पद्मिनीवोदितेव ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0